वामनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वामनीसस्यम्

एषा वामनी अपि भारते वर्धमानः सस्यविशेषः । इयं वामनी अपि सस्यजन्यः आहारपदार्थः । एषा वामनी आङ्ग्लभाषायां Sweet Flag अथवा Calamus इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Acores calamus इति । एषा वामनी प्रायः औषधत्वेन एव उपयुज्यते सर्वत्र । अस्य वामनीसस्यस्य मूलं, भौमिकं काण्डं चापि औषधत्वेन उपयुज्यते । अन्यानि अङ्गानि तु न उपयुज्यन्ते । इयं वामनी गन्धद्रव्येषु यथा प्रमुखा तथैव औषधीयेषु सस्येषु अपि प्रमुखा एव । इयं वामनी जलबहुले प्रदेशे वर्धते सामान्यतयाय । हरिद्रा शुण्ठी इव मूलस्य खण्डात् नूतनं सस्यं वर्धयितुं शक्यते अस्याः वामन्याः अपि । इयं वामनी भूमौ अङ्कुरणादारभ्य ५ – ६ मासेषु उपयोगार्थं सिद्धा भवति । अस्य सस्यस्य मूलम् एव औषधत्वेन उपयुज्यते । प्रायः सर्वाभिः मातृभिः ज्ञातम् औषधीयं सस्यम् इदम् । इयं वामनी वचा उग्रगन्धा इत्यपि उच्यते ।

इतरभाषासु अस्याः वामन्याः नामानि[सम्पादयतु]

इयं वामनी आङ्ग्लभाषयाAcorus Calamus इति उच्यते । हिन्दीभाषया“बजे” इति, तेलुगुभाषया“वडज” इति, तमिळ्भाषायां “चबनम्” इति, मलयाळभाषया“बावाम्ब” इति, कन्नडभाषया“बजे” अथवा “अतिबजे” इति उच्यते ।

गॄहौषधरूपेण वामनी[सम्पादयतु]

अस्याः वामन्याः प्रयोजनानि अनन्तानि सन्ति । इयं रुचौ कटुः तथा तिक्ता च । इयं वामनी उष्णं वर्धयति । वामनी बालानां माता इव । १. वामनी स्मरणशक्तिं वर्धयति, वचसः स्खलनं निवारयति च । २. इयं वामनी शिरोवेदनां, कीलवेदनाम्, उदरवेदनां, पीनसं चापि शमयति । ३. शिलायाः उपरि अस्याः वामन्याः मूलं सम्यक् उद्घर्ष्य मधुना सह सेव्यते चेत् बुद्धिशक्तिः, स्मरणशक्तिः च वर्धेते । ४. एषा वामनी रोगनिरोधकशक्तिं वर्धयति । वचसि स्पष्टताम् उत्पादयति चापि । ५. वामनी बालानां वयसः अनुगुणं १ मासस्य शिशुतः आरभ्य ५ वर्षाणां वयसः बालेभ्यः दातुं शक्यते । आरम्भस्तरे माषस्य गात्रस्य प्रमाणेन दातव्यम् । अनन्तरं क्रमेण वर्धयितुं शक्यते । ६. बालेषु ज्वरस्य तापः वर्धते चेत् वामनीं दुग्धेन दह वा उष्णजलेन सह वा उद्घर्ष्य ललाटे लेपनीयम् । ७. वामनी यदि अधिकप्रमाणेन सेव्यते तर्हि वमनं भवति । ८. कीलवेदनायाम् उदरवेदनायां सत्यां च वामनीम् उद्घर्ष्य तद्भागे लेपयितुम् अपि शक्या ।


वामनीसस्यं, मूलं, काण्डं, पुष्पं चापि

एषा वामनी कटुरसयुक्ता । एषा उष्णगुणयुक्ता, तीक्ष्णा चापि ।

“वामनी कटुतीक्षोष्णा वातश्लेषरुजापहा ।
कण्ठ्या मेध्या च कृमिहृद्विबन्धाध्मानशूलनुत् ॥“ (धन्वन्तरीकोषः)

आयुर्वेदस्य अनुसारम् अस्याः वामन्याः प्रयोजनानि[सम्पादयतु]

१. एषा वामनी वातं कफं च हरति ।
२. एषा कण्ठ्या, मेध्या च ।
३. एषा वामनी क्रिमिदोषान् निवारयति । कासं, दीर्घकालीनम् अतिसारं च शमयति ।
४. एषा वामनी कासं, श्वासम् (अस्तमा), कण्ठरोगान् च निवारयति ।
५. एतस्याः वामन्याः सेवनेन अजीर्णं, विषमज्वरः च अपगच्छति ।
६. एतां वामनीम् उन्मादे, अपस्मारे चापि उपयोक्तुं शक्यते ।
७. अस्याः वामन्याः गुलिका एकवारं १२५ – ५०० मि.ग्रां यावत् उपयुज्यते ।
८. एषा वामनी वमनार्थं १- २ ग्रां यावत् दीयते ।
९. एषा पित्तं वर्धयति । अतः पित्तप्रकृतियुक्ताः, पित्तजन्यैः रोगैः पीडिताः, पित्तदेशे काले एषा वर्ज्या ।
१०. वामनीं दग्ध्वा एकवारं ३ -४ ग्रां यावत् मधुना सह योजयित्वा दिने २ – ३ वारं, ३ -४ दिनानि यावत् सेवनेन कासः अपगच्छति ।
११. वामनीं, यष्टीं, चङ्गल्कोष्ठं, मरीचं, शुण्ठीं, पिप्पलीं च समप्रमाणेन योजयित्वा चूर्णीकृत्य वस्त्रेण शोधनीयम् । चूर्णस्य समप्रमाणेन् शर्करां योजयित्वा ३ ग्रां यावत्, दिने द्विवारम् इव मधुना सह योजयित्वा सेवितं चेत् श्वासकासः अपगच्छति ।
१२. वामनीं दग्ध्वा भस्म कृत्वा प्रतिदिनं रात्रौ १- २ ग्रां यावत् खादित्वा क्वथितं जलं पीतं चेत् कासः कफः च अपगच्छति ।
१३. एषा वामनी कफनिस्सारिका, दीपिका च ।
१४. एषा वामनी पाचिका, वृष्या च ।
१५. एषा वामनी कृमिघ्ना, मेध्या, आक्षेपशामिका च ।
१६. अस्याः वामन्याः हितप्रमाणेन मितप्रमणेन च सेवनेन सत्त्वगुणस्य उद्दीपनं भवति ।
१७. एतां वामनीं योजयित्वा निर्मितं सारस्वतघृतमेध्यरसायनं, वचालशुनादितैलं चापि औषधत्वेन उपयुज्यते ।
१८. एषा वामनी शिशुभ्यः बालेभ्यः च प्रतिदिनम् औषधत्वेन दीयते ।
"https://sa.wikipedia.org/w/index.php?title=वामनी&oldid=356790" इत्यस्माद् प्रतिप्राप्तम्