सामग्री पर जाएँ

लिङ्गराजमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आकाशमार्गात् लिंगराजमन्दिरं बिन्दुसागरसरोवरं च दृश्यते ।

लिङ्गराजमन्दिरं ओडिशाप्रदेशस्य भुवनेश्वरनगरेस्थितं पुरातनं शिवमन्दिरम् अस्ति। राजा ययातिकेशरी ११शताब्दे निर्माणं कृतवान्। लिङ्गराजमन्दिरं भुवनेश्वरस्य कलिङ्गपञ्चरथशैल्या निर्मितं बृहत्तमं मन्दिरम् अस्ति ।अस्यायतनं ५२० एवं विस्तारं च ४६५ परिमितं वर्तते । अस्य मन्दिरस्य भित्तिः ७फिट् ६इन्च अस्ति ।बाह्यशत्रुणां मन्दिरस्य अभ्यन्तरे यथा प्रवेशः न भवेत् तन्निमितम् अस्य भित्तेः निर्माणम् अभवत् ।

इतिहासः

[सम्पादयतु]

लिङ्गराजः इत्यस्य शब्दस्यार्थः भवति लिङ्गनां राजा इति । लिङ्गं शिवपुजायाः प्रतीकम् इत्ति कारणतः क्षेत्रमिदम् शैवक्षेत्रम् इति नाम्ना प्रसिद्धम् अस्ति ।महेश्वरः अत्र त्रिभुवनेश्वररुपेण पूजां प्राप्नुवन्ति । अत्र माता पर्वती अर्न्नपुर्णारुपेण लिङ्गराजसहितेन पूजां प्राप्नुवन्ति ।

एतत् मन्दिरं १०००वर्षं पुरातनम् अस्ति । यद्यपि षष्ठिशताब्द्यां अस्य मन्दिरस्य प्रमाणम् अनेकेषु पुराणेषु लभ्यते, तथापि एकादशशताब्द्याम् एतत् पुनः निर्मितम् इति प्रमाणं लभ्यते।[] लिङ्गराजमन्दिरस्य निर्माणं सम्पन्नसमये विष्णुपूजनं प्रारब्धम् आसीत्, अतः अत्र हरिहरयोः मेलनम् आसीत् इति प्रमाणं लभ्यते।

जनश्रुतिः

[सम्पादयतु]

आख्यायिकानुसारं लिङ्गराजमन्दिरस्य सम्मुखे एकस्मिन् तडागे गोपालुनीअवतारे पार्वतीदेवी कीर्तिबाससुरस्य वधं कृतवती । भुवनेश्वरस्य प्राचीनतममन्दिरेषु अन्यतमं कपालिनीदेवी बयतालमन्दिरे पूज्यते ।शितलषष्ठीसमये लिङ्गराजसहितेन मातापार्वत्याः विवाहः सम्पन्नम् आसीत्। भारतीमठे स्थिता देवीकामाक्षां लिङ्गराजस्य भगिनी इति कथ्यते।

प्रसादम्

[सम्पादयतु]
खैकोरा

कदलिफलं, नारिकेलफलं च महाप्रभुलिंगराजस्य पूरतः भक्ताः प्रसादरुपेण अर्पयन्ति ।

गमनागमनम्

[सम्पादयतु]

अत्र लिंगराजमन्दिरमार्गम् इति नाम्ना यात्रिविरामस्थानम् अस्ति ।

  1. "Bhubaneswar Lingaraj Temple". Archived from the original on 2013-02-06. आह्रियत 2006-09-12. 
"https://sa.wikipedia.org/w/index.php?title=लिङ्गराजमन्दिरम्&oldid=490717" इत्यस्माद् प्रतिप्राप्तम्