वाचस्पत्यम्
वाचस्पत्यम् इति षटसु संपुटेषु पूर्णो महाशब्दकोषः । यस्य च रचयिता “ तर्कवाचस्पति” रिति बिरुदाङ्कितस्तत्रभवान् तारानाथः । अस्य महाकोषस्य पीठिकायामेते ग्रन्थाः वा शास्त्रविषयाः वा मुद्रिताः –पाणिनीयं लिङ्गानुशासनं, व्याकरणीयानां मुख्यानां प्रत्ययानां पट्टिका, रुढ-यौगिकभेदेन शब्दद्वैविध्यं च । यद्यप्याधुनिके काले एतादृश्यः पट्टिका बहुषु ग्रन्थेषूपलभ्यन्ते, परन्तु तस्मिन् काले तथा नासीत् ।
अत्रोपलभ्यमानानां विषयाणां पट्टिका काचिदादिमे संपुटे दत्ता । तदनुसारेण सर्वाणि दर्शनानि, पुराणेतिहासयोः समग्राः प्रतिपाद्या विषयाः, ज्यौतिष-तन्त्र-व्याकरण- संगीत-निष्ठाः पारिभाषिकाः सर्वे शब्दाः, छन्दोऽलङ्कारनृत्यादीनां सकलानि प्रतिपाद्यानि वस्तूनि इत्यादीत्यादि । किं बहुनोक्तेन ? अलमेषः कोषः शब्दकल्पद्रुमाय । अधितारानाथं संक्षेपतो परिचायितं षष्ठस्य संपुटस्योपसंहारे । वात्स्यवंशे कमलाकान्ताभिध आसीद् वैदिकपुंगवः । तद्वंशीयस्य मुकुन्दाभिधस्य पुत्रो रामतर्कसिध्दान्तः । स सदाऽपि शिव शिव इति जपति स्म । तस्मात्तस्य शिवशिवः इत्येव संज्ञाऽजनि । तस्य त्रयः सूनवः-वंशीधरतर्क पञ्चाननः, दुर्गादासः, नानाशास्त्रेषु दनीष्णश्च कालिदाससार्वभौमः ।
कालिदाससार्वभौमस्य पुत्र एवास्माकं कोषकृत् तारानाथः । अस्य तर्कवाचस्पतिरिति बिरुदमस्यैव गुरुणा प्रत्तम् । कोलकतायाः शासकीयायां संस्कृतपाठशालायां कृताध्ययन एष काशीप्रभृतिषु स्थलेषु समधीतविविधशास्त्रोऽभूत । यस्यां शालायामध्य्यनमस्य प्रथमं कृतं तस्यामेव शालायां त्रिंशाद्वर्षाणि व्याकरणादिशास्त्रेषु अध्यापकोऽभूत्
रचनाकालः
[सम्पादयतु]१८६६ ईसव्यां प्रारब्धा वाचस्पत्यस्य् रचना १८८४ ईसव्यां संपूर्णेति ज्ञायते । अर्थात्, अष्टादशवर्षेषु परिपूर्णतामनायि महाकोष एषः । वाचस्पत्यस्य रचनायामसमाप्तायां कुतश्चित् कारणात् तारानाथस्य वेतनेऽर्धमात्रया नैयून्यं संजातम् । तथाऽप्यध्ययनात् कथमप्यपराजयमानोऽयं वाचस्पत्याख्यं महाकोशम् एकल एव रचयमास इति तु साक्षाद् वाचस्पतिरेव प्रभवति भगीरथश्रमसोदरं श्रममेतदीयं वर्णयितुं नान्य इत्यस्य सूचकम् ।कानि कानि कष्टानि सोढव्यान्यापतितानि स्युस्तारानाथेनेति केवलं कल्पनयैव विस्मयजो रोमाञ्च उद्भवति ।
परन्तु कोषस्यास्य मुद्रणां दृष्टवतां पाठकानां कश्चनोद्वेगः पदं निदधाति हृदये । अत्रत्यानि मुद्राक्षराणि (Fonts) सर्वथा कुरुपाणि पठनानर्हाणि च । ग्रन्थस्य पठनमेव कदाचिदनल्पं श्रममपेक्षते । तारानाथस्तु कोल्कत्तानगरे स्वसमये समुपलब्धानामेवाक्षराणामुपयोगं कृतवानस्ति । शब्दकल्पद्रुमस्य मुद्रणा वाचस्पत्यस्य मुद्रणाया वरम् । केवलं व्यापारार्थं द्युतिविन्यासेन (Photo offset) वाचस्पत्यं भूयो भूयो मुद्रापयन्तः प्रकाशका यदि सुन्दरैर्लघुतमैश्चाक्षरविन्यासैरस्य मुद्रणाम् एकस्मिन्नेव संपुटे निर्वर्त्य प्रकाशयेयुः इत्यं भूतलक्षणां सब्दुद्धिं प्रदर्शयिष्यद्भयस्तेभ्यः समस्ताऽपि सांस्कृती जगती ऋणिनी भविष्यति ।