रुद्रादित्या वसवो ये...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रुद्रादित्या वसवो - 11.22 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वां विस्मिताः च एव सर्वे ॥ २२ ॥

अन्वयः[सम्पादयतु]

रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः सर्वे विस्मिताः एव त्वां वीक्षन्ते ।

शब्दार्थः[सम्पादयतु]

रुद्रादित्याः = एकादश रुद्राः द्वादशादित्याश्च
वसवः = अष्ट वसवः
ये च साध्याः = ये अपि साध्याः
विश्वे = विश्वेदेवाः
अश्विनौ = देवभिषजौ
मरुतः च = मरुद्गणाः
ऊष्मपाः च = पितृगणाः
गन्धर्वयक्षासुरसिद्धसङ्घाः = गन्धर्वयक्षासुरसिद्धसमूहाः
सर्वे = सकलाः
विस्मिताः च एव = आश्चर्यान्विताः च
त्वां वीक्षन्ते = त्वां पश्यन्ति ।

अर्थः[सम्पादयतु]

रुद्राः आदित्याः वसवः साध्याः विश्वेदेवाः देवभिषजौै मरुद्गणाः पितृगणाः गन्धर्वाणां यक्षाणाम् असुराणां सिद्धानां च समूहाः सर्वेऽपि आश्चर्यान्विताः त्वां पश्यन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]