वक्त्राणि ते त्वरमाणा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वक्त्राणि ते त्वरमाणा - 11.27 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

वक्त्राणि ते त्वरमाणाः विशन्ति दंष्ट्राकरालानि भयानकानि केचित् विलग्नाः दशनान्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तमाङ्गैः ॥ २७ ॥

अन्वयः[सम्पादयतु]

अवनिपालसङ्घैः सह एव सर्वे च अमी धृतराष्ट्रस्य पुत्राः तथा असौ भीष्मः द्रोणः सूतपुत्रः अस्मदीयैः योधमुख्यैः सह त्वां विशन्ति । ते दंष्ट्राकरालानि भयानकानि वक्त्राणि त्वरमाणाः विशन्ति । केचित् दशनान्तरेषु विलग्नाः चूर्णितैः उत्तमाङ्गैः (उपलक्षिताः) सन्दृश्यन्ते ।

शब्दार्थः[सम्पादयतु]

अवनिपालसङ्घैः सहैव = राजसमुदायैः साकम् एव
सर्वे च = सकलाः अपि
अमी = इमे
धृतराष्ट्रस्य पुत्राः = दुर्योधनादयः
तथा = एवम्
असौ भीष्मः द्रोणः सूतपुत्रः = अयं भीष्मः द्रोणः कर्णः च
अस्मदीयैः = आस्माकीनैः
योधमुख्यैः सह अपि = प्रधानयोधैः सह अपि
ते दंष्ट्राकरालानि = ते दन्तैः घोराणि
भयानकानि = भयराणि
वक्त्राणि = मुखानि
त्वरमाणाः = त्वरायुक्ताः
विशन्ति = प्रविशन्ति
केचित् = केचित् योधाः
चूर्णितैः = चूर्णीभूतैः
उत्तमाङ्गैः = शीर्षैः उपलक्षिताः
दशनान्तरेषु = दन्तमध्यभागेषु
विलग्नाः = संसक्ताः
सन्दृश्यन्ते = वीक्ष्यन्ते ।

अर्थः[सम्पादयतु]

एते सर्वेऽपि कौरवाः अन्येषां नृपाणां समूहैः सह तव मुखानि त्वरया प्रविशन्तः सन्ति । तैः सह भीष्मः द्रोणः कर्णः तथा अस्मत्पक्षीयाः बहवो योधमुख्याः प्रविशन्तः सन्ति । तव मुखानि दंष्ट्राभिः अत्यन्तं घोराणि भयजनकानि च सन्ति । तव मुखानि प्रविष्टवत्सु एतेषु केचन दन्तानां मध्ये विलग्नाः दृश्यन्ते । तेषां च शिरांसि चूर्णितानि दृश्यन्ते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]