लेलिह्यसे ग्रसमानः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लेलिह्यसे ग्रसमानः - 11.30 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रिंशत्तमः(३०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः तेजोभिः आपूर्य जगत् समग्रं भासः तव उग्राः प्रतपन्ति विष्णो ॥ ३० ॥

अन्वयः[सम्पादयतु]

ज्वलद्भिः वदनैः समग्रान् लोकान् समन्तात् ग्रसमानः लेलिह्यसे । विष्णो ! तव उग्राः भासः तेजोभिः आपूर्य समग्रं जगत् प्रतपन्ति ।

शब्दार्थः[सम्पादयतु]

ज्वलद्भिः = प्रकाशमानैः

वदनैः = आननैः
समग्रान् = सर्वान्
लोकान् = भुवनानि
समन्तात् = सर्वतः
ग्रसमानः = निगिरन्
लेलिह्यसे = आस्वादयसि
विष्णो = व्यापक !
तव उग्राः = तव तीक्ष्णाः
भासः = दीप्तयः
तेजोभिः = किरणैः
आपूर्य = पूर्णं विधाय
समग्रम् = समस्तम्
जगत् = भुवनम्
प्रतपन्ति = नितरां तापयन्ति ।

अर्थः[सम्पादयतु]

त्वं प्रकाशमानैः आननैः सर्वतः समग्रान् लोकान् ग्रसन् आस्वादयसि । हे विष्णो ! तव तीक्ष्णाः किरणाः कान्तिभिः समस्तं जगत् सम्पूर्य नितरां तापयन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लेलिह्यसे_ग्रसमानः...&oldid=418810" इत्यस्माद् प्रतिप्राप्तम्