सामग्री पर जाएँ

विजय मर्चन्ट

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विजय मर्चन्ट

विजय मर्चन्ट (गुजराती: વિજય મર્ચન્ટ, आङ्ग्ल: vijay merchant ) इत्ययं भारतस्य नवनवति(99)प्रतिशतं जनाः यदा क्रिकेट्-क्रिडाविषये अज्ञाः आसन्, तदा भारतस्य उत्तमः क्रिकेट्-क्रीडालुः (Cricketer) आसीत् । पुरा क्रिकेट्-क्रीडा आङ्ग्लजनानां क्रीडा आसीत् । भारतयीयेषु धनाढ्यजनाः, राजानश्च तत्र आसक्ताः भवन्ति स्म । विजय मर्चन्ट इत्ययमपि धनाढ्यपरिवारात् आगतः । सः क्रिकेट्-क्रीडालुः एव नासीत्, अपि तु जीवनस्य उत्तरार्धे तेन समाजसेवा अपि कृता । अन्धानां, खञ्जानाम्, अशक्तानां च कृते तेन महत्त्वपूर्णं योगदानं दत्तम् । यथा विक्रम-साराभाई इत्यस्य जीवने लक्ष्मीसरस्वत्योः सङ्गमः दृश्यते तथैव अस्य जीवने लक्षमीशक्त्योः सङ्गमः दृश्यते ।

विजय मर्चन्ट इत्यस्य जन्म 1911 तमस्य वर्षस्य अक्तूबर मासस्य द्वादशे (12) दिनाङ्के मुम्बई-नगरे अभवत् । व्यापारिणः पुत्रः व्यापारी भवति, इयं परम्परा पञ्चश्रेणीतः प्रचलति स्म । अतः विजयः क्रिकेट्-क्रिडालुः भविष्यति इति केनाऽपि न विचारितम् । गुजरातराज्यस्य निवासी भाटिया कुटुम्बस्य ठाकरशी मूळजी इत्यस्य वस्त्रव्यापारित्वेन ख्यातिः आसीत् । तस्य पुत्रः दामोदरः । दामोदरस्य पत्न्याः नाथीबेन इत्यस्याः स्मृतौ मुम्बई-नगरे एस्. एन्. डी. टी. नामाख्यः विश्वविद्यालयः अस्ति । सः अद्यापि प्रसिद्धः । नाथीबेन दामोदरस्य च पुत्रः माधवजीभाई तस्य पुत्रः विजयः । सः व्यापारि-तः क्रिकेट्-क्रीडालुत्वेन प्रसिद्धतां प्राप्तुम् ऐच्छत् ।

विजयस्य क्रीडारम्भः

[सम्पादयतु]

विजयः मुम्बई-नगरस्य न्यू हाई स्कूल् इत्यस्मिन् पठनकाले एव क्रिकेट्-क्रीडां प्रति आकर्षितः अभवत् । शालायाः समीपवर्तिने क्रीडाङ्गणे क्रिकेट्-क्रीडारतान् आङ्ग्लजनान् दृष्टवा, सः अपि क्रिकेट्-क्रीडां प्रति आसक्तः अभवत् । मित्राणि एकीकृत्य तेनाऽपि क्रीडायाः आरम्भः कृतः । सः शालायाः ‘सी’-गणस्य क्रीडकः आसीत् । आरम्भात् एव सः बल्ले (batting) एव आसक्तः आसीत् । अल्पीयसि काले सः शालायाः श्रेष्ठः बल्लकः (batsman) अभवत् । अन्तश्शालीय-स्पर्धासु स्वशालायै प्रथमक्रमम् अदापयत् ।

विजयस्य प्रथमः विक्रमः

[सम्पादयतु]

सः पञ्चदशवर्षस्य लघुवयसि मुम्बइ-नगरस्य ज्येष्ठक्रीडकैः सह क्रिकेट्-क्रीडाम् अक्रीडत् । प्रथमक्रीडायामेव तेन विक्रमः सर्जितः । प्रथम इनिङ्ग्स् मध्ये 124 धावनाङ्काः, द्वितीय इनिङ्ग्स् मध्ये 110 धावनाङ्काः कृताः । कठिनं हुक् शॉट् सः सरलतया क्रीडति स्म । तेन प्रेक्षकाः आश्चर्यचकिताः भवन्ति स्म । सुज्ञैः उक्तम् अयं भाविनिकाले महान् क्रिकेट्-क्रीडालुः भविष्यति इति । विजयेन तदानीं सिडन् हेम् नामके विद्यालये प्रवेशः प्राप्तः । शालायाः शिक्षणेन सह तस्य क्रिकेट्-क्रीडायाः शिक्षणमपि प्रचाल्यमानम् आसीत् । प्रतिवारं तेन अपेक्षिता सिद्धिः न प्राप्ता, तथापि सः दुःखी न भवति स्म । तस्य धैर्येण विद्यालयस्य क्रिकेट्-गणस्य नायकत्वेन सः चितः । 1931 तमे वर्षे विजयः अन्तर्विद्यालयस्य स्पर्धायाम् स्वविद्यालयाय विजयम् अदापयत् । तस्मिन्वर्षे तेन पञ्चशतं (500) धावनाङ्काः कृताः । प्रतिक्रीडायां तस्य 84 धावनाङ्काः आसन् ।

