वायुमुद्रा
करणविधानम्
[सम्पादयतु]तर्जनी वायुतत्वं निर्दिशति । तर्जन्याः अग्रभागम् अङुष्ठस्य मूले नीत्वा अङ्गुष्ठं तर्जन्याः पृष्ठभागे स्थापनीयम् ।
परिणामः
[सम्पादयतु]तर्जनीम् अङुष्ठस्य अग्रभागे यदा नयामः तदा वायुतत्वं न्यूनीकृतं भवति । वायुतत्वं न्यूनीकर्तुं अग्निः सहकरॊति। ज्रम्भणेन, उद्गिरणेन, मलविसर्जनारन्र्धेण च वायुविसर्जनं भूत्वा वायुप्रकोपस्य शमनं भवति ।
उपयोगः
[सम्पादयतु]पञ्चतत्वेषु वायुतत्वं यदा अधिकं भवति तदा विविधव्याधयः उद्भवन्ति । उदरस्फयनं, शरीरस्य विविधभागे वेदना, स्फुटनं, कटिवेदना, पृष्ठभागेवेदना, वातः, सन्धिवातः, कम्पवातः, अर्धाङ्गवातः, स्पोण्डिलयिटिस्-सयाटिका च वायुप्रकोपस्य व्याधयाः । वायुमुद्रा यदा क्रियते तदा वायुविसर्जनं भूत्वा निश्चिन्ता भवति । वायुमुद्रा ५० निमेषपर्यन्तं कृत्वा तदनंतरं १५ निमेषपर्यन्तं प्राणमुद्रा क्रियते चेत् वायुप्रकोपस्य व्याधीनां शमनं भवति । कण्ठवेदनायाः, भुजवेदनायाः च शमनं भवति । नयनसम्बन्धिदोषाः अपि एतया मुद्रया शान्ताः भवन्ति । ध्यानात् पूर्वं वायुमुद्रा क्रियते चेत् मानसिकचञ्चलता दूरीभूत्वा मनः ध्याने लीनं भवति । इमामेव मुद्रां ’चिन्मुद्रा’ इति कथयन्ति । वायुमुद्रया सह पञ्चउपवायवः अपि कार्यक्षमतां प्रात्नुवन्ति ।
उपवायुः | कार्यम् |
---|---|
नागः | उद्गिरणागमनम् |
कूर्मः | नयनानां पक्ष्मचलनायाः नियन्त्रणं करोति । |
कृकलः | क्षुतागमनम् । |
देवदत्तः | ज्रम्भणागमनम् । |
धनञ्जयः | मुत्योः अनन्तरं अपि देहं सुस्थिते स्थाप्य अनन्तरं पयुषितः भवति । |
विशेषसूचना
[सम्पादयतु]दक्षिणपार्श्वे वेदना अस्ति चेत् वायुमुद्रा वामह्स्तेन करणीया । वामपार्श्वे वेदनायां सति दक्षिणह्स्तेन मुद्रा करणीया । तत्पश्चात् एव प्राणमुद्रा कृता चेत् बहु वेगेन वेदनाशमनं भवति । देहे सर्वत्र वातप्रकोपे सति ह्स्ताभ्यां ५० निमेषपर्यन्तं प्रतिदिनं २-३ वारं वायुमुद्रा करणीया। यदा रोगशमनं भवति तदा मुद्राकरणं स्थगयितुं शक्यते ।