लिङ्गुवा-फ़्रान्का-नोवा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लिङ्गुवा-फ़्रान्का-नोवा (एलेफ़ेन्) इति नाम्ना भाषा अस्ति या विशेषतः सरला तर्क-युक्ता सुवेदया च भवितुं परिकल्पिता। अस्याः नैकाः गुणाः विद्यन्ते।

  1. अस्याः भाषायाः स्वनिमानां संख्या पर्याप्ता। इटलीभाषावद् वा स्पेनभाषावत् श्रूयते।
  2. भाषा-लेखने अक्षराणि स्वानिकी-विधेयानि सन्ति। केनापि बालेन वर्षाणि यावद् व्याकरण-व्यभिचाराः न अधीगन्तव्याः।
  3. आविश्वं मिश्रित-भाषाभिः सदृशम् अस्याः भाषायाः व्याकरणं पूर्णतया प्रक्रमम्।
  4. पर्याप्त-मात्रायां नित्य-पद-व्युत्पादनार्थं पूर्णतया प्रक्रमाः व्युत्पादक-प्रत्ययाः विद्यन्ते।
  5. पद-क्रमस्य कृते नियमाः सन्ति सुस्पष्टाः यथा विविध-विख्यात-भाषासु विद्यन्ते।
  6. शब्दसङ्ग्रहस्य आधारः आधुनिक-रौमक-भाषा-परिवारः। इमाः भाषाः सुविख्याताः प्रभावकारिण्यः च आङ्ग्ल-शब्दसङ्ग्रह-आधाराः अपि च।
  7. तथ्यतः आविश्वस्मिन् मानिताभ्यां लातिन-यवन-भाषाभ्यां नव-निर्मित-पदानि सहजतया स्वीकर्तुं परिकल्पिता इयं भाषा।
  8. ये रौमक-भाषाभिः पूर्वमेव परिचिताः तेषां कृते सहजतया भवितुं वा इतरेभ्यः अपि अधिका दुष्करा न भवितुं वा परिकल्पिता इयं भाषा।