विकिपीडिया:लेखप्रभागाः
Jump to navigation
Jump to search
विकिपीडियायां लेखे तु प्रभागाः भवितुम् अर्हन्ति। तन्निमित्ते च प्रभागशीर्षकस्य विन्यासः विहितः। यत्रापि त्र्यधिकाः प्रभागशीर्षकाः भवन्ति तस्मिन् लेखे अनुक्रमणिका (अन्तर्विषयाः) इति तालिकाऽपि दृश्यते स्वत एव। अस्मिन् पृष्ठे एतेषाम् अवयवानां विन्यासः तथा चान्या सूचना दीयते।
प्रभागानां रचना तु अधस्तात् प्रदत्तेन सूत्रविन्यासेन, वस्तुतः तेषां शीर्षकस्य न्यासेन क्रियते।
== Section == === Subsection === ==== Sub-subsection ====
अत्र यथा समता-चिह्नानां (=) सङ्ख्या वर्धते तथा तत् शीर्षकं लघुत्वं प्राप्नोति। अधिकतमानि षट् सङ्ख्याचिह्नानि भवितुं शक्नुवन्ति च।