वार्त्तापत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

वार्त्तापत्रम् अर्वाचीनकाले मानवस्य जीवनमस्ति । वार्त्तापत्रम् अस्माकं ज्ञानस्य गंङगा इव।यथा प्रभाते करदर्शनम् आवश्यकं सञ्जताम्।वार्त्तापत्राणां महत्त्वम् एवम् अनन्यसाधरणम्।विविधाः वार्ताः विस्ताररुपेण वार्त्तापत्रे वर्तन्ते।वार्ताहाराः विविध्येभ्यः नगरेभ्यः ग्रामेभ्यः च वार्ताः समाहरन्ति।सम्पादकाः ताः वार्ताः सम्पादयन्ति जनानाम् अग्रे स्थापयन्ति च।पी. टी. आय्, यू. एन्. आय्., समाचार भारती इत्यादयः विख्याताः वार्त्तासंस्थाः।सत्यप्रचारः जनजागरणं वार्ताप्रसारणं वि-पना च एतानि वार्त्तापत्राणां महत्वपूर्णानि कार्याणि।स्वतन्त्रपूर्वकाले वार्त्तापत्राणां कार्यम् अनन्यसाधरणम् आसीत्।लोकमान्य तिलक महोदयेन केसरी मराठा च द्वे वार्त्तापत्रम् प्रकाश्य महाराष्ट्रराज्ये जनजागरणं कृत्तम्।एतास्मिन् पत्रद्वये तेन आङग्लस्य कुटिलां राजनीतिम् उद्दिश्य लेखाः लिखिताः। वार्त्तापत्राणि विविधभाषासु प्रवर्तन्ते।कानि वार्त्तापत्राणि आकर्षकामि कानि अनाकर्षयानि।कानि केवलानि स्थानीयाणि यथा।सन्मित्र ठाणे-वैभवम् कोकणभवनम् इत्यदीनि।केषांचित् भाषा मधुरा सरला सुलभा च।तर्हि केषांचित् क्लीष्टा कठिना च।वार्त्तापत्रम् अस्मभ्यं विश्वस्य ज्ञानं यच्छति।अधुना सकाळ केसरी इंडियन एक्सप्रेस लोकसत्ता च इत्यदीनि दैनिकानि विख्यातानि।

यदि वार्त्तापत्रम् समये न आयाति तर्हि कर्मचारीणः दुर्दशा भवति।वार्त्तापत्रस्य माहात्मम् निरतिशयम्।वार्त्तापत्राणि लोकमित्राषि खलु।वार्त्तापत्रस्वातन्त्र्यं लोकशासनस्य आवश्यम् अङगम्।

समाचारपत्रस्य स्वरूपम्[सम्पादयतु]

सम् आ उपसर्गाभ्यां 'चर्’ धातोः 'घञ्' प्रत्यये कृते सति निष्पन्नो 'समाचार'शब्दः। ‘पत्रम्’ शब्दस्तु पत् धातोः ष्ट्रन् प्रत्यये कृते सति "पत्रम्' निष्पद्यते। अस्य शब्दस्यार्थः तु स्पष्टतया ज्ञायते सवैः। मुख्यत: शब्दोऽयं कागद-इत्यर्थे एव प्रयुज्यते सुधीभिः इमौ द्वौ शब्दौ एकत्रीभूत्वा ‘समाचारपत्रम्' इति शब्दं निर्मीयेते। असौ शब्द:संवाद-प्रसारकरूपेण ज्ञायते। अमुना एव दूरस्थिता: जना: देश-विदेशप्रदेशजनपदादीनां समाचारैः अवगताः भवन्ति। अनेन माध्यमेन अत्यल्पसमयेनैव सामाजिकराजनैतिक-आर्थिक-गतिविधयः सम्पूर्णे देशविदेशे प्रचारिताः भवन्ति। मुख्यतः मानवः संवेदनशीलः प्राणी विद्यते। असौ सर्वदा स्वस्य स्वसमाजस्य देशस्य राष्ट्रस्य च उन्नतिम् इच्छति।

समाचारप्रकाशनस्येतिहासः[सम्पादयतु]

