वासिष्ठम् साम इत्यस्य रूपसिद्धिप्रक्रिया
वासिष्ठम् साम इत्यस्य तद्धितान्तस्य पदस्य पाणिनीयव्याकरणानुसारम् रूपसिद्धिप्रक्रिया
वसिष्ठ
अर्थवदधातुरप्रत्यः प्रातिपदिकम् । पा. 1.2 इति सूत्रेण वसिष्ठ
शब्दस्य प्रातिपदिकसंज्ञा भवति। प्रातिपदिकसंज्ञा भवति। प्रातिपदिकसंज्ञायाः फलम् – ङ्याप्प्रातिपदिकात् । इत्यधिकारे स्वौजसमौट्...। इति सूत्रेण विवक्षानुसारम् तृतीया-एकवचनस्य टा प्रत्ययो भवति । तेन
वसिष्ठ + टा इति स्थितम् । अत्र विवक्षानुसारम् दृष्टं साम । 4.2.7पा. 4.2.1 सूत्रेण
वसिष्ठ + टा इति तृतीयान्तात्प्रातिपदिकात् अण् प्रत्ययो भवति। ततः -
वसिष्ठ + टा + अण् हलन्त्यम्। इति ण् वर्णस्य इत्संज्ञा, तस्य लोपः। इति लोपे, अदर्शनम्
लोपः। इत्यदर्शने च कृते -
वसिष्ठ + टा + अ इति स्थितम् । अत्र अण् प्रत्ययस्य तद्धितसंज्ञा अस्ति। ( तद्धिताः। पा. 4
इत्यस्य अधिकारे अण् प्रत्ययस्य विधायकम् सूत्रमस्ति, अतः) तत्फलम् – कृत्तद्धितसमासाश्च। पा. 1.2. इति सूत्रेण वसिष्ठ + टा + अ इति तद्धित- प्रत्ययान्तस्य समुदायस्य प्रातिपदिकसंज्ञा। प्रातिपदिकत्वात् – सुपो धातु- प्रातिपदिकयोः। पा. 2.4. इत्यनेन सुपः अर्थात् टा प्रत्ययस्य लुक् = अदर्शनम् भवति। ततः -
वसिष्ठ + अ इति स्थितम् । तदन्तरम् अत्र यस्मात्प्रत्ययविधिस्तदादि प्रत्यये∫ङ्गम् । इति
सूत्रेण अ प्रत्यये परे वसिष्ठ इत्यस्य तदादिभागस्य अङ्गसंज्ञा। तत्फलम् – अङ्गस्य । पा. 6.4.1 इत्यधिकारे तद्धितेष्वचामादेः। (સૂત્રાર્થ - णित्, ञित् तद्धित પ્રત્યયોના પરમાં રહેતાં अंग ના આદિ अच् ને વૃદ્ધિ થાય છે.) इत्यनेन अ इति तद्धिते प्रत्ये परे अचामादेः अचः अर्थात् वकारस्थस्य अकारस्य वृद्धिः अर्थात् आ भवति ।
वासिष्ठ + अ अत्र यचि भम् । पा. 1.4. इति सूत्रेण अप्रत्यये परे वसिष्ठ इत्यस्य भसंज्ञा ।
भसंज्ञायाः फलम् यस्येति च। पा. 6.4. इत्यनेन सूत्रेण अकारस्य लोपो भवति।
वासिष्ठ् + अ = वासिष्ठ तदनन्तरम् प्रातिपदिकसंज्ञायाः द्वितीयमपि फलम् प्राप्यते । तच्च
ङ्याप्प्रातिपदिकात् । इत्यधिकारे स्वौजसमौट... । इत्यनेन सूत्रेण विवक्षानुसारम् प्रथमैकवचनस्य सु प्रत्ययो भवति।
वासिष्ठ + सु
अत्र नपुंसकलिङ्गस्य विवक्षा अस्ति, अतः अतो∫म् । पा. 7.1. सूत्रेण सुप्रत्ययस्य स्थाने अम् आदेशो भवति । ततः अमि पूर्वः। इति सूत्रेण पूर्वरूपैकादेशे कृते ।
वासिष्ठम्
इति रूपम् सिद्ध्यति ।।