रूपं महत्ते बहुवक्त्र...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रुपं महत्ते बहु - 11.23 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ २३ ॥

अन्वयः[सम्पादयतु]

महाबाहो ! बहुवक्त्रनेत्रं बहुबाहूरुपादं बहूदरं बहुदंष्ट्राकरालं महत् ते रूपं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ।

शब्दार्थः[सम्पादयतु]

महाबाहो = दीर्घबाहो !
बहुवक्त्रनेत्रम् = अनेकाननलोचनम्
बहुबाहूरुपादम् = असङ्ख्याकहस्तोरुचरणम्
बहूदरम् = अनेककुक्षिम्
बहुदंष्ट्राकरालम् = अनेकदन्तभयानकम्
महत् = बृहत्
ते रूपम् = तव स्वरूपम्
दृष्ट्वा = अवलोक्य
लोकाः = जनाः
प्रव्यथिताः = चिन्ताकुलाः
तथा अहम् = तथा अहम् ।

अर्थः[सम्पादयतु]

दीर्घबाहो ! तव आकारः अत्यन्तं विचित्रः । तत्र बहूनि मुखानि लोचनानि सन्ति । बहवः हस्ताः ऊरवः पादाश्च सन्ति । बहूनि उदराणि अपि सन्ति । बहुभिः दन्तैः भयानकः दृश्यसे । एतादृशस्य आकारस्य दर्शनादेव सर्वे जनाः किं भवेदिति चिन्ताम् उपगताः तथा अहम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]