वङ्गीयप्रतापम्
वङ्गीयप्रतापम् | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | हरिदाससिद्धान्तवागीशः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
वङ्गीयप्रतापं हरिदासेन १६१७ ख्रीष्टाब्दे विरचितम् । इदं प्रथमं कवेः गृहे प्रयुक्तम् । वर्षत्रयानन्तरं कोलकातानगरे मिनर्वा-रङ्गालये नाटकमिदं द्वितीयवारं सोल्लासतयोदयनसमितिद्वाराभिनीतम्।
कथावस्तु
[सम्पादयतु]शङ्करचक्रवर्ती शेरखाननवाबस्य हिंस्रकर्मचारिभिः प्रपीडिताया जनतायाः साहाय्यार्थं प्रायतत । नवाबस्य कोपभाजनं भूत्वा स दण्डभयाञ्च आत्मानं परित्रातुकामः कानने पलायितवान् । तत्र तेन प्रतापादित्येन साकं सख्यं समासादितम् । वार्तालाप-प्रसङ्गे शङ्करेण स्वकीयमनस्ताप एवं वर्णितः -
नवीनस्त्रीमात्रं गणयति विलासोपकरणं
प्रजानां सर्वस्वं करगतनिजस्वं च मनुते।
तृणस्तेये दण्डं प्रणयति परप्राणहरणं
निरीहाणां खेलाकुतुकमसुभिः पूरयति च।। [१]
एतच्छ्रुत्वा प्रतापेनापि स्वकीयविचाराः प्रकटीकृताः -
विधर्म्यधीना बत भारतप्रजा नदीप्रवाहे पतिता लता यथा।
नैवोन्नतिं गच्छति निष्कलोद्यमा परानुगत्यं हि लघीयसां क्रिया।।
शङ्करेण प्रतिज्ञातं यदहं प्राणार्पणेनापि भवन्तमनुवर्तिष्ये इति।
द्वितीयाङ्के यशोरराज्यस्य नरपतेः वृद्धविक्रमादित्यस्य पूर्वपरिचितवैष्णवद्वयस्य गोविन्ददासस्य, श्रीनिवासस्य च परस्परं सम्मेलनं वर्णितम्।
तृतीयाङ्कस्यारम्भे कार्यस्थलं शङ्करस्य गृहं वर्तते । नवाबेन सुरेन्द्रनाथो नाम निजसेनापतिः अपराधिनो विशेषतश्च शङ्करस्य पत्नीं ग्रहीतु प्रेषितः । शङ्करः स्वभवनं धर्मपत्नीं च सूर्यकान्तगुहस्य संरक्षणे निधाय पलायितवान् । सूर्यकान्तः सुरेन्द्रनाथं निवर्तयितुं बहुवारं प्रार्थयामास किन्तु सुरन्द्रनाथो नानुमेने तस्य वचनम्। ततः सूर्यकान्तः तारस्वरेणेदं निगदितवान्
सतीकुलशिरोमणिं द्विजवरस्य पत्नीं द्विजो
भवन्नपि समीहसे यवनभोगसम्पत्तये।।
कदापि भविता न ते फलवतीयमाशालता
सवीयहविषः सुतिः पतति कुक्कुरास्ये किमु।।[२]
एतत्समाकण्य सुरेन्द्रनाथः परमक्रुध्यत्। तत्र तौ तुमुलमयुध्यत । सूर्यकान्तः पक्षधरैः सह वीरगतिं प्राप । सुरेन्द्रः शङ्करस्य पत्नयाः निकटं जगाम । सा शिवस्तुतौ दत्तावधानासीत् । तस्मिन्नेव क्षणे शङ्करः, प्रतापश्च तत्राजग्मतुः । ताभ्यां सुरेन्द्रो हतः।
