लोहचक्रकप्रक्षेपणक्रीडा
लोहचक्रकप्रक्षेपणकलायाः पूर्वाभासः
[सम्पादयतु]धर्म प्रधानस्य भारतदेशस्य देवतासु श्रद्धा चिरन्तनकालात् प्रवर्तते । धार्मिका आस्थावन्तो भवन्ति । तेषामास्था-बलादेवेष्टदेवता नानारुपधरा नानायुधधरा च विद्यते । यथा देवाता भक्तायेष्टं विरतति तथैव तस्य कष्टान्यपि हरति । अत एव देवतानां हस्तयोर्हस्तेषु च बहुविधान्यायुधानि प्रतियन्ते । तेषु चक्रमप्येकमायुधम् । विष्णोरिदमायुधं प्रसिद्धम् । देव्योऽपि चक्रायुधाः सन्ति । असुराणां युद्धे चक्रायुधस्य प्रयोगा भवन्ति स्म ।
मन्ये तत एव प्रेरणां लब्ध्वा मानवेनापि चक्रचालनप्रयासः स्वीकृतः । इदं प्रक्षिप्यतेऽतोऽस्रेष्वस्य गणना भवति । चक्रं पुरा यदा प्रक्षिप्यते स्म तदा तस्य भ्रमणेन सहाक्रमणं भवति स्म परमधुना क्रीडाविधौ न तथा । इदानीं तु यथा भारशालि किमपि वस्तु यथा दूरे प्रक्षिप्यते तथैवदमपि । इदं कया प्रक्रियया दूराद दूरतरं प्रक्षेप्तुं शक्यत इत्येवास्ति साम्प्रतिकी कला । अस्याः कलाया विकासाय केचन नियमा आविष्कृताः सन्ति तेषां परिचय इत्यं विद्यते -
(१) प्रक्षेपण-शक्ति-प्राप्तिनियमाः
[सम्पादयतु]प्रक्षेपकेण् चक्रकस्य दूरातिदूरे प्रक्षेपणाय स्वीया शारीरिकी शक्तितरर्जनीया भवति । तदाधारेण स शरीरेऽसन्तुलनं सम्पाद्याग्रे वर्धते, शरीरं चक्रवद् भ्रमयति, कोणीयं सन्तुलनं विधत्ते तथा पादाङ्गुष्ठाद् हस्ताङ्गुलीः पर्यन्तं कार्यरतां मांसपेशीनां सम्मिलितां शक्ति च संवर्धयति । चक्रकप्रक्षेपणस्य विधयो भिन्न -भिन्ना विद्यन्ते परं सर्वेषां सिद्धान्तस्त्वेक एव । अन्तरं केवलं चक्रप्रक्षेपणायार्जितशक्तौ तथा तस्याः पृष्ठ सलग्नस्य वेगस्य वृद्धौ वर्तते । मुख्यतः चक्रकं १ १/२, १ १/२ चक्रेण क्षिप्यते । परिधौ क्षेपकेण चलितमन्तरं प्रायः ६-१० फुटमितं भवति । शक्तिप्राप्तये
- (१) शरीरस्य जाड्यापनुत्तिपूर्वकं गत्युपलब्धिः
- (२)मानसिकी शारीरिकी च सज्जता
- (३) हस्यस्य मांसपेशीनामाकर्षणनैयून्यं
- (४) चक्रकस्य सावधानतया दक्षिणहस्तस्य तलेऽङ्गुलीनामन्त्यपर्वभिधरिणामित्यादयो विधयः स्मरणीयाः प्रयासश्च विधेयः ।
(२)प्रारम्भिकं दोलनं वलनं चक्रकमोचनं च
[सम्पादयतु](क)दोलनम्
[सम्पादयतु]चक्रकक्षेपकः पूर्वं परिधावुपतिष्ठते तत्र तेन स्वकीयचङक्रमणवलन-पुरोगमन-धावनानां स्थितेरनुमानानन्तरं स्थित्वा चक्रकं दक्षह्स्ते निधायतस्य प्रारम्भिकं दोलनं (झुलाव) कर्तव्यम् । तदा हस्तं पुरः पृष्ठे च स्कन्धेन सह सारल्येन चालनीयम् । शक्तेर्वेगस्य च नास्त्यावश्यकता । तस्मिन्नवसरे स्कन्धे तथा कबन्धे च ८०-६० अंशानां कोणः कर्तव्यः । अनेन शरीरस्य यान्त्रिकी क्रिया भवति । वामहस्तः सन्तुलनसाधनाय प्रतिभारस्य कार्यं करोति ।
