राष्ट्रियप्रौद्योगिकीसंस्थानकर्णाटकम् सुरत्कल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतदेशे १९४७तमे वर्षे स्वातंत्र्यप्राप्तिपश्चात् देशस्य सम्यक्त्वेन विकासो भवेदिति विचिन्त्य बहूनि प्रौद्योगिकीसंस्थानानि महाविद्यालयाश्च न्यासीकृताः। अभियन्तृणाम् उत्पादनार्थम् अपि च देशे विज्ञानप्रौद्योगिकी-क्षेत्रे अनुसंधानस्य त्वरितविकासाय भारतीय-प्रौद्योगिकी-संस्थानानि अपि च क्षेत्रीयाभियंत्रणमहाविद्यालयाः कल्पिताः। तेषु आसीत् एकः कर्णाटकक्षेत्रीयाभियंत्रणमहाविद्यालयः इति। अयम् कर्णाटकराज्ये दक्षिणकन्नडजनपदान्तर्गत-मंगळूरुनगरे सुरत्कलक्षेत्रे सिन्धुसागरतटे तिष्ठति। २००३तमे वर्षे तत्कालीनकेन्द्रसर्वकारेण इदम् तु राष्ट्रीयमहत्त्वस्य संस्थानम् उद्घोषितम् जातम्, अपि च अस्य नाम राष्ट्रियप्रौद्योगिकीसंस्थानकर्णाटकेति (National Institute of Technology Karnataka Surathkal) अभवत्। भारतस्य प्रमुखतमम् अभियान्त्रिकी-संस्थानम् अस्ति इदानीम्।

सम्बद्धाः लेखाः[सम्पादयतु]