वर्षा-ऋतुवर्णनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


।। वर्षा – वर्णनम् ।। 1. जलधरो जलधाराम् वर्षति ।

      कदा वर्षति ? निदाघकालस्य शौर्यं प्रद्योतनम् संहृत्य ।

2. घनो जनमाह्लादयति दुःखमपि जनयति च ।

      कथम् ? शरीरतापम् अपास्य (दूरे कृत्वा) शीतस्य सुखम् अनुभावयन् घनो जनमाह्लादयति । मार्गे पङ्कम् परिपोष्य (पथि पङ्कम् उद्भावयन् , पुरस्कृत्य) दुःखमपि जनयति च ।
      2. शरीरतापमपास्य यथा घनो जनमाह्लादयति तथा पङ्कम् परिपोष्य जनानाम् दुःखमपि जनयति
   जलदः च ।
      2.(अ) ग्रामेषु तोयैः पङ्कैश्च पूर्णाः पन्थानः अध्वगानाम् (पदातीनाम् , यात्रिणाम्) अलङ्घ्यभावम् 
   प्राप्नुवन्ति ।
      2.(अ) निखिलेषु ग्रामेषु प्रायः तोयैः(उदकैः, अद्भिः, पयोभिः) पङ्कैश्च पूर्णाः पन्थानः (मार्गाः, 
   अध्वानः) अध्वगानाम् (पदातीनाम् , यात्रिणाम्) अनुलङ्घनीयाः भवन्ति (कष्टकराः भवन्ति, कष्टैः 
   उत्तरणीयाः भवन्ति, दुर्गमाः भवन्ति ।)
      2.(अ) मार्गाणाम् पङ्कमयत्वात् वर्षाकाले गृहे निवसन्तो (गृहवासिनः) जनाः सुखमनुभवन्ति । 
   यद्यपि मनुजानाम् एषा स्थितिः, परन्तु पक्षिणः तु जलपातेन सुखमेव अनुभवन्ति । केचन जले 
   निमग्नाः सन्तः (सुखदम् , आनन्दकरम् , आह्लादकम्) शैत्यम् अनुभवन्ति । केचन वृक्षे स्थिताः 
   सन्तः शैत्यम् (शैत्यसुखम् , शैत्यानन्दम्) अनुभवन्ति । एतेषाम् कृते कदाचिदपि पङ्कपीडा न बाधते । 
      2.(आ) हंसाः वर्षाकाले यदा मानसम् गच्छन्ति, तदा स्वकीयम् दयितम् हंसम् मानसरोवरम् 
   (मानसम् सरः) प्रति गच्छन्तम् (गच्छन्ति, तम्) अवलोक्य तत्प्रिया कमलिनी वियोगात् जलराशौ 
   निमज्जति(निमग्ना भवति) ।

3. तटिन्यः उन्मार्गम् प्रयान्ति ।

       भयङ्करावर्तसहस्राकुलाः (सहस्रैः भयङ्करैः आवर्तैः आकुलिताः)  तटिन्यो ( नद्यः, सरिताः, सरितः, 
    अपगाः) जलरयैः (जलस्य वेगेन, जलस्य प्रवाहेण, जलधाराभिः) स्वकीयानि तटानि (कूलानि) 
    विपाट्य(भित्त्वा , त्रोटयित्वा) उन्मार्गम् (उत्पथम्) प्रयान्ति ।

4. विश्वं निबिडे अन्धकारे निलीयते ।

       निशाकरे दिनकरे च प्रच्छन्ने सति, दुर्दिने प्रवृत्ते, जलदे अभ्युदिते च सर्वम् अपि विश्वम् (निखिलम् 
    अपि जगत्) निबिडे (गाढे , प्रगाढे, गहने) अन्धकारे (तमसि) निलीयते ।