चतुर्थेऽङ्के वर्षचतुष्ट्यानन्तरवति घटनाचक्रं वर्णितम् । दिल्लीनगरे अकबरस्य सभास्थानमेवास्ति दृश्यस्थली । अकबरो निखिलमपि यशोरराज्यं प्रतापाधिष्ठितं चकार । पञ्चमेऽङ्के नवाबो यशोरराज्यं लक्ष्यीकृत्य भीषणाक्रमणं चकार । तस्य वासभवने तोरावनामकं मित्रं कामाग्निशमनार्थं तिस्रो नवीनकन्यकाः कस्माञ्चित् स्थानादानीतवान् । विवशास्ताः परित्राणार्थं शङ्करं प्रार्थयन्ति । तस्मिन्नेवावसरे नेपथ्ये - हर, हर महादेव, गुडुम्, गुडुम् दुम् इति श्रूयते । तस्मिन् तुमुलसङ्ग्रामे नवाबो निगडितः ।
षष्ठेऽङ्के विक्रमादित्येन राज्यस्य भूयान् भागः प्रतापाय तदवशिष्टो भागश्चानुजाय वसन्ताय समर्पितः। एतस्यान्ते प्रतापस्य राज्याभिषेको वर्णितः । सप्तमाङ्के मानसिंहो यशोरराज्यमाक्रमति । एकदा वसन्तरायः प्रतापं हन्तुं सचेष्टोऽभवत् किन्तु परमकुशलेन प्रतापेन स एव मृत्युपदं प्रापितः ।
अकबरस्य मृत्योरनन्तरं जहाँगीरेण लक्षद्वयसैनिकमण्डिता महती सेना यशोरराज्यं जेतुं प्रेषिता । सेनापतिस्तु मानसिंह आसीत् । तस्मिन् तुमुलसंग्रामे प्रथमं मानसिंहः पराजितोऽभवत्। हास्यसर्जने कविर्निष्णातो वर्तते । षष्ठेऽङ्के -
नारीणां गुडिका विखण्डितदलं दोक्ता च सक्ता पृथक्
नस्यं भूरिमनीषिणां च चुरटं चंचद्विलासात्मनाम्।
हुक्का-गुडगुडिकाल्बलाविलसनैः शेषान् समालम्बते
चक्रं दर्शयते च्युतं वितनुते मुक्तिं प्रदत्ते पराम्।।[३]
वङ्गीयप्रतापे साङ्गीतिकमनोरञ्जनं स्थाने स्थाने सन्निविष्टमस्ति । प्रथमाङ्कस्यारम्भः शङ्करस्य गीतेन भवति । द्वितीयाङ्के श्रीनिवासो नाम वैष्णवसाधुर्गायति -
‘जीव!, श्रीनरदेहो
निमेषे हि नाशमेति किं मानमहो ।
गृहं त्यज वनं व्रज, हरिं भज किमिच्छसि हो ।
नारी-नरः प्रणश्वरः स्थिरतरः कोऽपि किमाहो' ।।
तृतीयाङ्कस्य पूर्वविष्कम्भकस्यारम्भो धीवराणां प्राकृतगीतेन भवति यथा-
'अले, आकासे वहइ वाओ भासइ मेहो दीसइ भङ्गओ' इत्यादिकम्।
वङ्गीयप्रतापे बहुविधं छायातत्त्वमस्ति । परिवर्तितवेशाः परिवर्तितमनोभावास्तथा परिवर्तितरूपाश्चानेके चरितनायका वर्तन्ते। सर्वाधिकं महत्त्वपूर्णं छायातत्त्वं कल्याणीचित्रमाधारीकृत्य विनिवेशितं कविना। सूत्रधारेण नाटकस्यास्य प्रस्तावनायां सूचितं यद्, आदेशोऽस्ति सामाजिकानां देश-भक्ति-रस-परिप्लुत-सुन्दर-प्रबन्धाभिनयार्थम् इति। स पुनरपि कथयति -
विषमयवनराज्यात् प्राज्यदुर्नीतिपूर्णात्
सुषमविषमभावप्राप्तमिंराजराज्यम्।
स्वजनकृतमुपेत्य ज्ञातुमिच्छुः स्वभावात्
तमस इव शशाङ्कः पूर्ववृत्तानि लोकः।।[४]