अन्ताराष्ट्रिया प्रगतिः

[सम्पादयतु]

1932 तमे वर्षे इङ्ग्लैण्ड्-देशं गन्तासु तस्य गणना अभवत् । किन्तु इदं तस्य मित्रेभ्यः न रोचते स्म । ते विजयं हिन्दु-जिमखाना-स्थाने आहूय देशस्य राजकीयपरिस्थितिं विचार्य क्रिकेट्-क्रीडायै तत्र न गन्तव्यम् इति असूचयन् । विजयः देशभक्तः आसीत् । सः मित्राणाम् इच्छायै मानं दत्त्वा जीवनस्य श्रेष्ठम् अवसरं त्यक्तवान् । किन्तु तस्य मनसि खेदः नासीत् । ततः द्वितीये वर्षे जार्डिन् इत्यस्य नायकपदे इङ्ग्लैण्ड्-देशस्य एम्.सी.सी. गणः क्रिकेट्-क्रीडायै भारतम् आगतः । तैस्सह क्रीडितुं भारतस्य क्रिकेट्-क्रीडालूनां गणे विजयस्य चयनम् अभवत् । मुम्बई-नगरे क्रीडीतायां प्रथमक्रीडायाम् उभावपि इनिङ्ग्स् मध्ये क्रमेण 23, 30 धावनाङ्काः कृताः । तथैव कोलकाता-नगरे क्रमेण 54, 17 धावनाङ्काः कृताः । मद्रास-नगरे क्रमेण २६, २८ धावनाङ्काः कृताः । अतः इङ्ग्लैण्ड्-देशस्य नायकः जार्डिन् विजयस्य क्रीडया बहुप्रभावितः अभवत् । तेन विजयाय भारतस्य श्रेष्ठः बल्लकः (batsman) इति उपाधिः प्रदत्ता । १९३५ तमे वर्षे ऑस्ट्रेलिया-देशस्य राइडर् नामकः गणः क्रिकेट्-क्रीडायै भारतम् आगतः । किन्तु बाहुपीडावशात् विजयः तैस्साकं न क्रीडितवान् ।

== विजयस्य इङ्ग्लैण्ड्-देशस्य यात्रा ==

1936 तमे वर्षे विजयनगरस्य महाराजस्य नायकपदे इङ्ग्लेण्ड्-देशं गते गणे विजयस्य अपि गणना जाता । इयं यात्रा तस्य सिद्धेः द्वारम् उद्घाटितवती । प्रतिक्रीडायां ५१ धावनाङ्कैः यात्रायां १७४५ धावनाङ्कान् अकरोत् । अङ्गुल्याः पीडावशात् षड्क्रीडासु सः न क्रिडीतवान् । मॅञ्चेस्टर्-नगरे मुस्ताक इत्यनेन सह मिलित्वा 203 धावनाङ्काः कृताः । अस्यां क्रीडायां सः सर्वाधिकान् १५१ धावनाङ्कान् अकरोत् । विख्यातः क्रिकेट्-क्रीडाविवेचकः विस्डन् इत्ययं १९३६ तमस्य वर्षस्य पञ्चश्रेष्ठक्रीडकेषु तस्य चयनम् अकरोत् । तस्य बहुमानं कुर्वन् विस्डन् अवदत् ५ फीट्, ७ इन्च् वामने सत्यपि विजयाय धावनाङ्कानां प्राप्तौ कष्टं न भवति इति । श्रेष्ठतमस्य कन्दुकक्षेपक(bowler)स्य अपि सः सरलतया चत्वारिधावनाङ्कैः स्वागतं करोति स्म । अङ्केषु आधिक्यकरणे हुक् शॉट् इत्यस्य प्रयोगं करोति स्म । तस्य दक्षिणस्यां दिशि कन्दुकप्रेषणस्य कौशल्यं प्रति प्रेक्षकाः आसक्ताः आसन् । तस्य रक्षणात्मिका, समीचीना च क्रीडा तस्य अभ्यासस्य अनुभवं दर्शयति स्म । विजय मर्चन्ट इत्ययं सम्माननं प्राप्तवान् । अतः सम्पूर्णः देशः प्रसन्नः आसीत् । देशस्य अन्येषु बहुस्थलेषु तस्य सम्माननम् अभवत् ।

