रौद्ररसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


रौद्रस्य क्रोधः स्थायिभावो भवति । शत्रुकृताऽपराधेन मनः प्रज्वलनं क्रोधः । 'गुरु बन्धु वधादि जन्मा प्रज्वलनाख्यः क्रोधः’ इति रसगङ्गाधरः । क्षुद्रापराधजन्माऽयं परुष वचन असंभाषणादि मात्र जनको भवति । महापराधजन्य स्तु पर विनाशादि हेतु र्भवति क्रोधः । क्षुद्रापराधजन्यो ऽमर्षाख्यो व्यभिचारी । परमापराधजन्मा तु क्रोधः स्थायिभावः। रुधिर् धातोः रक् प्रत्यये रुद्र इति शब्दस्य निष्पत्तिः भवति। भावार्थे अण् प्रत्यये रौद्र इति रूपं भवति। रौद्ररसस्य स्थायीभावः "क्रोधः” भवति। अस्य वर्णः रक्तः भवति। शत्रोः आलम्बन विभावः। क्रूरव्यापरः उद्दीपनविभावः। भूभङ्गः, भुजास्फालनम्, आत्मप्रशंसा, स्वेदादयः अनुभवाः भवन्ति। मोहः आमर्षक्रूरदृष्टि इत्यादयः व्यभिचारिभावाः भवन्ति। अस्य रसस्य अधिदेवता यमः भवति। अपमानेन, पराजयेन वा रौद्ररसस्य उत्पत्तिः भवति। रङ्गभूमौ प्रत्यक्षेण रक्तपानादिकं न दर्शनीयम् इति। यदि दर्शयन्ति तर्हि रौद्ररसः तत्र न भवति किन्तु जिगुप्सा उत्पद्यते। सङ्गीतक्षेत्रे शङ्करअढाणरागौ रौद्ररसप्रतिपादकौ रागौ भवतः।
भरतमुनिः स्वनाट्यशास्त्रे रौद्ररसस्य निरूपणम् एवं कृतवानस्ति, रौद्रोनाम क्रोधस्थायिभावात्मकः, रक्षोदानवोद्धत मनुष्यप्रकृतिः, इति। अग्रिमः श्लोकः एवम् अस्ति। युद्धप्रहारादाघातनवीकृतविदारणैश्चैव।
सङ्ग्रामसम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः॥

"https://sa.wikipedia.org/w/index.php?title=रौद्ररसः&oldid=372737" इत्यस्माद् पुनः प्राप्तिः