राजधर्मः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



धर्मः नाम एकं जीवनव्यापि तत्त्वम् । स्वाभाविकतया तत्र राजधर्मस्यापि अन्तर्भावः अस्ति । राजधर्मप्रकरणे राज्ञः कर्तव्यानि वर्णितानि सन्ति । तस्मात् भावार्थोऽयं निष्पद्यते यद् राज्ञा अपि धर्मस्य अनुशासने वर्तितव्यम् इति । शतपथब्राह्मणे उक्तं यद् धर्मः शासकस्यापि शासकः अस्ति । एवं प्रभुसत्ता धर्मे एव निहिता वर्तते । महाभारतेऽपि उक्तं यद् राज्याभिषेकसमये राजा प्रतिज्ञां करोति यत् अहं धर्मस्य मार्गदर्शनानुसारमेव शासनं करिष्यामि न स्वेच्छया । तत्रोक्तम्-

प्रतिज्ञां चावरोहस्व मनसा कर्मणा गिरा ।
पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् ॥
यश्चात्र धर्म इत्युक्ते दण्डनीतिव्यपाश्रयः ।
तमशङ्कः करिष्यामि स्ववशे न कदाचन ॥

धर्मस्य सर्वोपरि श्रेष्ठत्वं बृहदारण्यकेऽपि प्रतिपादितम् । तत्रोक्तम् – तदेतत् क्षत्रस्य क्षत्रत्वं यद्धर्मः । तस्मात् धर्मं परमं वदन्ति । अथोऽबलियान् बलीयांसमाशंसते धर्मेण यथा ।

धर्मस्य कारणेनैव राजा प्रतिष्ठां प्राप्नोति । धर्मात् न कोऽपि गरीयान् । धर्मः शासनस्य साहाय्येन बलहीनम् अपि बलवता सार्धं संघर्षे विजयं प्रापयति । डा. स. राधाकृष्णन्-महोदयैः वचनमिदं संविधानपरिषदि विधिनियमानां श्रेष्ठत्वं स्थापयितुकामैः उद्धृतम् आसीत् । सुप्रसिध्दे 'धर्म एव हतो हन्ति धर्मे रक्षति’ इत्यस्मिन् वचने विधिनियमानां प्रभुत्वं (Rule of Law) प्रगीतं वर्तते । तत्र भावोऽयं प्रदर्शितः यद् अनुशासितः समाजः तदा आविर्भवेत् यदा प्रत्येकः धर्मव्यवस्थानुसार वर्तेत् नाम धर्मं रक्षेत् । तदा धर्मोऽपि व्यक्तिगतान् अधिकारान् संरक्षितुं प्रभवेत् इति । अस्मिन् राजधर्मप्रकरणे मनुः आह –

यथा सर्वाणि भूतानि धरा धारयते समम् ।
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ ९-३११ ॥

यथा भूमाता सर्वेभ्यः भूतेभ्यः समानमेव आधारं प्रयच्छति तथैव राजा विना पक्षपातं सर्वाभ्यः प्रजाभ्यः आश्रयं दद्यात् । नारदस्तु सर्वमतसमभावं विशेषतया उपदिशति । तद्यथा –

पाषण्डनैगमश्रेणीं पूगव्रातगणादिषु ।
संरक्षेत् समयं राजा दुर्गे जनपदे तथा ॥

राजा सर्वेभ्यः वेदप्रामाण्यवादिभ्यः तथा वेदविरोधिभ्यः अपि सममेव संरक्षणं दद्यात् । राज्ञः प्रमुखं कर्तव्यं तु प्रजायाः पालनम् । तत्र महर्षिः वेदव्यासः राजलक्षणम् उपवर्णयति । तद्यथा –

पुत्र इव पितृगृहे विषये यस्य मानवाः ।
निर्भया विचरिष्यन्ति स राजा राजसत्तम ॥
यथा पुत्रः पितृगृहे विषये यस्य मानवाः ।
निर्भया विचारिष्यन्ति स राजा राजसत्तम् ॥