विजयस्य नायकपदे चयनम्

[सम्पादयतु]

इङ्ग्लेण्ड्-देशे असाधारणं साफल्यं प्राप्तम् अतः सः भारतीयगणस्य नायकत्वेन चितः । इङ्ग्लेण्ड्-देशस्य गणः यदा क्रिकेट्-क्रीडायै भारतम् आगतः, तदा नायकपदस्य भारवशात् विजयः व्यक्तिगतं साफल्यं न प्रापत् किन्तु स्वस्य नायकत्वेन इङ्ग्लैण्ड्-देशस्य गणं वारद्वयम् पराजयन् गणनायकत्वेन स्वशक्तेः परिचयम् अददात् । १९४४ तमे वर्षे शिलोन्-नगरं गतवतः भारतीयगणस्य नायकत्वेन सः चितः । तत्र क्रीडितासु पञ्चक्रीडासु क्रीडाद्वयम् भारतेन जितम् । त्रयः क्रीडाः अनिर्णीताः अभवन् । १९४५ तमे वर्षे भारते क्रिकेट्-क्रीडितुम् ऑस्ट्रेलियन् सर्विसस् इलेवन् इति गणः आगतः । तदानीमपि भारतस्य गणनायकत्वेन विजयः चितः । त्रिषु टेस्ट् क्रिकेट्-क्रीडासु एकस्मिन् भारतं विजयं प्रापत्, टेस्ट् द्वयम् अनिर्णीतम् अभवत् । १९४५ तमे वर्षे पुनः भारतस्य गणः इङ्ग्लेण्ड्-देशं गतः । तत्र नायकपदं पटौडी इत्यस्मै दत्तम् । तेन विजयः खिन्नः आसीत् । तथापि क्रीडायां तस्य प्रभावः नासीत् । आर्द्रवातावरणे सत्यपि सः प्रतिक्रीडायां 74.53 अङ्कान् कृतवान् । मिलित्वा 2630 अङ्काः कृताः । सप्तशतकम् एवं द्वयम् द्विशतकम् अकरोत् । तत्र भारतीयगणेन 33 क्रीडासु 15 क्रिडायां विजयः प्राप्तः, चतुर्षु क्रीडासु पराजयश्च प्राप्तः । तत्रत्येषु वर्तमानपत्रेषु अपि विजयस्य जयकारः अभवत् ।

विजयस्य वक्तव्यम्

[सम्पादयतु]

भारतीयगणस्य सम्मानने सर् स्टॅन्ली जॅक्सन् इत्ययं भोजनोत्सवम् आयोजितवान् । नायकस्य पटौडी इत्यस्य रोगकारणात् तस्य स्थाने विजयः वक्तव्यम् अददात् । तेन उक्तम् क्रिकेट्-क्रीडया देशद्वयम् उपागच्छति इति अहं न मन्ये । यदि ब्रिटिश्-सर्वकारः स्वातन्त्र्यस्य याचनां स्वीकरिष्यति, तर्हि देशस्य प्रजाः उपागमिष्यन्ति । केबिनेट् मिशन् भारतस्य स्वातन्त्र्याय गम्भीरतया विचारयेत् । साम्प्रतम् इत्थमेव प्रार्थयामि यद् भगवान् सर्वेभ्यो सद्बुद्धिं दद्यात् इति । ततः परं कॉमन्वेल्थ् इत्यस्मिन् क्रीडितासु क्रिकेट्-क्रीडासु अपि रामाधीन नामकस्य गतियुक्तस्य कन्दुकक्षेपकस्य सम्मुखे कोऽपि बल्लकः न स्थितः किन्तु विजयः अद्भुतं प्रदर्शनं कृत्वा १०७ अङ्कान् अकरोत् । १९५१ तमे वर्षे नवदिल्ली-नगरे कोटला-क्रीडाङ्गणे क्रीडिता टेस्ट्-क्रीडा तस्य अन्तिमा टेस्ट्-क्रीडा आसीत् । तस्मिन् अपि सः १५४ धावनाङ्कान् अकरोत् । ततः परं सः निवृत्तः अभवत् । तेन उक्तं केनापि क्रिकेट्-क्रीडकेन स्वस्य स्वर्णकाले एव निवृत्तः भवितव्यः इति । अयं निवृत्तः भवेत् चेत् वरमिति जनाः कथयेयुः ततः प्रागेव स्वाभिमानेन निवृत्तः भवतु इति ।

विजयस्य विक्रमाः

[सम्पादयतु]

