सामग्री पर जाएँ

रेकिचिकित्सा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मिकावो उसायि

रेकिचिकित्सा (Reiki) पर्यायचिकित्सासु अन्यतमा । एषा एका आध्यात्माभ्यासविशेषः । एनां चिकित्सां १९२२ तमे संवत्सरे जपान्-देशस्य बौद्धधर्मस्य ’मिकावो उसायि’ नामकः प्रसिद्धिपथे आनीतवान् । ’पाम् हीलिङ्ग्’ इति अस्याः चिकित्सायाः पर्यायवाचकम् । एतत् विधानं पूरकचिकित्सारूपेण, पर्यायचिकित्सारूपेण वा उपयुज्यते । केचन वृत्तिपराः एताम् पौरस्त्यचिकित्सा इत्यपि निर्दिशन्ति । अनेन विधानेन वैद्याः ’खि’संज्ञया निर्दिश्यमाणां गुणयुक्तां शक्तिं करतलाभ्यां रोगयुक्तस्य शरीरं प्रति सम्प्रसारयन्ति । अस्याः चिकित्सायाः जपनीस् रेकि पाश्चिमात्यरेकि इति च द्वे विभागे भवतः । पाश्चिमात्यरेकिचिकित्सायां त्रयः शिक्षणस्तराः सन्ति । प्रथमः, द्वितीयः, तज्ज्ञः उत शिक्षकस्तरः च त्रयः स्तराः सन्ति । प्रथमस्तरे रेकि विषये ज्ञास्यन्ति । स्वस्य अन्येषां च रोगादिवारणे समर्थाः भवन्ति । द्वितीयस्तरे, वैद्याः विशिष्टान् सङ्केतान् उपयुज्य दूरादेव दोषान् वारयितुं समर्थाः भवन्ति । शिक्षकस्तरे रेकिचिकित्साम् अन्येभ्यः बोधयितुं समर्थाः भवन्ति ।

इतिहासः

[सम्पादयतु]

’रेकि’ इत्यस्य पदस्य जपानिभाषायां “निगूढवातावरणम् उत निगूढभावना” इत्यर्थः । रेकि इत्यस्य पदस्य चीनभाषायां ’लिङ्ग्कि’ इत्यर्थः । लिङ्ग्कि इत्यस्य पदस्य आध्यात्मिकवातावरणम् उत बुद्धिमत्ता इत्यर्थः । आध्यात्मिकजीवनशक्तिः उत जीवाधारका आध्यात्मिकशक्तिः सहजतया जीविषु भवति । टिबेटियन् बौद्धधर्मस्य आधारितां चिकित्सां जपान्-देशे १९ शतमाने डा 'मिकावो उसायि' अरब्धवान् । ओ इ डि(OED) पट्टिकानुसारं १९७५ तमे संवत्सरे रेकि पदप्रयोगः कृतः इति ज्ञायते । केचन आङ्ग्ललेखकाः रेकिचिकित्सां 'सार्वत्रिकजीवनाधारशक्तिः' इत्येव लिखन्ति । रेकिचिकित्साशिबिरं मिकावो '१९२२' तमे संवत्सरे मौण्ट् कुरामप्रदेशे आयोजितवान् आसीत् । एतस्मिन् शिबिरे रेकिसम्बद्धाः विषयाः सम्बोधिताः आसन् । मिकावो टोकियोदेशे “रेकि रयोहो गक्कै” नामक संस्थां स्थापितवान् । एषा संस्था रेकिचिकित्सां वर्धयन्ती, जनसेवां कुर्वती आसीत् । मिकावो द्विसहस्राधिकेभ्यः (२०००) जनेभ्यः पाटितवान् इति तस्य स्मारकाभिलेखे लिखितम् अस्ति । मिकावो १९२६ तमे संवत्सरे मार्चमासस्य ९ दिनाङ्के मृतवान् । अस्य मरणस्य अनन्तरं अस्यैव शिष्यः ’जे उषिड्’ सस्थायाः अध्यक्षरूपेण नियुक्तः ।

पञ्चसूत्राणि

[सम्पादयतु]

मिकोवा 'चक्रवर्ति मेयिजिवर्यस्य' साहित्यककृतीणां अभिमानि आसीत् । एनां चिकित्सां प्रसिद्धिपथे आनेतुं मेयिजिवर्यस्य ग्रन्थेभ्यः नीतिसूत्राणि चित्वा “पञ्चसूत्राणि” इति ग्रन्थं लिखितवान् । पञ्चदेवाज्ञाः इत्येव प्रसिद्धिरस्य । रेकिचिकित्सायाः बोधकाः वैद्याः च पञ्चसूत्राणाम् परिपालनरताः भवेयुः ।

काञ्जि

招福の秘法,
萬病の霊薬.

今日丈けは:

怒るな,
心配すな,
感謝して,
業をはけめ,
人に親切に.

朝夕合掌して心に念じ,
口に唱へよ.