दोलनसमये कटिरेखातोऽधश्चक्रकं न नेयं तथा हस्तः पूर्णरुपेण प्रलम्बो विधेयः । कटिः पूर्वं पृष्ठतो दक्षपार्श्वे तथाऽग्रतो वामपार्श्वे वलति । शिरो नेत्रे चापि दक्षपार्श्वे वलन्ति । दक्षः पादो मनाग् जानुतो वलति वामः पादश्च वलित्वा घटीयन्त्रे १० वादनकालिकसूच्योः स्थितौ भवति । तदैव प्रक्षेपको वामपादेन भ्रान्त्वा दक्षपादेन सत्वरं प्रघातयति यतः शरीरमसन्तुलितस्थितावायाति परिधौ वलनकार्यं च प्रारभते ।
(ख) वलनम्
[सम्पादयतु]शरीरस्यासन्तुलनस्थितौ शरीरं वामेन पतनस्थितावायाति ततो रक्षितुं दक्षः पादस्तीव्रगत्या स्वस्थानादतिलघुमार्गेण परिधेर्मध्ये आपतति । तदा क्षेप्ता पादेन चक्रकक्षेपणदिशि भ्रम्ति वामपादेन शक्त्या प्रघातयति । वामः पादो घटिकायाः विपरीतायां दिशि कार्यं करोति तथा क्षेपकः स्वशरीरेणार्धं वृत्तं पूरयति । वलनसमये गतिरोधः प्रोच्छलनं वा न विधेयम् ।
(ग) चक्रकमोचनम्
[सम्पादयतु]चक्रकमोचनसमये तस्य कोणः २८-३२ अंशात्मकोऽपेक्षितः । तर्जन्यास्य मोचनं क्रियते । मोचनानन्तरं चक्रकं घटिकाया दिशि भ्रमदगच्छति । एवं तु तद् हस्तात् स्कन्धस्य रेखायामागमनसमकालमेव मुच्यते परं हस्तः स्वस्याः समग्रप्रलम्बतावधि चक्रकेण सह गच्छति । मोचनकाले वक्ष ऊर्ध्वं पुरत उत्तिष्ठते शिरः किञ्चित् पृष्ठे गच्छति दृष्टी च चक्रकोपरि तिष्ठतः । स्कन्धौ स्फिचौ च पुरतः पृथ्व्याः समानान्तरतां प्राप्नुवन्ति । एतत् समये पदयोर्मध्येऽतीवाल्पमन्तरं भवत्यत उर्ध्वोत्थाने द्वयोरपि पदयोः कार्यं सम्मिलितं सम्पद्यते । वामः पादः स्वस्थाने स्थिरस्तिष्ठति शरीरस्य समस्तान्यङ्गानि तत्पादस्य विपरीतं कार्यं कुर्वन्ति । अस्मिन् विभिन्नाङ्गानां कार्याणि प्रघातविस्तारोर्ध्वोत्थानादीनि सम्मिलितरुपेणैव भवन्ति तथाऽन्तिमं कार्यं चक्रकस् भ्रामणं भवति ।
सन्तुलनप्राप्तिः
[सम्पादयतु]चक्रकमोचनात् परं प्रक्षेपकः परिधेर्बहिः पतनादात्मानं रक्षितुं सन्तुलनाय यत् कार्यं करोति तत् ‘सन्तुलनप्राप्तिः’ (रिकवरी) कथ्यते । अस्मिन दक्षं पादं पदात् कतिचित् सैं मीं पृष्ठे संस्थाप्य वामं पादमुच्चैरुत्थाप्य सन्तुलनमुपलभ्यते ।
शक्तिप्राप्तये
[सम्पादयतु]प्रक्षेपणकलाभिलाषुकेन् साधारणाविधिनाऽसाधारणविधिना च नित्याभ्यासः करणीयः । यत्र हस्तपादयोर्व्यायामः, भारेण साकं व्यायामस्तथा चक्रप्रक्षेपणव्यायाम् आवश्यकः
गतिवर्धना
[सम्पादयतु]शारीरिकी गतिर्वर्धनीया । एतदर्थं धावनं क्रमशः २० मी० ८० मी० पर्यन्तमावश्यकम् । एवमेव भारेणा सहापि सामान्यतो धावनाभ्यासः कर्तव्यः । प्रक्षेपणे शरीरस्यानुकूलनमौष्ण्यापादनं वायोः स्थितिज्ञानं परिधानस्य व्यवस्थापनमात्मविश्वासः, परिधौ भ्रमण -वलन-हस्त- पादमोटनादिविधीनां परिचयः कोणादिनिर्माणक्रियाश्च यदि व्यवस्थितरुपेण न भवन्ति तदा त्रुटयो भवन्ति ताः परिहर्तव्याः ।
आधारः
[सम्पादयतु]अभिनवक्रीडातरङ्गिणी