लीलावती (नाटकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रामपाणिवादविरचिता वीथी भवति लीलावती । कुन्तलेश्वरस्य वीरपालस्य, कर्णाटकराज्ञः पुत्र्याः लीलावत्याः च प्रणयः एव कथातन्तुः । इयं वीथी अम्पलप्पुळ देवालयसमीपे विरचितं भवति । अस्याः सम्पादनं डो. वेङ्किटसुब्रह्मण्यअय्यर्-महोदयेन १९४८ तमे संवत्सरे बाम्बेनगरस्थेन भारतीयविद्याभवनद्वारा कृतम् । तस्मिन्नेव संवत्सरे केरलसर्वकलाशालातः अपि अस्य सम्पादनं कृतम् ।

"https://sa.wikipedia.org/w/index.php?title=लीलावती_(नाटकम्)&oldid=363102" इत्यस्माद् प्रतिप्राप्तम्