वामन शिवराम आप्टे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


वामनशिवराम-आप्टे (1858 – 9 अगस्त, 1892) प्रसिद्धः कोशकारः । अनेन आङ्ग्ल-संस्कृतकोशः, संस्कृत-आङ्ग्लकोशः च रचितः ।आङ्ग्लभाषया संस्कृतस्य संस्कृत-साहित्यस्य च अध्ययनं कृतवतां सहस्रश: राष्ट्रिय-अन्ताराष्ट्रियजनानां हृदयेषु यस्य कृतिशीलस्य विद्यापुरुषस्य नाम गतैकशताब्द्या: अङ्कितं, स: अस्ति - विद्वान् शिक्षणशास्त्री संस्कृतपण्डित: वामनशिवराम-आप्टे ।

पुणेनगरस्य फर्ग्युसन्महा-विद्यालयस्य सर्वप्रथम: प्राचार्य: श्रीवामन: केवलं 34 वर्षेषु एव स्वजीवनं समापितवान् । तावति अल्पे एव काले अपि स: संस्कृतपठितॄणां यां सेवाम् अकरोत् सा नितरां श्लाघ्या । तेन रचितानां कोशानां द्वारा बहव: छात्रा: संस्कृतभाषायां प्रावीण्यं प्राप्तवन्त: । एतस्य कोषस्य रचनाया: अनन्तरं शतं वर्षाणि अतीतानि । तथापि शब्दार्थस्पष्टीकरणाय अर्थपरिष्काराय च तत्सदृश: कोऽपि कोश: केनापि अद्यावधि न रचित: । कृतनिश्चयस्य अस्य तपस्विन: प्रतिभा, वैदुष्यं, साधना च अद्वितीया ।

बाल्यं प्राथमिकशिक्षणञ्च[सम्पादयतु]

वामनरावस्य पूर्वजा: महाराष्ट्रस्य सावन्तवाडीराज्यस्य आशोलीग्रामस्य निवासिन: । तस्य पिता सद्गृहस्थ: अग्रगण्य: पण्डितश्च । किन्तु दौर्भाग्यात् एकस्य स्नेहिजनस्य धनग्रहणव्यवहारे स: प्रतिभू: अभवत् । स: जन: धनं प्रत्यर्पयितुं न शक्त: । तेन आर्थिक: सङ्कट: आपतित: । एतस्मात् प्रसङ्गात् प्रबलाघात: अलगत् । तेन तस्य पिता अस्य बाल्यावस्थायाम् एव पञ्चत्वं गत: । एतस्मात् एते त्रय: अपि भ्रातर: शैशवे एव अनाथा: जाता: । वामनरावस्य जन्म 1858 तमे वर्षे अभवत् । पितु: देहावसानावसरे वामनस्य आयु: आसीत् 7-8 वर्षात्मकम् । जीवननिर्वाहस्य आधारं गवेषयितुम् आप्टेकुटुम्बकं बेलग्रामं प्राप्नोत् । तत: कोल्हापुरं गतम् । तत्रापि दौर्भाग्यं तत्कुटुम्बकं न अमुञ्चत् । वामनरावस्य माता, एक: भ्राता च पक्षावधौ एव दिवं गतौ । परिवारे द्वौ शिशू भ्रातरौ वामन: माधवश्चम अवशिष्टौ । भ्रातृभ्यां कोल्हापुरे मधुकरीवृत्त्या पठनम् आरब्धम् । तदा राजारामविद्यालयस्य मुख्यशिक्षकस्य प्रसिद्धविदुष: श्रीमहादेवमोरेश्वरकुण्टेवर्यस्य कृपादृष्टि: एतयो: बालकयो: उपरि अपतत् । बालकयो: कुशाग्रां बुद्धिं विद्याप्रीतिं च दृष्ट्वा तयो: मेट्रिक्पर्यन्तस्य विद्याभ्यासस्य व्यवस्था कुण्टे-महाशयेन कृता ।

उच्चशिक्षणम्[सम्पादयतु]