心身改善.
臼井霊氣療法.

肇祖,
臼井甕男.

रोमाजि

शोफुको नो हिहो,
मन्ब्यो नो रेयियाकु क्यो डाके वा

ओकोरु ना,
शिम्पै सु ना,
काम्ष शिते,
गयो वो हकेमे,
हिटो नि शिन्सेत्सु,

असायु गाषो शिते कोकोरो नि नेञ्जि,
कुचि नि तोनये यो । शिन्शिन् कैजेन् ।
उसुयि रेकि रयोहो चोसो,
उसोयि मिकावो ।

संस्कृतम् सन्तोषम् आह्वातुम् विद्यमाना गुप्तकला
रोगेभ्यः पवाडसदृशा चिकित्सा। अन्तिमः अद्य:

कुपितः मा भवतु,
चिन्ता मास्तु,
कृतज्ञः भवतु,
श्रद्धया कार्यं कुरु,
जनेभ्यः स्नेहमयी भवतु ।

प्रत्यहं प्रातः सायञ्च नमस्कारं कृत्वा ध्यानं प्रर्थनाञ्च करोतु ।
मनसि निष्कर्षः भवतु,मुखात् पठनं कुरु । देहस्य मनसः च सुधारणार्थम् ।
उसायि रेकि रयोहो । स्थापकः,
मिकावो उसायि ।

रेकिसम्प्रदायः

[सम्पादयतु]
रेकिचिकित्सा

अद्यत्वे रेकिचिकित्सायां नैकाः शाखाः उपलभ्यन्ते । अस्याः प्रसिद्धे द्वे शाखे वर्तेते । जपनीस् रेकिचिकित्सा एका, अपरा पास्चिमात्यरेकिचिकित्सा ।

जपनीस् रेकिचिकित्सा

[सम्पादयतु]

’मिकोवावर्यस्य’ मूलबोधनानुसारेण जन्यां पद्धतिं निरूपयितुं साम्प्रदायिकां जपनीस् रेकिचिकित्साम् अनुसरन्ति । बोधनानि जपान् देशाय सीमितानि सन्ति । १९९० तमे संवत्सरे पाश्चिमात्यबोधकाः एनं निर्दिष्टं सम्प्रदायम् अध्येतुं समायाताः, किन्तु निष्फलाः सञ्जाताः बोधकाः । समनन्तरं शालाम् आरब्धवन्तः । तत्रत्येभ्यः जनेभ्यः रेकिचिकित्सां बोधितवन्तः । अस्याः प्रमुखाः शाखाः अधोनिर्दिष्टाः सन्ति ।

रयोहो गक्कै

[सम्पादयतु]

एषा साम्प्रदायिकरेकिचिकित्सायाः प्रसिद्धा मिकोवा स्थापिताच संस्था भवति । अस्याः संस्थायाः सम्प्रदायः अद्यापि अस्ति । एषा संस्था गुप्तज्ञानयुक्ता अस्ति । एतासु संस्थासु प्रवेशप्राप्तिः कठिना अस्ति ।

रेयिडो रेकि गक्कै

[सम्पादयतु]

एषा रयोहो गक्कै सस्थायाः तज्ज्ञैः (जन्या) शोधिता पद्धतिः । एनां पद्धतिं पुमिनोरि अवोकि स्वाध्यक्षे चालितवान् । एषः विनूतनान् अंशान् योजितवान् । अस्यां पद्धतौ ’कोरिकि’ (सन्तोषस्य शक्तिः) सङ्केतानाम् उपयोगं कुर्वन्ति ।

कोव्यो रेकि कै

[सम्पादयतु]

जपनीस् साम्प्रदायिकशालायाः नाम एव अस्याः पद्धत्याः नाम स्थापितवन्तः । एनां पाश्चिमात्यरेकिचिकित्सायाः शिक्षकः ह्याकुटेन् इनोमोटो स्थापितवान् । ’गक्कै’ अजन्या इत्यतः अन्यासाम् अपेक्षया पद्धतौ भेदः अस्ति ।

जिकिडेन् रेकिचिकित्सा

[सम्पादयतु]

जिकिडेन् रेकिचिकित्सा एका प्रसिद्धा पद्धतिः । डा. हुयाशिद्वारा बोधिता पद्धतिः । अस्याः संस्थापकौ श्रीमती यमगुचि, अस्याः पुत्रः तदावो यमगुचि च । पाश्चिमात्यरेकिचिकित्सायाः हस्तमुद्राणाम् अपेक्षया अस्यां पद्धतौ व्यापकतया हस्तमुद्राणाम् उपयोगं कुर्वन्ति ।

पाश्चिमात्यरेकिचिकित्सा

[सम्पादयतु]

