राणीबायी
अस्माकम् इतिहासे नारीरत्नाणां पात्रं महत् अस्ति । सर्वस्वम् अर्पितवतीनां तासां कथाः पठामश्चेत् तासां पादयोः नतमस्ताकाः भवामः । पूर्वजानां वीरकथाः , तेषाम् आदर्शजीवनस्य इतिहासं च ये देशाः विस्मृतवन्तः ते देशाः कतिपयवर्षानन्तरं पतनं प्राप्तवन्तः सन्ति । तस्य देशस्य संस्कृतिः संस्कारश्च नष्टौ भवतः । एतस्यां पृष्टभूमिकायां राणीबाय्याः जीवनस्य महत्त्वम् अस्ति ।
क्रि.श.अष्टमे शतके भारतस्य उपरि विदेशीयाः अक्रमणं कृतवन्तः । अस्मिन्नेव काले भारते यवनानां प्रवेशः जातः। तेषाम् अक्रमणम् अमानुषीयम् आसीत् । देशे तदा सिन्धराज्ये दाहिरः राजा आसीत् । एतस्य पत्नी एव राणीबायी ।
यवनानां भारतस्य उपरि आक्रमणात् पूर्वम् अरब्बजनाः पश्चिमयूरोपस्य तथा हिन्दूराज्यानाम् उपरि आक्रमणं कृतवन्तः ।
अरब्बसेनानायकस्य कासिमस्य आक्रमणम्
[सम्पादयतु]बाग्दाद्देशे तदा नूतनः खलीफः आगतः आसीत् । अल्हजाजः तस्य प्रतिनिधिरूपेण टर्कि, इरान् देशयोः शासनं करोति स्म । एतस्य जामाता महम्मद् बिन् कासिमः श्वसुरस्य परतया खलीफस्य आज्ञनुसारं सिन्धदेशस्य उपरि क्रि.श. ७१२ तमे वर्षे अक्रमणं कृतवान् । वीरराजः दाहिरः कासिमस्य सैन्यं पराजितवान् । कासिमः बहु हठवादी । पञ्चदशवारं सिन्धराज्यस्य उपरि आक्रमणं कृतवान् । पञ्चदशवारमपि कासिमः पराजितः जातः । कासिमः पुनः महासैन्येन सह 'देवल' नगरस्य उपरि आक्रमणं कृत्वा तत् नगरं नाशितवान् । अनेकान् देवालयान् नाशयित्वा 'नैरन्’ नगरं प्रविष्टवान् । एतत् नगरं सिन्धूनद्याः तटे अस्ति इत्यतः तस्य सुलभतया तस्य वशीकरणं शक्यम् इति तस्य विश्वासः आसीत् । महन्तं प्लवं कृत्वा नद्याः अतिक्रमणस्य योजनां कृतवान् । राजा दाहिरः तं सम्मुखीकर्तुं सैन्यं सज्जीकृतवान् । तस्य राजधानी 'आलोरा’ । किन्तु सिन्धूनद्याः अस्मिन् तटे विद्यमानस्य रावर्नगरस्य दुर्गतः आक्रमणकरणं योग्यम् इति चिन्तितवान् । तथैव महाराज्ञी राणीबायी तथा युवराजः जयसिंहः 'रावर्’दुर्गं प्रविष्टवन्तः । नदीं क्रान्त्वा कासिमः अपि 'रावर्’ दुर्गस्य उपरि आक्रमणं कृतवान् । बहुकालं यावत् युद्धं प्राचलत् । अल्बिलादर् इति कश्चित् इतिहासकारः एतस्य युद्धस्य विषये एवं लिखति 'एतावत्दीर्घकालं प्रवृत्तं भयानकं युद्धम् अस्माकम् इतिहासे अन्यत् नास्ति ’ इति ।
वञ्चनया दाहिरस्य पराजयः
[सम्पादयतु]युद्धं समाप्तम् इति सूचना प्राप्ता । तदनन्तरं शस्त्राणि अन्तः स्थापितानि । तदा कासीमस्य सैनिकाः वञ्चनया पुनः आक्रमणं कृतवन्तः । पत्युः मरणस्य वार्तां श्रुतवती महाराज्ञी कोपोद्रिक्ता जाता । यवनानां नाशाय खड्गं गृहीतवती । (‘चाच् नामा’ ग्रन्थे यवनानां नाशाय पञ्चदशसहस्त्रसैनिकैः सह राणीबायी भयङ्करम् आक्रमणं कृतवती इति उल्लेखः अस्ति ।) युद्धं कुर्वती सैनिकेषु रणोत्साहं पूरयन्ती राणीबायी उकतवती "वीराः ! पदम् अग्रे संस्थाप्य हठात् अग्रे प्रविशन्तुं ! एतस्मात् पवित्रभारतात् धर्मद्रोहिणः प्रहार्य इतः प्रेषणस्य कालः सन्निहितः अस्ति । एकैकस्य हिन्दोः अपि एतत् कर्तव्यम् । गोब्राह्मणानां , दीनदलितानां, तथा आर्यधर्मस्य च रक्षणेन वयं धन्याः भवामः” इति निमन्त्रितवती । किन्तु अन्ते राज्ञी पराजिता जाता । दुर्गम् अरब्बजनानां वशे अभवत्।