मेट्रिकपरीक्षायाम् उत्तमं परिणामं लब्ध्वा मुम्बापुर्या: काञ्चित् छात्रवृत्तिं प्राप्य 1873 तमे वर्षे वामनराव: पुणेनगरस्थं डेक्कनमहाविद्यालयं प्रविष्ट: । तत्रापि स्वोद्यम-पारायणगुणेन सर्वेषां गुरुजनानां प्रीति: सम्पादिता तेन । तदानीं पुणेनगरस्य स्वदेशीयान्दोलनस्य प्रसिद्धाग्रणे: गणेशवासुदेव-जोशिमहोदयस्य अवधानम् एतस्य प्रतिभावत: विद्यार्थिन: उपरि गतम् । अत: स: स्वपुत्रीं रमाबायीं वामनरावाय अदात् 1876 तमे वर्षे । तदनन्तरवर्षे (1877) वामनराव: गणितविषये स्नातक(बि.ए.)परीक्षां प्रथमश्रेणीं प्राप्य उत्तीर्ण: । संस्कृतं तु तस्य प्रिय: विषय: आसीत् । कश्चित् सुहृत् तम् अवदत् - ‘‘संस्कृतं तु भवत: प्रिय: विषय: । अत: भवान् विना क्लेशं स्नातकोत्तर(एम्.ए.) परीक्षाम् उत्तरीर्तुं शक्ष्यति’’ इति । एतत् श्रुत्वा वामनरावेण एम्.ए.परीक्षायाम् अंग्रेजीविषय: गृहीत: । तत्रापि स: द्वितीयश्रेण्याम् उत्तीर्ण: ।

उद्योगः[सम्पादयतु]

स: डेक्कनमहाविद्यालये अध्यापकत्वेन नियुक्त: । तत: अध्यापनकार्यस्य अनुभव: आरब्ध: । तदनन्तरं किञ्चित्कालम् एकस्मिन् मिशनरीविद्यालये शिक्षकत्वेन कार्यं कृत्वा वामनरावेण सर्वकारीयकार्याय प्रार्थनापत्रं प्रेषितम् । तस्य नियुक्ति: एकस्मिन् माध्यमिकविद्यालये अभवत् । व्याख्यातृत्वयोग्यताम् अपि अविगणय्य सर्वकारेण निम्नकक्ष्यायां पाठनार्थं कार्यं दत्तम् इत्यत: तस्य मन: खिन्नम् ।

आप्टेमहोदयस्य स्मृतिशक्ति: अपूर्वा आसीत् । नान्दीपाठात् भरतवाक्यपर्यन्तं समग्रम् अभिज्ञान-शाकुन्तलनाटकम् अक्षरश: तस्य कण्ठस्थम् आसीत् । तस्य त्यागभावना अपि अपूर्वा एव आसीत् । अग्रज: माधवराव: इव स: अपि सर्वकारीयोद्योगं प्राप्य सुखेन जीवननिर्वाहं कर्तुम् अशक्ष्यत्, किन्तु तेन तथा न कृतम् ।

राष्ट्रियशिक्षणविद्यालये कार्यम्[सम्पादयतु]

तदा राष्ट्रीयशिक्षणनीते: पवन: वाति स्म । पुणेनगरे कठृ अत्डण्ड्ढथड्ड ग्ट्टड्डततण् द्वारा राष्ट्रियशिक्षणप्रवृत्ते: मङ्गलाचरणं जातम् । विद्यालयस्य आरम्भानन्तरं लोकमान्यटिळक: वामनरावं तत्र आनयत् । वामनराव: सर्वकारीयविद्यालये 70 रूप्यकाणि प्राप्नोति स्म । तत् त्यक्त्वा राष्ट्रियशिक्षणयज्ञे 50 रूप्यकाणाम् ऋत्विक्कार्यं तेन स्वीकृतम् । तत्रैव नियामकत्वेन कार्यं गृहीतम् । तस्य आगमनस्य अनन्तरं विद्यालयेन महती प्रगति: साधिता । 1882 तमे वर्षे हण्टर्कमिशन्-अध्यक्ष: श्रीहण्टर: विद्यालयस्य प्रगतिं दृष्ट्वा मुक्तकण्ठेन अवदत् - ‘‘अहं निश्चयेन वक्तुं शक्नोमि यत् एतद्विद्यालयसदृश: नास्ति अन्य: कोऽपि विद्यालय: सम्पूर्णे भारते । सर्वकारस्य अनुदानम् अस्वीकृत्य अपि विद्यालयोऽयं देशस्य सर्वकारीयविद्यालयानां समक्षं गर्वेण स्थातुं शक्नोति’’ इति । विद्यालयस्य एतस्यां प्रगत्यां, साफल्ये, कीर्त्यां च वामनरावस्य सहभाग: महान् ।

