विकिपीडिया:वर्गाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विकिपीडियायां तु लेखाः बहुषु वर्गेषु विभक्ताः सन्ति। केचन वर्गाश्च सम्मिल्य एकम् उपरितनं वर्गं रचयन्ति। अनेन विधिना वर्गाणां वृक्षसमा संरचना निर्मीयते।

महत्त्वाधायिन्यः सूचनाः[सम्पादयतु]

वर्गाणां विषये काश्चित् महत्त्वाधायिन्यः सूचनाः अत्र दीयन्ते -

  • न पृष्ठेषु सर्वे सम्बन्धितमात्राः वर्गाः टङ्कितव्याः। पृष्ठं तु कस्याश्चित् शाखायाः सङ्कीर्णतमे वर्गे तथापि अर्हे वर्गे योजितव्यम्। यथा हि- लेखः कश्चित् चेत् क इति वर्गस्य उपवर्गे (अथवा उपवर्गस्य उपवर्गे) भवितुं योग्यः, तदा सः क इति वर्गे अयोजयित्वा तस्मिन् उपवर्गे एव योजितव्यः। स्युः तत्र केचन अपवादाः यथायोग्यम्।


  • लेखेषु अविद्यमानः कश्चन वर्गः टङ्कयित्वा न त्यक्तव्यम् (नाम वर्गस्तु रक्तपदवत् न दृश्येत)। वर्गः सः वा रचितव्यः, सम्पर्कतन्तु वा निष्कासितव्यम्, अथवा संशोधयित्वा विद्यमानवर्गस्य नाम योजितव्यम्।


  • लेखे तु वर्गाणां क्रमः कः स्यात् तत्र एकलनियमः कश्चन नास्ति (यथा हि, अकारादिक्रमः सदा स्याद् इति नास्ति, यद्यपि नान्यः क्रमश्चेत् लभ्यते तदा अकारादिक्रमः वरीयान्)। प्रायेण आवश्यकतमाः सार्थकतमाश्च वर्गाः आदौ दृश्येरन्। लेखे यदि तच्छीर्षकवत् नाम्ना कश्चन वर्गः वर्तते तदा सः वर्गः आदौ एव दृश्येत। यथा हि आङ्ग्लविकिपीडियायां George Orwell इति लेखे Category:George Orwell इति वर्गः अन्यवर्गाणाम् अग्रवर्ती अस्ति।


  • मूलपृष्ठवत् अनुप्रेषणपृष्ठमपि वर्गगतं कर्तुं शक्यते, एवं तदा क्रियते यदा मूलपृष्ठस्य तस्य नाम तस्मिन् वर्गे न युज्यते। यथा- ब्रिटिशकालीनानि भारतीयनगराणि इति वर्गे कोलकाता इति लेखनाम न युज्यते, यतस्तदा एतस्य नगरस्य नाम एतन्नासीत्। अतः कलकत्ता इत्येव युज्यते, यत्तु कोलकाता इत्येतत् प्रति अनुप्रेषयति। यद्यपि भारतस्य महानगराणि इति वर्गे स एव लेखः स्वकीयेन कोलकाता इति नाम्ना सह आगन्तुम् अर्हति।


...निर्मीयमानं पृष्ठम्।

"https://sa.wikipedia.org/w/index.php?title=विकिपीडिया:वर्गाः&oldid=476068" इत्यस्माद् प्रतिप्राप्तम्