रूपसुन्दरी
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
क्रि.श.सप्तमः शतकः । इदानीन्तनस्य गुजरातराज्यस्य 'पञ्चसार्’ इत्येकं स्थलम् । तदा तत् गुजरात्राज्यस्य राजधानी आसीत् । राजा जयशेखरः शास्ति स्म । राज्ये अनेकाः योजनाः प्रचलने आनीतवान् । प्रजाः सुखेण समृद्ध्या सन्तोषेण शान्तरीत्या आसन् । राजधान्यां धनस्य धान्यानां ,मणिमाणिक्यादीनां तथा स्वर्णनाणकानां बहु समृद्धिः असीत् ।
तादृशस्य वैभवयुक्तस्य प्रासादस्य अन्तःपुरे अपूर्वम् एकं रत्नम् आसीत् । सा एव महाराजस्य जयशेखरस्य पत्नी, मुल्तानस्य राजकन्या रूपसुन्दरी । एतस्याः ख्यातिः सर्वत्र प्रसृता आसीत् । सा दिव्यसौन्दर्यवती आसीत् । तथापि तस्याः दुरभिमानः न आसीत् । सहिष्णुता, विवेकः च तस्याः सहजसिद्धगुणौ । विनयसम्पन्नतायाः प्रतिमा आसीत् सा । स्वस्य रूपगुणैः देश-विदेशेषु सा प्रसिद्धा जाता आसीत् । रूपसुन्दरी इति तस्याः अन्वर्थनाम इति वक्तुं शक्यते ।
गुजरातराज्यस्य उपरि आक्रमणम्
[सम्पादयतु]गुजरात्राज्यस्य समीपे भुवड इति किञ्चन राज्यम् आसीत् । तत्रत्यः राजा गुजरात्राज्यस्य सम्पद्समृद्धिं,रूपसुन्दर्याः ख्यातिं च श्रुत्वा असूयति स्म । तस्य राज्यस्य गौरवं कथञ्चित् नाशनीयम् इति प्रयतते स्म । तथैव लघुव्याज्येन सुसज्जितसैनिकैः सह गुजरात्राज्यस्य उपरि अक्रमणं कृतवान् । भुवडराज्यस्य सैन्यं गुजरात्राज्यस्य सैन्यस्य अपेक्षया बहु बृहत् आसीत् ।अतः युद्धं कथं समाप्येत इति रूपसून्दर्याः मनसि संशयः आसीत् । तथापि पतिं जयशेखरं प्रेरितवती । सर्वविधरीत्या राज्यं सैन्यं च प्रोत्साहितवती । पराजयं प्राप्य पलायनस्य स्वभावः क्षत्रियाणां धर्मः न, प्रजानां रक्षणाय युद्धं कृत्वा प्राणान् यः समर्पयति सः एव यथार्थेन राजा । राजा जयशेखरः युद्धे पराजितः सन् मरणं प्राप्तवान् ।
राज्ञ्याः वनवासः
[सम्पादयतु]तदा रूपसुन्दरी गर्भवती आसीत् । अतः पत्या सह अग्निप्रवेशः न शक्यः आसीत् । सहोदरेण सह सा अरण्यं प्रविष्टवती । कतिपयदिनानन्तरं सहोदरं प्रतिप्रेषितवती । अरण्ये सुरक्षितस्थलं प्राप्तवती । तत्रत्यनिर्धनभिल्लस्य कुटीरे आश्रयं प्राप्तवती । भिल्लस्त्री फलादिकं दत्त्वा रूपसुन्दरीं पोषितवती । तत्रैव रूपसुन्दरी पुत्ररत्नं प्रसूतवती । तस्य बालकस्य 'वनराजः’ इति नामकरणं कृतम् । वनराजः मातुः तथा भिल्लस्त्रियाः वीरकथाः शृण्वन् प्रवृद्धः अभवत् । एकस्मिन् दिने कश्चित् संन्यासी एतेषां समीपम् आगतवान् । सः रूपसुन्दरीं पुत्रेण सह स्वस्य आश्रमे स्थातुं सूचितवान् । आरम्भे सा संन्यासिनं न विश्वसितवती । तदनन्तरम् संन्यासी परोपकारबुद्धियुक्तः स्यात् इति मत्वा तेन सह प्रस्थितवती । आश्रमे मातुः तथा पुत्रस्य जीवनं सुखमयरूपेण अनुवर्तते स्म । वनराजः युवकः जातः । सः सर्वविध शस्त्रास्त्रविद्याः पठितवान् । सर्व- विद्यापारङ्गतं पुत्रं रूपसुन्दरी 'पत्युः मरणं,तथा स्वेन अनुभूतानि कष्टानि विवृतवती । भुवडराज्यस्य उपरि प्रतीकारं साधयितुं प्रचोदितवती । वनराजः धैर्यशाली, साहसी,बुद्धिमान् च आसीत् । सः भिल्लजनानाम् एकं सैन्यं सज्जीकृतवान् । तेभ्यः सर्वविधयुद्धोपायान् पाठितवान् । अनन्तरं भुवडराज्यस्य उपरि आक्रमणं कृतवान् । गुजरातं स्वायत्तीकृतवान् च ।
दक्षा राज्ञी
[सम्पादयतु]राज्यस्य प्राप्तेः अनन्तरं रूपसुन्दरी भिल्लनायकं ,सन्यासीनं च राजधानीम् अहूय उत्तमरीत्या सम्मानितवती । राज्यस्य सुभिक्षार्थं पुत्रस्य कृते मार्गदर्शनं कृतवती । निजार्थे प्रजाभ्यः माता जाता । राज्ञ्याः रूपसुन्दर्याः ख्यातिः सर्वासु दिक्षु प्रसारिता अभवत् । स्वस्य पुत्रं वीरपुरुषरूपेण वर्धितवती । हस्तच्युतानि राज्यानि पुनः सम्पदितवती । न केवलं तावत् गुजरात्राज्यं सम्पत्समृद्धियुक्तं कृतवती । एतेन राज्ञ्याः रूपसुन्दर्याः साहसेतिहासौ प्रसिद्धौ अभवताम् ।
""