विकिपीडिया:स्वशिक्षा/सम्भाषणपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः

सम्भाषणपृष्ठम्[सम्पादयतु]

लेखस्य विषये अन्यैः विकिपीडियायोजकैः सह चर्चितुम् अवसरं कल्पयति इदं सम्भाषणपृष्ठम् । इदं जल्पनाय भिन्नविषये सम्भाषणाय वा न उपयोक्तव्यम्।

लेखस्य परिष्करणदृष्ट्या गुणवर्धनदृष्ट्या भवतः प्रश्नः, अभिप्रायः, विरोधः वा यदि विद्यते, तर्हि लेखस्य सम्भाषणपृष्ठे लिख्यतां न तु लेखस्य अन्तः । एतत् कर्तुं लेखस्य उपरि वामभागे विद्यमानं सम्भाषणम् इत्यत्र नुद्यताम् । अयं सम्पर्कतन्तुः रक्तवर्णीयः अस्ति चेत् चिन्ता मास्तु । नूतनस्य सम्भाषणपृष्ठस्य आरम्भः युक्तः एव ।

प्रत्युत्तरलेखनम्[सम्पादयतु]

अन्यस्य विचारस्य प्रतिस्पन्दः भवता लिख्यमानः अस्ति चेत् तस्य लेखनस्य (सम्भाषणपृष्ठे) अधः लिख्यताम् । भवता नूतनः विषयः कश्चन उपस्थाप्यमानः अस्ति चेत् ’विषयः योज्यताम्’ इति यत् सम्भाषणपृष्ठस्य उपरि विद्यते तत्र नुद्यताम् । तदा सः स्वयमेव सम्भाषणपृष्ठस्य अधोभागं प्रति नीतो भवति ।

लेखनस्य अनन्तरं स्वीयं हस्ताङ्कनं कर्तुं ~~~~ नुद्यतां येन भवदीयं योजकनाम, समयः, हस्ताङ्कनं च योजितं भवति । पृष्ठस्य संरक्षणपिञ्जस्य नोदनेन भवदीयं हस्ताङ्कनं स्वयमेव योजितं भवति । अन्यथा भवता लिखितं तु दृश्यते हस्ताङ्कनं विना । (सौकर्यार्थं - सम्पादनमञ्जूषायां हस्ताङ्कनचित्रं यत्र विद्यते तत्र नोदनेन हस्ताङ्कनं स्वयं योजितं भवति ।)

विकिपीडियायां भवता सदस्यता न प्राप्ता चेत्, सदस्यतायां विद्यमानायां सत्याम् अपि न प्रविष्टः चेत् भवतः सङ्गणकयन्त्रस्य ऐपी सङ्केतः उल्लिखितः भवति ~~~~ - अस्य नोदनेन ।

योजकस्य सम्भाषणपृष्ठम्[सम्पादयतु]

प्रत्येकस्य योजकस्य (येन सदस्यता प्राप्ता) अपि किञ्चन सम्भाषणपृष्ठं भवति यत्र अन्ये योजकाः सन्देशान् लेखितुम् अर्हन्ति । अन्यैः सन्देशः लिखितः चेत् प्रवेशनस्य समनन्तरमेव विकिपीडियापृष्ठस्य उपरि ’भवतः कृते नूतनः सन्देशः विद्यते’ इति दृश्यते येन योजकपृष्ठं सम्पृक्तमपि वर्तते ।

अस्य उत्तरं द्विधा प्रदातुं अर्हति भवान् । येन सन्देशः लिखितः तस्य सम्भाषणपृष्ठे भवदीयम् उत्तरं लेखितुम् अर्हति अथवा भवदीये सम्भाषणपृष्ठे एव तस्य सन्देशस्य अनन्तरं लेखितुम् अर्हति । विकिपीडियाव्यवस्थायाम् एतद् द्वयमपि बहुधा दृश्यते । किन्तु भवदीये योजकपृष्ठे लिखितम् उत्तरं कदाचित् अन्येन न दृश्येत । किन्तु तदीये सम्भाषणपृष्ठे लिख्यते चेत् ’नूतनः सन्देशः विद्यते’ इति तेन सूचना प्राप्यते इत्यतः तेन भवदीयः सन्देशः अवश्यम् अवलोक्यते एव ।

भङ्गुरम् (Indent)[सम्पादयतु]

भङ्गुरीकरणेन चर्चायाः प्रारूपं गणनीयप्रमाणेन परिष्कृतं भवति । तेन पठनं भवति सुकरम् । सामान्यतया यस्य सम्भाषकस्य सूचनायाः उत्तरं लिख्यते तत् किञ्चित् दक्षिणतः अपसरति । विकिपीडियाव्यवस्थायां भङ्गुरीकरणं बहुधा कर्तुं शक्यम् -

सामान्यं भङ्गुरीकरणम्[सम्पादयतु]

पङ्क्तेः आरम्भे ’कोलन्’चिह्नस्य स्थापनं (:) सामान्यतया क्रियते । अधिकवारं ’कोलन्-चिह्नं’ स्थाप्यते चेत् उत्तरं तावता प्रमाणेन दक्षिणतः अपसरति ।

उदा -

पूर्णतया वामतः तिष्ठति ।
: किञ्चित् दक्षिणतः अपसरति ।
:: अधिकप्रमाणेन दक्षिणतः अपसरति ।

एवं दृश्यते -

पूर्णतया वामतः तिष्ठति ।
किञ्चित् दक्षिणतः अपसरति ।
अधिकप्रमाणेन दक्षिणतः अपसरति ।

ताराचिह्नानि[सम्पादयतु]

ताराचिह्नैः अपि अङ्कयितुं शक्यते यानि आवलीनां निमित्तम् उपयुज्यन्ते । दर्शनावसरे ताराचिह्नं भवेत् इति इच्छति चेत् एवं लिख्यताम् - (*) । भङ्गुरीकरणे इव अत्रापि अधिकसङ्ख्याकानि ताराचिह्नानि (*) स्थाप्यन्ते चेत् परिच्छेदः आधिक्येन दक्षिणतः अपसरति । उदा -

उदा -

* प्रथमा आवली
* द्वितीया आवली
** द्वितीयावल्याः उपावली
* तृतीया आवली

एवं दृश्यते -

  • प्रथमा आवली
  • द्वितीया आवली
    • द्वितीयावल्याः उपावली
  • तृतीया आवली

सङ्ख्याभिः निर्देशनम्[सम्पादयतु]

आवल्यः सङ्ख्याभिः अपि निर्देष्टुं शक्यन्ते । एतन्निमित्तं सङ्ख्यासूचकं चिह्नम् उपयुज्यताम् (#) । अनुमोदनावसरे मतदानावसरे अस्य उपयोगः सामान्यतः क्रियते । अत्रापि पार्श्वतो नयनाय सङ्ख्यासूचकचिह्नानां सङ्ख्या वर्धनीया । उदा -

उदा -

# प्रथमा आवली
# द्वितीया आवली
## द्वितीयावल्याः उपावली
# तृतीया आवली

एवं दृश्यते -

  1. प्रथमा आवली
  2. द्वितीया आवली
    1. द्वितीयावल्याः उपावली
  3. तृतीया आवली


शिक्षितं प्रयोगपृष्ठे प्रयुञ्जताम्