विपाशा
Jump to navigation
Jump to search
विपाशा (हिन्दी-ब्यास, पञ्जाबी-ਬਿਆਸ, उर्दू-بیاس, यवनभाषा-Hyphases) उत्तरभारतस्य एका नदी। सा हिमालये उद्भूय षष्टियोजनानि सृत्वा शुतुद्र्या मिलति। सा वेदेषु अर्जिकुजा इति ज्ञाता। वसिष्ठः स्वपुत्राणां मरणस्य अनन्तरम् आत्मानं बन्धयित्वा नद्यां पतित्वा अहङ्घातं कर्तुम् अयतत। यदा सः नद्याम् अपतत् पाशनद्धाः विमुक्ताः अभवन् सः च मरणात् रक्षितः। अत एव तस्याः नाम विपाशा। सा अलेक्साण्डरस्य साम्राजस्य पूर्वसीमा आसीत्।
निरुक्तम्[सम्पादयतु]
पाशामुक्तकारिणी विपाशा