क्रिकेट्-क्रीडायां विजयेन केचन विक्रमाः साधिताः । 1 पञ्चरङ्गी-क्रीडायां १६०० अङ्काः, प्रतिक्रीडायां ९० अङ्काः, चतुर्वारं द्विशतकं च । 2 रणजी-ट्रोफी मध्ये ३६०० अङ्काः । तत्रापि प्रतिक्रीडायाम् ९० अङ्काः । तत्र १६ शतकानि, त्रीणि द्विशतकानि, एकवारं त्रिशतं च । 3 १९४४ तमे वर्षे महाराष्ट्र-गणस्य विरुद्धम् ३५९ अङ्काः कृत्वा अटलः (not out) स्थितः । स च विक्रमः अद्यापि केनापि भारतीयेन न ध्वसितः । विजयः क्रिकेट्-क्रीडां केवलं क्रीडति इति नासीत्, किन्तु क्रिकेट्-क्रीडाविषये गूढम् अध्ययनम् अपि करोति स्म । जगतः श्रेष्ठानां क्रिकेट्-क्रीडकानां विषये तस्य यावत् ज्ञानमासीत् तावत् तदानीं अन्यस्य कस्यापि न आसीत् ।

विवाहः

[सम्पादयतु]

क्रिकेट्-क्रीडातः निवृत्तः भूत्वा विजयः विवाहम् अकरोत् । विलम्बेन विवाहम् अकरोत् इत्यतः केनापि पृष्ठम् – किमर्थं विलम्बेन विवाहम् अकरोत् इति । विजयः अवदत् - प्रत्येकेन क्रीडकेन क्रीडां प्रति ध्यानं देयं भवति, यदि अहं पूर्वमेव विवाहं कृतवान् स्याम्, तर्हि मया एतावत् साफल्यं कदापि न प्राप्तं स्यात् इति ।

विजयस्य चारित्र्यं ज्ञानं च

[सम्पादयतु]

तस्य चारित्र्यं शुद्धमासीत् । जीवनस्य महत्तमं कालं विदेशे यापयन्नपि सः धूमपानस्य स्पर्शम् अपि न कृतवान् । क्रिकेट्-क्रीडां त्यक्तवान् किन्तु क्रीडया सह सम्बन्धं न त्यक्तवान् । निवृत्तेः अनन्तरं तेन व्याख्यातृत्वेन (commentator) कार्यं कृतम् । क्रीडाङ्गणे प्रचाल्यमानायाः क्रीडायाः सुन्दरं वर्णनं कृत्वा सर्वोत्तमः व्याख्याता अभवत्, विविधेषु सामयिकेषु क्रिकेट्-क्रीडाविषयकान् लेखान् च अलिखत् ।

विजयस्य समाजसेवा

[सम्पादयतु]

१९६१ तमे वर्षे विजयः चयनसमितेः अध्यक्षः अभवत् । तदा अनेकेभ्यः नूतनेभ्यः अवसरम् अददात् । यथा – सुनिल गावस्कर, एकनाथ सोलकर, अशोक माङ्कड इत्यादयः । जीवनस्य पूर्वार्धे क्रिकेट् क्रीडित्वा उत्तरार्धे समाजसेवायाः कार्यम् अकरोत् । मुख्यतया विविधसंस्थायाः प्रासादनिर्माणे मुक्तहस्तेन दानम् अददात् । पङ्ग्वन्धानाम्, अनाथजनानां प्रति तस्य विशिष्टा सहानुभूतिः आसीत् । स्वस्य यन्त्रागारे बहून् पङ्ग्वन्धजनेभ्यः वृत्तिम् अददात् । तेषां विवाहम् अपि अकारयत् । स्वयं सरलतया सर्वैः सह मिलितुं शक्नुयात् तथा जीवति स्म । वाचकानां प्रश्नानाम् उत्तराणि झटिति यच्छति स्म । जनाः तं स्वप्रश्नान् प्रेषयन्ति स्म, सः सर्वेभ्यः उत्तरं च प्रेषयति स्म ।

पुरस्काराः

[सम्पादयतु]

क्रिकेट्-क्रीडायां समाजसेवाक्षेत्रे च योगदानप्रदानेन सः पुरस्कारान् प्रापत् । 1 सिमला-प्रान्तस्य आर्टिस्ट् असोसिएशन् इत्यस्य पीपल्स् अवॉर्ड् 2 मुम्बई-नगरस्य यङ्ग् इण्डिया अवॉर्ड् 3 मानवसेवायै मुम्बई-नगरस्य माहिम लयन्स् जे.सी. तथा नॉर्थ् जे.सी. संस्थया पुरस्कृतः 4 विश्वगुर्जरी पुरस्कारः

मृत्युः

[सम्पादयतु]

१९८७ तमस्य वर्षस्य अक्तूबर-मासस्य नवविंशति(२९)तमे दिनाङ्के मुम्बई-नगरे तस्य मृत्युः अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=विजय_मर्चन्ट&oldid=478685" इत्यस्माद् प्रतिप्राप्तम्