5. केकिसमूहाः केकाभिर्जनमनांसि प्रीणयन्ति च ।

       स्तनयित्नुगर्जितं श्रावं श्रावं (श्रुत्वा श्रुत्वा) जातहर्षाः केकिसमूहाः (मयूरवृन्दाः, मयूरगणाः) 
    कुटजपुष्पदिग्धायाम् (कुटजैः पुष्पैः प्रपूरितायाम्) वनभूमौ नरीनृत्यन्ते (भृशम् नृत्यन्ति) , 
    स्वानवद्याभिः (स्वकीयाभिः अनवद्याभिः, कलंकरहिताभिः, परिशुद्धाभिः) केकाभिः जनमनांसि 
    (जनानाम् मनांसि) प्रीणयन्ति च । 

6. बलाकाः दिवि शोभन्ते ।

       6. जनानाम् हर्षम् उत्पादयन्तः, महावनानाम् दावाग्निज्वरम्  मुष्णन्तः (चोरयन्तः, अपहरन्तः)
    आर्त्तस्वराणाम् चातकानाम् श्रेयांसि सम्पादयन्तः जलदा दृश्यन्ते । 
       6. (अ) गर्जन्तः (गर्जनाम् कुर्वन्तः) जनानाम् हर्षम् उत्पादयन्तः (जनयन्तः), महावनानाम् 
     दावाग्निज्वरम्  मुष्णन्तः (चोरयन्तः, अपहरन्तः) आर्त्तस्वराणाम् चातकानाम् श्रेयांसि सम्पादयन्तः
     जलदान् (मेघान् , पयोदान् , बलाहकान्) गगने (आकाशे, वियति, नभसि) सर्वत्र पश्यामः । 
       6. (आ) अस्मिन् काले घनघरट्टेन घृष्टस्य चन्द्रस्य खण्डा इव बलाकाः दिवि शोभन्ते । 

7. पवनः प्रवाति ।

       शैत्यम् आवहन्तः (शैत्यसुखवाहिन्यः, शैत्यवाहिन्यः), लोकाय तोषं किरन्तः (विकिरन्तः, 
     प्रसारयन्तः)  कम्पित-कदम्ब-वनाः(कम्पितानि कदम्बस्य वनानि यैः, तादृशाः) प्रबलाः 
     प्रभञ्जनाः(झञ्झावाताः) प्रवान्ति ।
        समागतेसु प्रभूतेसु वर्षावारिषु - समागतासु प्रभूतासु वर्षायाः अप्सु शैत्यम् आवहन्तः (शैत्य-सुख-
     वाहिन्यः, शैत्यवाहिन्यः), लोकाय तोषं किरन्तः(विकिरन्तः, प्रसारयन्तः) कम्पित-कदम्ब-
     वनाः(कम्पितानि कदम्बस्य वनानि यैः, तादृशाः) प्रबलाः प्रभञ्जनाः (झञ्झावाताः) प्रवान्ति ।
       केतकी-नीपादि-वृक्षाणाम् पुष्प-परागम् दिक्षु विदिक्षु किरन् पवनः प्रवाति ।।
                     