राज्ञ्याः आत्मार्पणम्
[सम्पादयतु]एतत् सर्वं ज्ञातवती राणीबायी अन्तिमकर्तव्यपालनविषये विलम्बः न करणीयः इति चिन्तितवती । दुर्गे विद्यमानाः सर्वाः महिलाः आहूय एवम् उक्तवती । "गोहत्याकर्तॄणां हस्ते स्वातन्त्र्यं प्राप्तम् अस्ति । यत्किमपि अस्माभिः तेषां दास्यं न अङ्गीकरणीयम् । अस्माकं सतीत्त्वं नाशयित्वा पराधीनाः सत्यः जीवनयापनं हिन्दूस्त्रीणां कृते न शोभते । वीरनारीणां योग्यः यः धर्मः अस्ति तस्य आचरणेन कर्तव्यपालनं कुर्मः । एतत् विवरणं कपोलकल्पितं न । 'चाच् नामा’ ग्रन्थे इतिहासकारः विस्तृतरूपेण एतस्य विवरणं कृतवान् अस्ति । विशालः कश्चन अग्निकुण्डः सज्जीकृतः । रक्तवर्णस्य वस्त्राणि धृत्वा , भगवतः तथा धर्मस्य साक्ष्या प्रथमं महाराज्ञी राणीबायी ज्वलति अग्नीकुण्डे कूर्दितवती । अग्नेः ज्वालाः आकाशपर्यन्तं स्पृशन्ति स्म । राणीबाय्याः स्नुषाः तथा शतषः स्त्रियः राणीबायीम् अनुसृत्य भस्मीभूताः ।
राजकुमार्योः प्रतीकारः
[सम्पादयतु]एषः वर्षः इतिहासे स्वर्णाक्षारैः लेखनस्य वर्षः । अस्मिन्नेववर्षे राणीबाय्याः शरीरत्यागतः जौहरपद्धतिः प्रचलने आगता । 'आलोर्’ नगरे दाहिरस्य द्वे अविवाहिते राजकुमार्यौ आस्ताम् । 'प्रियंवदा’ 'रेणुमती’ च अप्रतिमसौन्दर्यवत्यौ आस्ताम् । कासिमः ते बद्धवान् । राज्यकोषस्य लुण्ठणं कृत्वा स्वेन राजाकुमार्यौ अपि स्वीकृत्य अल्हजाजाय समर्पितवान् । अल्हजाजः सेनापतिद्वारा सर्वं बाग्दाद् नगरं प्रति खलीफस्य कृते प्रेषितवान् । खलीफः तयोः राजकुमार्योः सौन्दर्येण आकृष्टः सन् स्वस्य अन्तःपुरे स्थापितवान् । महासेनाधिपतिं कासिमं दूरस्थप्रान्त्यस्य रक्षणार्थं प्रेषितवान् । कातिपयदिनानन्तरं खलीफः 'राजाकुमार्यौ अहं वृणोमि’ इति प्रकटितवान् । तदा राजकुमार्यौ 'आगमनसमये मार्गे कासिमः आवाम् ऊढवान्’ इति वदन्त्यौ "स्वस्य विवाहितपत्न्यौ यजमानस्य कृते उपायनरूपेण दानं भवतां देशस्य संस्कुतिः वा ?” इति निन्दितवत्यौ । एतां वार्तां श्रुतवान् खलीफः उग्रकोपेण कासिमं बद्ध्वा मारयितुं आज्ञां कृतवान् । खलीफस्य आज्ञा निर्वर्तिता जाता । कासिमस्य शवं खलीफस्य पुरतः आनीय स्थापितवन्तः । तदा "हे खलीफ ! एतेन सह आवयोः विवाहः न जातः, एषः अस्मान् न स्पृष्टवान् अपि । अस्माकं मातापित्रोः हन्तकस्य नाशः जातः इति तृप्तिः अस्ति । आवयोः प्रतिकारः समाप्तः” इति राजकुमार्यौ उक्तवत्यौ । इतःपरं अग्रे अस्माकं जीवनं नास्ति इति ज्ञात्वा अनुक्षणं स्वस्य समीपे गोपितया छुरिकया तुम्फयित्वा आत्मार्पणं कृतवत्यौ । ""