वाक्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


किं नाम वाक्यम् ? कारकान्विता क्रिया वाक्यम् ।

यथा –
१. मृगो धावति,
२. छात्रः श्लोकं पठति,
३. सः कटे उपविशति इति ।
एषु प्रथमवाक्ये कर्तृकारकेण अन्विता धावनक्रिया । द्वितीये– कर्तृकारकेण कर्मकारकेण च अन्विता पठनक्रिया । तृतीये– कर्तृकारकेण अधिकरणकारकेण च अन्विता उपवेशनक्रिया ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाक्यम्&oldid=409666" इत्यस्माद् प्रतिप्राप्तम्