पाश्चिमात्यरेकिचिकित्सां पद्धतिं हवायो तकातर पद्धतिः इति भावयितुं शक्यते । अस्यां पद्धतौ ’रेयिजे’ धूमस्य उपयोगं न कुर्वन्ति । किन्तु, हस्तमुद्रायाः उपयोगम् अधिकतया कुर्वन्ति । एषा पद्धतिः अस्वस्थतायाः विषये अवगाहनं दत्ता अस्ति । अस्यां पद्धतौ उन्नतस्थरस्य अनुष्ठानानि उपयुक्तानि सन्ति । हयाशिवर्यात् रेकिचिकित्सां पद्धतिं ज्ञात्वा हवायिदेशं गतवान् । तस्मिन् देशे वैद्यालयाः स्थापिताः । अनेन कारणेनैव पाश्चिमात्येषु देशेषु प्रसिद्धिं प्राप्नोत् ।

उसोयि रेकि शिकि रयोहो

[सम्पादयतु]

पाश्चिमात्यरेकिपद्धतौ अन्यतमा उसोयि रेकि शिकि रयोहो भवति । ’हवायो तकातर’ पद्धतेः उसोयि रेकि शिकि रयोहो पद्धतेः च मूलसिद्धान्तेषु साम्यता दृश्यन्ते ।

उसुयि/टिबेटियन्-रेकिचिकित्सा

[सम्पादयतु]

आर्थर् राबर्ट्सन् उसुयि/टिबेटियन्-रेकिचिकित्सायाः अभिवृद्धिं कृतवान् । ’विलियं ली राण्ड् हागि डियाने स्टेयिन्’ अस्याः चिकित्सापद्धत्याः प्रसिद्धिपथे आनेतुं कारणीभूतः असीत् । एषा पद्धतिः उसायिपद्धत्या जनिता अस्ति । ’रयोहो गक्कैन्’- पद्धत्याः विधानानि अस्यां सन्ति । एषा चिकित्सापद्धतिः चत्वरिस्तरेषु विभक्ता ।

गेण्डै रेकि हो

[सम्पादयतु]

’गेण्डै रेकि हो’ पद्धतौ जपनीस्-पाश्चिमात्ययोः आंशाः सन्ति । अस्याः चिकित्सायाः संस्थापकः ’हिरोषि दोयि’ भवति । हिरोषि मियेको मित्सुयिमार्गदर्शने पाश्चिमात्य शैलीं ज्ञातवान् ।

रेकिचिकित्सायाः त्रयो आधाराः

[सम्पादयतु]

उसायि रेकिचिकित्सायाः आधारत्रयम् निरूपितवान् अस्ति । ते अधाराः भवन्ति-

  • गाषो
  • रेयिजो-हो
  • चिर्यो

गाषो एका ध्यानस्था स्थितिः । अस्यां पद्धतौ करतलयोः संयोगः क्रियते । करतलयोः मध्यामाङ्गुल्योः संलग्ने भागे मनः केन्द्रीकुर्वन्ति ।

रेयिजि हो

[सम्पादयतु]

रेयिजो हो नाम वैद्यस्य साहाय्येन त्रिवारं शक्तिसम्प्रेषणाय क्रियमाणा प्रार्थना । रेयिजो हो भागत्रये विभक्तः अस्ति । प्रथमभागे, रेकिशक्तिं वैद्यद्वारा सम्प्रेषणार्थं क्रियमाणा प्रार्थना भवति । एनां शक्तिं मुकुटचक्र, अनाहतचक्र, उत हस्ताभ्यां सम्प्रेषयन्ति । द्वितीय(स्तरे)विभागे, रोगिः निर्दिष्टरोगात् गुणमुखः भवतु इति प्रार्थना क्रियते । स्वस्थश्चेत् उत्तम आरोग्यार्थं प्रार्थना क्रियते । तृतीये भागे, करतलौ भ्रूमध्ये स्थापयतः। एवं शक्तेः अपेक्षा कस्मिन् भागे वर्तते तत्र सम्प्रेषणार्थं प्रार्थयन्ति ।

चिर्यो

[सम्पादयतु]

जपान्-भाषायां चिर्यो नाम चिकित्सा इत्यर्थः । वैद्यः हस्ताभ्यां मुकुटचक्रेण शक्तिं सम्प्रेषयन्ति । एषा शक्तिः अन्तःप्रेरिका प्रचोदनस्वरूपा च अस्ति ।

बाह्यानुबन्धः

[सम्पादयतु]
  • National Center for Complementary and Alternative Medicine (4 May 2010). "Reiki: An Introduction (NCCAM Backgrounder)". आह्रियत 5 May 2010. "Government agency dedicated to exploring complementary and alternative healing practices in the context of rigorous science, training complementary and alternative medicine (CAM) researchers, and disseminating authoritative information to the public and professionals" 
  • Stephen Barrett (4 August 2009). "Reiki Is Nonsense". आह्रियत 5 May 2010. "Quackwatch article by Stephen Barrett" 
"https://sa.wikipedia.org/w/index.php?title=रेकिचिकित्सा&oldid=371559" इत्यस्माद् प्रतिप्राप्तम्