डेक्कन् एज्युकेशन् सोसैटी-कार्यम्[सम्पादयतु]

1884तमे वर्षे टिळकादिभि: ‘डेक्कन् एज्युकेशन् सोसैटी’नामिका संस्था स्थापिता । तत्र वामनराव: मन्त्री अभवत् । तस्य अध्यक्षत्वेन डा रामकृष्ण-गोपालभाण्डारकर: आसीत् । तस्मिन् समये भारतस्य प्रमुखनगराणां विद्यालयेषु प्राय: विदेशीयाध्यापकानां नियुक्ति: भवति स्म । तेषां वेतनं चित्ताकर्षकं भवति स्म । अत: विदेशीयाध्यापका:, केचन भारतीया: च अस्य कठृ अत्डण्ड्ढथड्ड ग्ट्टड्डततण् नामकस्य विद्यालयस्य यून: दक्षान् अध्यापकान् कार्यकर्तॄन् च तुच्छभावेन पश्यन्ति स्म । किन्तु एतेन विद्यालयेन वामनरावस्य मार्गदर्शने निष्ठया तथा कार्यं कृतं येन सर्वविद्यालयानां प्रामुख्यं प्राप्तम् । विद्यालयस्य कार्यम् अग्रे नेतुं महालिद्यालयरचनाय प्रयत्ना: आरब्धा: । गर्वनर्द्वारा भूमिं सम्पाद्य अन्या आर्थिकी व्यवस्था चिन्तनीया आसीत् । तदा वामनरावेण एव 75,000/ रूप्यकाणि सङ्गृहीतानि ।

शिक्षणविषये चिन्तनानि[सम्पादयतु]

वामनरावस्य शैक्षणिका: चिन्तनात्मका: केचन विषया: -

  • शिक्षणस्य कृते आनुकूल्यानि वर्धनीयानि ।
  • शिक्षणम् उत्तरोत्तरं निश्शुल्कं भवेत् ।
  • सर्वकारीयशिक्षणपद्धतौ परिवर्तनं प्रगति: च भवेत् ।
  • असर्वकारीयविद्यालयेषु शैक्षणिकं स्वातन्त्र्यम् आवश्यकम् ।
  • सर्वकारस्य अनुदानेन चलन्तीनां संस्थानाम् आन्तरिकप्रशासने सर्वकारस्य हस्तक्षेप: न भवेत् ।
  • शिक्षणस्य माध्यमं मातृभाषा भवेत् ।
  • शिक्षणस्य आदर्श: भारतीय: भवतु ।
  • पाठ्यपुस्तकानि भारतीयविद्याभ्य: प्रोत्साहनं दत्त्वा सज्जीकृतानि भवेयु: ।
  • आङ्ग्लादिविषयाणां शिक्षणं भारतीयानाम् अधीनं भवेत् ।

एक: प्रतिसप्ताहं रविवासर: कोशस्य रचनार्थं रक्षित: आसीत् वामनरावेण । रविवासरे नान्य: कार्यक्रम: । वामनराव: एतादृशै: शैक्षणिककार्यै: साकं संस्कृतकोषाणां रचनां कृत्वा भगीरथकार्यं सम्पादितवान् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वामन_शिवराम_आप्टे&oldid=409670" इत्यस्माद् पुनः प्राप्तिः