प्रथमं तावत् विचारणीयोऽयं विषयः यत् समाचारपत्राणां निर्माणं कुत्र कदा केन कृतम्। अस्य इतिहासं दृष्ट्वा इदं सुस्पष्टं भवति यत् षोडश्यां शताब्द्यां इटलीदेशस्य वेनिस नामक प्रान्ते प्रथमं समाचारपत्रस्य निर्माणचर्चा सञ्जाता। वेनिसप्रान्तस्य अनुकरणम् अन्यैः देशैरपि कृतम्। तदनु सप्तदश्यां शताब्द्याम् इङ्गलैण्डदेशे समाचारपत्रस्य सर्वप्रथमं जन्म अभवत्। अस्माकं भारतदेशे आङ्ग्लशासकैः सर्वप्रथमं ‘इण्डिया गजट' नामक आङ्ग्लभाषापत्रं प्रवर्तितम्। तत्परं ईसाईधर्मपुरोहितद्वारा हिन्दीभाषायां ‘समाचारदर्शनम्' नाम पत्रं मुद्रितम्। तदनन्तरं राजाराममोहनरायमहोदयेन ‘कौमुदी' नामक समाचारपत्रं प्रकाशितम्। अस्माकं देशे आंग्लशासनकाले सर्वकारस्य विरोधप्रदर्शनाय वाराणसीतः 'रणभेरी' इत्याख्यस्य पत्रस्य प्रकाशनं सञ्जातम्। येन प्रेरिता बहवः देशभक्ताः स्वदेशस्य स्वतन्त्रतामवाप्तुं प्राणपणेन प्रयासं चक्रुः। ततः परं ईश्वरचन्द्रविद्यासागरेण ‘प्रभाकर'प्रकाशनं विहितम्।। 1835 ईशवीयवत्सरे लार्ड आकलैण्डमहोदयेन भारतवासिनां कृतेऽपि मुद्रणस्वातन्त्र्यं प्रदत्तम्। प्रकाशनक्षेत्रे एषा स्वतन्त्रता अभिनवा आसीत्। यया शतशः पत्रप्रकाशकाः सहसा एव प्रादुर्भूताः। ततः प्रभृतिः अस्माकं देशे प्रायः सर्वासु भाषासु बहुशः पत्राणि प्रकाश्यन्ते।

समाचारपत्राणां महत्त्वम्[सम्पादयतु]

मानवजीवने समाचारपत्राणां बहु महत्त्वं विद्यते। एतदर्थम् इदं आवश्यकं भवति यत् कः कुत्र किं करोति, कुत्र किं भवति, कः किं कर्तुम् इच्छति च, के देशाः कस्मिन् कर्मणि, व्यवसाये, ज्ञाने, विज्ञाने च विशेषज्ञाः सन्ति इति प्रतिपदं सः जिज्ञासते। यथा सः परेषां विचाराणां जिज्ञासुः भवति, तथैव स्वकीयविचारजातमपि परेभ्यो दातुमभिलषति। समाचारपत्राणि अधिकारिणां जनतायाश्च मध्ये सामीप्यस्थापनाय भवन्ति। अस्याः जिज्ञासाया पूर्तये समाचारपत्राणां दैनन्दिनी आवश्यकता भवति। समाचारपत्राणां माध्यमेन यथावसरं देशप्रेम्णः विविधसूचना देशसेवकोत्तमैः प्रदीयते। अनेकेषां अधिकारिण सम्बन्थे विविधविधा: लोकापवादा: अपि अनेन माध्यमेन प्रचारिता भवति। सम्प्रति टेलीप्रिण्टरयन्त्रसाहाय्येन समाचाराणां प्रचारे शीघ्रता लम्भिता वैज्ञानिकै:। एतद् यन्त्रम् एकत्र कथितं समाचारम् समकालमेव सर्वत्रोट्टङ्कति, यत्र-यत्र तद्यन्त्रं वर्तते। अद्यतने युगे पत्रप्रकाशनं व्यवसायरूपे प्रतिष्ठितं वरीवृत्यते। अयमेकः ईदृशः व्यवसायः येन बहूनां व्यवसायहीनानां जीविका प्रचलति। अस्मिन् व्यवसाये नैके जनाः संलग्नाः दृश्यन्ते। अत्र सम्पादक-संवाददातृवर्णसंयोजकमुद्रणयन्त्रसञ्चालकाश्च नितरामपेक्ष्यन्ते। अनेन प्रकारेण अनेको कार्यकर्तारः विविधरूपाणि कार्याणि समधिगम्य आजीविको प्राप्यन्ते। आधुनिके युगे तु समाचारपत्रसंचालकानां सर्वकारसम्मतः एको संघः वर्तते। तदधीनाश्च अनेक लघुसंघाः दरीदृश्यन्ते। ये सर्वे प्रधानीभूतस्य संघस्यैव समादेशान् स्वीकुर्वन्ति। स संघ: एव एतेषां लघुसंघानां नियामकरूपो कथ्यते।

समाचारपत्रैः के लाभाः[सम्पादयतु]