                     ।। (सति) भावलक्षणायाः सप्तम्याः प्रयोगः ।।
  1.(क)यदा वर्षाकाले साटोपम् आरटन्तः, नभोमण्डले अटन्तः, वारणानाम् घटनाम् विडम्बयन्तः वार्धि-( समुद्र)-विष-(जल)पान-पिचिण्डिला(स्थूलकाया) बलाहका जलानि उद्गिरन्ति, तदा हर्षप्रकर्षम् आतन्वानाः कर्षका गृहेभ्यो निःसरन्ति, स्वक्षेत्रं प्रति, स्वकीयानि जीवितान्यप्युपेक्ष्य । 
  1.(क) वर्षाकाले साटोपम् आरटत्सु , नभोमण्डले अटत्सु , वारणानाम् घटनाम् विडम्बयत्सु, वार्धि-( समुद्र)विष-(जल)पान-पिचिण्डिलेषु (स्थूलकायेषु) बलाहकेषु जलानि उद्गिरत्सु हर्षप्रकर्षम् आतन्वानाः कर्षका गृहेभ्यो निःसरन्ति, स्वक्षेत्रं प्रति, स्वकीयानि जीवितान्यप्युपेक्ष्य । 
   2.(क) प्रावृषि विद्युतः कर्मापि स्तुत्यम् । अन्धे तमसि स्फुरन्त्यः चञ्चुराः (चञ्चलाः) अचिरद्युतयो वातायन-विवर-गताभिः स्वप्रभाभिः तुङ्ग(उच्चैः)-सौध(प्रासाद)-क्रोडे(अङ्के) सुप्तानाम् अङ्गनानाम् (स्त्री-जनानाम्) अङ्गानि उद्भासितानि कुर्वन्ति । 
   2.(क) प्रावृषि विद्युतः कर्मापि स्तुत्यम् । अन्धे तमसि स्फुरन्त्सु चञ्चुरेषु (चञ्चलेषु) अचिरद्युतिषु वातायन-विवर-गतेषु विद्युत्सु , तुङ्ग( उच्चैः)-सौध( प्रासाद )-क्रोडे(अङ्के) सुप्तानाम् अङ्गनानाम् ( स्त्री-जनानाम्) अङ्गानि उद्भासितानि भवन्ति ।
                          अन्यदपि ----
  3.(क) प्रावृषि कदाचिज्जलदा अनेकानि दिनानि वर्षन्ति । प्रावृषः श्यामा क्षपा कालायते । पार्श्वस्थम् वस्त्वपि नावलोक्यते (पदार्थो∫पि दृष्टिपथम् नागच्छति , पदार्थम् अपि न पश्यामो वयम् , पदार्थदर्शने∫पि वयम् असमर्थाः भवामः, पदार्थस्य दर्शनम् अपि कर्तुम् न शक्नुमः)। 
  4.(क) अयम् ऋतुः कृषकाणामत्यन्तमेव प्रियः । पृथ्वी शस्यसङ्कला, जलपूर्णा च संलक्ष्यते । हरिच्छाटिका वेष्टिता वनभूमिः प्रमोदाय कल्पते । आकाशे शक्रधनुरुदयं प्राप्य नेत्रेभ्यः सुखं प्रयच्छति । जलं पातुकामा घोरमारवं कुर्वती जलस्थिता मूर्खमण्डूकमण्डली स्वघोषपरम्पराभिः श्रोत्ररन्ध्रमापूरयति । वर्षाकालस्य सरो∫पि अकूपारायते ।
                                   --- 0000 ---
                             ।। वर्षा – वर्णनम् ।।

प्रस्तावना अस्माकम् भारते वर्षे प्रतिवर्षम् प्रायः षण्णाम् ऋतूनाम् समागमनम् भवति । ताषामयम् क्रमः – शरद् – हेमन्तः, वसन्तः, ग्रीष्मः, वर्षा, शिशिरः च । एतासाम् समासामपि ऋतूनाम् स्वकीयं स्वकीयं वैशिष्ट्यम् सौख्यम् दृश्यम् अनुभूतिश्च वर्तते ।

निदाघकालस्य तीव्रतमम् तापम् संहृत्य वर्षायामृतौ जलधरो जलधाराम् वर्षति । जलधरजेन जलेन जनानाम् शरीरस्य तापः समाप्तिम् गच्छति । जनाः शीतस्य सुखम् अनुभवन्ति । एवम् एकत्र शैत्यसुखम् अनुभावयन् घनो जनमाह्लादयति, अपरतः मृन्मये मार्गे पङ्कम् परिपोष्य जनानाम् कृते दुःखमपि जनयति । एवमत्र सुखदुःखयोः सह अनुभूतिः जायते ।

वस्तुतस्तु संसार एष सुखदुःखात्मकः । अत एव वर्षाकाले एकत्र हंसाः सुखानुभूतये मानसम् गच्छन्ति सुखानुभूतिम् च कुर्वन्ति, तदा अपरत्र सुखानुभूतये स्वकीयम् दयितम् तमेव हंसम् मानसरोवरम् प्रति गच्छन्तम् अवलोक्य तत्प्रिया कमलिनी तत्वियोगात् जलराशौ निमज्जति, एवं च दुःखानुभूतिम् करोति ।

