वर्षाचर्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


वर्षासु नराणां शरीराणि त्रिभिरपि दोषैर्दुष्यन्ति।तत्रापि वात: प्रकुप्यतितराम्। अग्निर्नितरां मान्द्यमुपैति।तस्मादन्नद्रव्याणि प्रभूतसावधानचेतसा भक्ष्याणि। तेन सहैवाग्निदीपनानि पाचनानि द्रव्याणि च सेव्यानि।एकस्माद्वर्षात्पूर्वं जातं धान्यमस्मिनृतौ हिताय भवति। द्विदलेषु मुद्गा: सुखजीर्या:, तसमाद्भक्ष्या:।अन्नस्य रुचिप्रदानकर्मणि सलवणं पञ्चकोलमिश्रितं हि तक्रं प्रशस्यते। वर्षादौ नरशरीराणि वामकरेचकौषधक्षमानि च सञ्जायन्ते।तस्मात्तेषामुपयोग: कार्य:। बृहदान्त्रस्य स्वच्छीकरणाय बस्तिस्वीकरणं भवति।तेन सार्वदेहिकवातस्यापि शोधनं जायते। पानार्थे सुतप्तमम्बु सुखाय भवति।स्नानार्थे शौचार्थे च नित्यमे-वोष्णं जलम् उपयोज्यम्। निशायां सुखतप्तगृहेष्वेव स्वप्तव्यम्। बाष्पसंपृक्ते वातावरणे सति स्निग्धाम्ललवणरसैरनतिद्रवैश्च पदार्थैरन्नपूरणं कार्यम्। एषु दिनेषु दिवा निद्रा अतिरिक्तश्रमश्च वर्ज्य एव भवति।व्यायामोऽप्यधिको न भवेत्।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वर्षाचर्या&oldid=409661" इत्यस्माद् प्रतिप्राप्तम्