अनेके लाभाः सन्ति समाचारपत्राणाम् इमानि देशविदेशान राजनैतिक-धार्मिक-सामाजिक-शैक्षणिक-व्यापारिक-समाचारान् प्रकाश्य चतुर्ष दिक्षु प्रसारयन्ति। समाचारपत्राणां साहाय्येन विश्वस्मिन् यत्र-यत्र यद् यद् भवति तस्य सर्वस्य ज्ञानं वयं गृहे स्थिता एव कर्तुं पश्यामः। कस्मिन् देशे किं भवति किं भूतं किञ्च भविष्यति इत्येतेषां ज्ञानम् हितकरम्। कः देशः केन कारणेन कस्यां स्थितौ वर्तते कानि मित्रराष्ट्राणि कानि च शत्रुराष्ट्राणि इत्यादिकाः सर्वाः सूचनाः लभामहे वयम् समाचारपत्राभावे अस्माकं स्थितिः कृपपतितानां मण्डूकानां इव भवति। तदवस्थायां वयं सर्वे पाश्र्ववर्तिनां देशानामपि स्थितिं ज्ञातुं न पारयामः। केचन साधनसम्पन्नाः जनाः प्रतिदिनं स्वगृहे एव समाचारपत्राणि आनयन्ति पठति च। ईदृश: जनाः समाचारपत्राण दैनिका: वार्षिका: मासिकाः वा ग्राहकाः भवन्ति। निर्धनाः जनाः वाचनालयेषु गत्वा तानि पठन्ति। अनेन प्रकारेण सर्वेषां जिज्ञासापूर्तिः समाचारपत्रैः सञ्जायते। विविधान् विषयान् अधिकृत्य समाचारपत्रेषु विज्ञापनानि अपि प्रकाशयति। यानि अवलोक्य अनेको जना: जीविकाप्राप्तु समर्था अभूवन्। केचन जनाः स्वकीयानां कन्यकानां विवाहमपि कर्तुं समाचारपत्रमाध्यमेन साफल्यमलभन्। प्रकाशितेन विज्ञापनेन व्यापारिणां प्रचारप्रसारस्तथा पूर्वाऽपेक्षयाऽधिकतरो लाभः च सम्भवति। एवं समाचारपत्रैः बहूपकृतमस्माकम्। इमानि समाचारपत्राणि अधिकारिणां जनतायाश्च मध्ये सामीप्यस्थापनाय भवन्ति। एभिः अनेकानां जटिलसमस्यानां समाधानमपि भवितुं शक्नोति भवन्तं दरीदृश्यन्ते च। राजनेतृणां विपश्चितानां अन्येषामपि विचारकुशलानां जनानां कृते स्वाभिमतप्रकाशनार्थ अपरेषां मतानां आलोचनार्थमपि समाचारपत्राणाम् आश्रयत्वं सहायक भवति। समये समये देशवासिसु राष्ट्रियचेतनायाः देशभक्तेश्च जागरणस्याऽपि इमानि कार्यं कुर्वन्ति।

समाचारपत्रैः के दोषाः[सम्पादयतु]

अनेके दोषाः अपि सन्ति सपाचारपत्राणाम् अभ्युदयेन। एषां सम्पादका:/संचालकाः वा धनलोभात् कदाचित् विविधानां समाचाराणां मिथ्याप्रचारमपि कुर्वन्ति। येन बहवः उपद्रवाः अपि सञ्जायन्ते। ग्रामीणक्षेत्रे नियुक्ताः सम्वाददातृन् अल्पपारिश्रमिकप्राप्ते सति सम्बादसंकलने समुत्सुकाः न भवन्ति। अनेकेषां अधिकारिणां सम्बन्धे विविधविधाः लोकापवादाः अपि अनेन माध्यमेन प्रचारिताः भवन्ति।

उपसंहारः[सम्पादयतु]

एवं समाचारपत्रेषु सन्ति लाभाः दोषाश्च, किन्तु दोषाणामपेक्षया गुणा एव अधिकांशतया तत्र विद्योतन्ते। अद्य एतानि वृत्तपत्राणि एव जनतायाः सभ्यतायाः संस्कृतेः उन्नतेः, ज्ञानभण्डारस्य साधनत्वेन प्रसृतानि सन्ति। एतान्येव अन्ताराष्ट्रियसङ्घटनस्य बन्धन शृङखलात्वेन विराजते। अत्र तु केवलं वस्तुस्थितीनां उल्लेख वर्तते। प्रकाशकानां सम्पादकानाञ्च चाटुकारितां विहाय समाचाराणां प्रकाशनं भवेयुः। परं इत्थं निश्चप्रच कथितुं शक्यते यत् मानवानां बहूपकृतं समाचारपत्रैः विशेषतः नवयुगीयचेतनायाः प्रचारविषये। इत्थं समाचारपत्राणां माध्यमेनैव मानवानां सर्वविधः विकासः भवितुमर्हति।

"https://sa.wikipedia.org/w/index.php?title=वार्त्तापत्रम्&oldid=391422" इत्यस्माद् पुनः प्राप्तिः