वर्षायाः जलेन भरितोदराः सहस्रैः भयङ्करैः आवर्तैः आकुलिताः तटिन्यः कदाचित् उन्मार्गमपि प्रयान्ति । जलस्य प्रवाहस्य तीव्रतरेण वेगेन स्वकीयानि तटानि विपाट्य(भित्त्वा,त्रोटयित्वा वा) उन्मार्गम् प्रयान्ति । एतेन ग्रामजनानाम् गृहाणि पतन्ति, कृषकानाम् कृषिः विनश्यति, पशवः निमज्जन्ति, वृक्षाः निपतन्ति च ।

वर्षायाम् केवलम् विनाशलीलैव भवतीति तु न, अस्यामृतौ निरसाः तरुवराः सरसाः भवन्ति, निर्जलाः तडागाः सजलाः भवन्ति, निष्तृणानि (तृणविहिनानि) क्षेत्राणि सतृणानि भवन्ति । वनभूमिः कुटजैः पुष्पैः प्रपूरिता भवति । पर्वताः हरितावरेण आवृताः दृष्टिपथम् आयान्ति । पशवः सुकोमलनानि सद्योजातानि नवानि तृणानि यथेष्टम् खादयन्ति, यथेष्टम् जलम् पिबन्ति, पीनाः पुष्टाश्च भवन्ति । वर्षागमेन परमानन्दमनुभवन्तः केकिसमूहाः स्वकीयैः केकाभिर्जनानाम् मनांसि प्रीणयन्ति । एवम् सर्वत्र सुखम् प्रसृतम् भवति ।

चन्द्रस्य खण्डा इव बलाकाः दिवि शोभन्ते । यथा प्रियपुत्रस्य आगमनेन गेहेषु मातरः आनन्दिताः भवन्ति तथा जलदानाम् आगमनेन वृक्षेषु चातकाः आनन्दिताः भवन्ति । नद्यो यथा सागरम् कामयमानाः तम्प्रति शीघ्रम् प्रधावन्ति तथा प्रवासिनो जनाः अपि प्रियाः कामयमानाः सद्यः स्वगृहम् प्रधावन्ति ।

                            ।। वर्षा – वर्णनम् ।।

प्रस्तावना अस्माकम् भारते वर्षे प्रतिवर्षम् प्रायः षण्णाम् ऋतूनाम् समागमनम् भवति । ताषामयम् क्रमः – शरद् – हेमन्तः, वसन्तः, ग्रीष्मः, वर्षा, शिशिरः च । एतासाम् समासामपि ऋतूनाम् स्वकीयं स्वकीयं वैशिष्ट्यम् सौख्यम् दृश्यम् अनुभूतिश्च वर्तते ।

समाप्ते निदाघकाले, संहते तीव्रतमे तापे वर्षायाः आगमनम् भवति । समागतायाम् वर्षायाम् जलधरो जलधाराम् वर्षति । जलधरेण वर्षितेषु अप्सु जनानाम् शरीरस्य तापः समाप्तिम् गच्छति । समाप्ते तापे जनाः शीतस्य सुखम् अनुभवन्ति । एवम् स्वागमनेन शैत्यसुखम् अनुभावयन् घनो जनमाह्लादयति ।

वर्षायाः कालो∫यम् मृन्मये मार्गे पङ्कम् परिपोष्य जनानाम् कृते दुःखमपि जनयति । मार्गे पङ्कमये जाते गमनागमने जनानाम् कष्टम् भवति, परन्तु पङ्कमये क्षेत्रे सत्येव तत्र धान्यवपनम् संभवतीति कृषिवलाः क्षेत्रम् पङ्कमयम् भवत्विति कामयन्त एव । सत्यामपि अस्याम् स्थितौ समृद्धे पङ्के यदा भारवाहनानि अपि निष्फलानि जायन्ते, तदा कृषकानामपि कष्टम् भवति, विशेषतः क्षेत्रतः घासानयने कृषिसाधनानाम् गृहतः क्षेत्रपर्यन्तम् च परिवहने ।