यथा पुत्रः पितृगृहे निर्भयं विचरति तथा यस्य राज्ये प्रजाः निर्भयं निवसन्ति स एव राजसु श्रेष्ठः । भागवतेऽपि प्रोक्तम्- सर्वाः समुद्धरेद्राजा पितेव व्यसनात् प्रजाः । रामायणे अरण्यकाण्डे मुनयः रामचन्द्रम् उपदिशन्ति –

अधर्मः सुमहान् तात् भवेत् तस्य तु भूपतेः ।
यो हरेत् बलिषड्भागं न च रक्षति पुत्रवत् ॥

यः प्रजाभ्यः कररुपेण राजस्वं प्राप्नोति परंतु तेषाम् पुत्रवत् रक्षणं च करोति स अधर्मं चरति इति । महाभारते तु प्रोक्तं यद् यदि रक्षणं प्रतिश्रुत्य राजा तदनुसारं प्रजायाः संरक्षणं न विदधाति तर्हि उन्मादयुतः कुक्कुरः इव स हन्तव्यः । तद्यथा –

अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ म. भा. १३-६१३३

प्रजापालने सर्वप्रकारकाभ्यः आपदभ्यः अपि संरक्षणं समाविष्टम् अस्ति । तत्रोक्तम् आपस्तम्बधर्मसूत्रे –

न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां नावसीदेत् कश्चित् ।

न कोऽपि क्षधया, व्याधिजनितेन अकालमृत्युना तथा शीत-आतप-प्रकोपात् निधनं प्रप्नुयात् इति । शासनस्य कर्मचारिणः अपि प्रायः शठत्वम् आश्रित्य प्रजायाः धनं हरन्ति । तेभ्यः अपि राजा प्रजायाः रक्षणं कुर्यात् । तत्रोक्तम्

राज्ञो हि रक्षाधिकृताः परस्वाकाङ्क्षिणः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥

तत्र तेषां दण्डोऽपि निर्दिष्टः- तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनम् । तेषां सर्वस्वम् आहृत्य तेषां निर्वासनं कुर्यात् । कौटिल्यः स्वस्य अर्थशास्त्रग्रन्थे राज्ञः शासनकर्मणि दिग्दर्शकं सूत्रं निर्दिशति –

प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
नात्मप्रियं हितं प्रजानां तु प्रियं हितम् ॥

राज्ञा प्रजानां सुखे स्वस्य सुखं तथा तेषां कल्याणे स्वस्य कल्याणं मन्तव्यम् । यत् केवलं स्वस्यैव रुचये भवति तन्न हितकरम्, अपि तु यत् प्रजाभ्यः रुचिकरं तदेव परमार्थेन हितकरम् इति राजा चिन्तयेत् ।

अस्मिन् सन्दर्भे भवभूतिलिखिते उत्तररामचरिते रामस्य आदर्शभूतः विचारः द्रष्टव्यः-

स्नेहं दयां च सौख्यं च अपि वा जानकीमपि ।
आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥

अत्रिसंहितायां राज्ञः पञ्चविधानि कर्तव्यानि निर्दिष्टानि –

दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोषस्य च संप्रवृध्दिः ।
अपक्षपातोऽर्थिषु राष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥

अत्र न्यायार्थिषु पक्षपातराहित्यम् इति विशेषः द्रष्टव्यः

कस्यापि शासनस्य प्रगतिः तदन्तर्गतानां केवलम् उद्योगानां समृध्दया एव कल्पनीया उत नीतिमूल्यानां समाजे प्रभावदर्शनात् इति सम्यक् विचारणीयं खलु । तत्र राजा जनकः साभिमानं ब्रूते-

न मे स्तेनो जनपदे न कदर्यो न च मद्यपः ।
नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतः ॥

मम राज्ये न कोऽपि चोरः न कृपणः न मद्यपः न वा कोऽपि अधार्मिकः निरक्षरो वा विद्यते । न तत्र कश्चित् स्वैराचारी दॄष्टिपथम् आयाति तदा स्वैराचारिणी स्त्री कथं स्यात् ।

"https://sa.wikipedia.org/w/index.php?title=राजधर्मः&oldid=410380" इत्यस्माद् पुनः प्राप्तिः