वस्तुतस्तु संसार एष सुखदुःखात्मकः । अत एव वर्षाकाले एकत्र हंसाः सुखानुभूतये मानसम् गच्छन्ति सुखानुभूतिम् च कुर्वन्ति, तदा अपरत्र सुखानुभूतये स्वकीयम् दयितम् तमेव हंसम् मानसरोवरम् प्रति गच्छन्तम् अवलोक्य तत्प्रिया कमलिनी तत्वियोगात् जलराशौ निमज्जति, एवं च दुःखानुभूतिम् करोति ।

वर्षायाः जलेन भरितोदरासु सहस्रैः भयङ्करैः आवर्तैः आकुलितासु तटिनीषु कदाचित् विनाशो∫पि संभवति । जलस्य तीव्रतरेण प्रवाहस्य वेगेन स्वकीयानि तटानि विपाट्य(भित्त्वा,त्रोटयित्वा वा) नद्यः उन्मार्गम् प्रयान्ति । एतेन ग्रामजनानाम् गृहाणि पतन्ति, कृषकानाम् कृषिः विनश्यति, पशवः निमज्जन्ति, वृक्षाः निपतन्ति च । एवम् पतितेषु गृहेषु, विनष्टासु कृषिषु, निमज्जेषु पशुषु, निपतितेषु वृक्षेषु वर्षागमनेन पूर्वम् हानिरेव भवति ग्रामजनानाम् ।

वर्षायाम् केवलम् विनाशलीलैव भवतीति तु न, अस्यामृतौ सत्याम् वृष्टौ निरसाः तरुवराः सरसाः भवन्ति। समागतेषु जलेषु निर्जलाः तडागाः सजलाः भवन्ति । पीतेषु उदकेषु निष्तृणानि (तृणविहिनानि) क्षेत्राणि सतृणानि भवन्ति । वनभूमिः कुटजैः पुष्पैः प्रपूरिता भवति । जातेषु नवीनेषु घासेषु पर्वताः हरितावरेण आवृताः दृष्टिपथम् आयान्ति । पशवः सुकोमलनानि सद्योजातानि नवानि तृणानि यथेष्टम् खादयन्ति, यथेष्टम् जलम् पिबन्ति, पीनाः पुष्टाश्च भवन्ति । वर्षागमेन परमानन्दमनुभवन्तः केकिसमूहाः स्वकीयैः केकाभिर्जनानाम् मनांसि प्रीणयन्ति । एवम् सर्वत्र सुखम् प्रसृतम् भवति ।

समुपस्थितेषु घनेषु चन्द्रस्य खण्डा इव बलाकाः दिवि शोभन्ते । समागतासु वर्षासु यात्रावरोधे सती यात्रिणः स्वम् गेहम् प्रत्यागच्छन्ति । आगमनेन गेहेषु मातरः आनन्दिताः भवन्ति तथा जलदानाम् आगमनेन वृक्षेषु चातकाः आनन्दिताः भवन्ति । नद्यो यथा सागरम् कामयमानाः तम्प्रति शीघ्रम् प्रधावन्ति तथा प्रवासिनो जनाः अपि प्रियाः कामयमानाः सद्यः स्वगृहम् प्रधावन्ति ।

अस्माकम् भारते देशे सुखदाः षड् ऋतवः यथासमयम् समागच्छन्ति । शरद्, हेमन्तः, वसन्तः, ग्रीष्मः, वर्षा, शिशिरः चेति ताषामयम् क्रमः । एतासु समासु अपि ऋतूषु तदीयन्तदीयम् यत्यत् वैशिष्ट्यम् सौख्यम् दृश्यम् अनुभूतिश्च वा वर्तते, तत्तत् जनाः मनोयोगपूर्वकम् आस्वादयन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वर्षा-ऋतुवर्णनम्&oldid=409660" इत्यस्माद् पुनः प्राप्तिः