विल्हेल्म् कार्नार्ड् रोण्ट्जेन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

(कालः – २७. ०३ .१८४५ तः १०. ०२. १९२३)

Wilhelm Conrad Röntgen
जननम् Wilhelm Conrad Röntgen
(१८४५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-२७)२७ १८४५
Lennep, Rhine Province, Germany
मरणम् १० १९२३(१९२३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-१०) (आयुः ७७)
Munich, Germany
देशीयता German
कार्यक्षेत्राणि Physics
संस्थाः
मातृसंस्थाः
संशोधनमार्गदर्शी August Kundt
शोधच्छात्राः
विषयेषु प्रसिद्धः X-rays
प्रमुखाः प्रशस्तयः Nobel Prize in Physics (1901)
हस्ताक्षरम्


अयं विल्हेल्म् कार्नार्ड् रोण्ट्जेन् (Wilhelm Konrad Roentgen) (एक्स्-रे) वैद्यकीये क्षेत्रे क्ष-किरणक्रमस्य संशोधकः । अयं जर्मन्-देशस्य र्हैन्-प्रान्तस्य लेनप् इति ग्रामे १८४५ तमे वर्षे मार्चमासस्य २७ तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता वस्त्रवणिक् आसीत् । एषः बाल्ये बहु चेष्टालुः आसीत् । भौतविज्ञानस्य अध्ययनात् पूर्यम् अयं विल्हेल्म् कार्नार्ड् रोण्ट्जेन् यन्त्रसम्बद्धे तन्त्रज्ञाने शिक्षणं प्राप्तवान् आसीत् । अनन्तरं स्विट्जर्लेण्ड्देशस्य जूरिक् मध्ये १८६९ तमे वर्षे वैद्यपदवीं प्राप्नोत् । तदनन्तरं सः विल्हेल्म् कार्नार्ड् रोण्ट्जेन् प्रख्यातस्य विज्ञानिनः कुण्टस्य समीपे कार्यम् अकरोत् । अयं विल्हेल्म् कार्नार्ड् रोण्ट्जेन् १८९५ तमे वर्षे नवेम्बरमासस्य ८ दिनाङ्के विलियं क्रूकनिर्मितस्य नालस्य द्वारा विद्युत् प्रवाहं प्रवाहयन् आसीत् । तदवसरे तस्मात् नालात् प्रकाशः कुत्रापि बहिः न गच्छेत् इति स्थूलस्य कागदस्य आवरणं कृतम् आसीत् । अस्मात् उपकरणात् किञ्चित् दूरे विद्यमानाः बेरियं प्लाटिनो सयनैड् इत्यस्य रासायनिकस्य लेपनयुक्ताः कागदखण्डाः अन्धकारे अपि प्रकाशन्ते स्म । तत् दृष्टवान् विल्हेल्म् कार्नार्ड् रोण्ट्जेन् तद्विषये एव आसक्तः सन् प्रयोगान् आरब्धवान् । ६ सप्ताहान् यावत् भोजनादि निमित्तम् अपि गृहं न गतं तेन । सम्पूर्णतया प्रयोगाशालायाम् एव प्रयोगमग्नः आसीत् ।

विल्हेल्म् कार्नार्ड् रोण्ट्जेनस्य जन्मस्थानम्

अनेन विल्हेल्म् कार्नार्ड् रोण्ट्जिनेन संशोधितः प्रमुखः अंशः नाम क्ष-किरणाः । तेषां किरणानां क्ष-किरणाः इति नामकरणम् अपि सः एव अकरोत् । एते किरणाः काचम् अतिक्रम्य अग्रे न गच्छन्ति । तथापि तदग्रे स्थापितानि वस्तूनि कथं प्रकाशन्ते ? तत्र काचे अन्ये एव केचन किरणाः उत्पन्नाः स्युः । तेषां किरणानां प्रभावस्य कारणतः काचस्य अग्रे विद्यमानानि वस्तूनि प्रकाशन्ते इति विषयं सः विल्हेल्म् कार्नार्ड् रोण्ट्जेन् निर्णीतवान् । तान् एव किरणान् सः क्ष-किरणाः इति निर्दिष्टवान् । प्रकाशस्य किरणाः काष्ठं, वस्त्रं वा अतिक्रम्य अग्रे गन्तुं न शक्नुवन्ति । किन्तु एते क्ष-किरणाः तानि अतिक्रम्य गच्छन्ति । क्ष-किरणाः विद्युत्कान्तीयाः तरङ्गाः एव । तेषां क्ष-किरणानां तरङ्गाः प्रकाशस्य किरणानां तरङ्गानाम् अपेक्षया लघु । ते प्रकाशस्य तरङ्गानाम् अपेक्षया १/१०,००० यावत् लघु । प्रकाशस्य तरङ्गानाम् एव गुणाः एतेषां क्ष-किरणानां तरङ्गानाम् अपि । तेषां प्रकाशस्य तरङ्गानां वेगः इव एते क्ष-किरणानां तरङ्गाः अपि प्रति सेकेण्ड् मध्ये (प्रति क्षणम्) १,८६,००० मैल् यावत् दूरं गच्छन्ति । इत्यादीन् विषयान् अपि सः विल्हेल्म् कार्नार्ड् रोण्ट्जेन् संशोधितवान् ।

अस्य विल्हेल्म् कार्नार्ड् रोन्ट्जेनस्य संशोधनस्य उपयोगः बहुशीघ्रम् एव अभवत् । मासद्वयाभ्यन्तरे एव न्युह्याम्प्षैर् इति वैद्यालये अस्थिभङ्गस्य परीक्षार्थं क्ष-किरणानाम् उपयोगः कृतः । एते क्ष-किरणाः शरीरस्य जठरं, मांसं, स्नायुं च अतिक्रम्य अग्रे गच्छन्ति । किन्तु सुदृढान् अस्थीन् अतिक्रम्य अग्रे गन्तुं न शक्नुवन्ति । अतः अस्माकं शरीरद्वारा क्ष-किरणान् प्रवाह्य पुरतः फलके अस्माकम् अस्थिपञ्जरस्य चित्रं द्रष्टुं शक्नुमः । तत्रापि तथैव कृतम् । एतेषां क्ष-किरणानां कारणातः शरीरस्य जीवतां कोशानां हानिः भवितुम् अपि अर्हति । अतः एव वैद्याः अत्यन्तं जागरूकतया तेषां क्ष-किरणानाम् उपयोगं कुर्वन्ति । अयं विल्हेल्म् कार्नार्ड् रोण्ट्जेन् क्ष-किरणानां विषये सार्वजनिकरूपेण १८९६तमे वर्षे जनवरिमासस्य २३ तमे दिनाङ्के भाषणम् अकरोत् । प्रसिद्धिः एव तम् अन्वष्यन्ती आगतवाती । तथापि सः विल्हेल्म् कार्नार्ड् रोण्ट्जेन् मानवीयानां मौल्यानां प्रतीकरूपेण आसीत् । क्ष-किरणानां सर्वस्वाम्यत्वम् (पेटेण्ट्) अपि सः निराकरोत् । तस्य क्ष-किरणस्य संशोधनं मनुकुलस्य कल्याणार्थम् एव । सर्वे अपि कष्टं विना तस्य उपयोगं प्राप्नुयुः इत्येव अवदत् । बवेरियामहाराजः "वान्" इति बिरुदं प्रदाय तस्य उपयोगं करोतु इत्यपि असूचयत् । तत् अपि सः विल्हेल्म् कार्नार्ड् रोण्ट्जेन विनयेन एव निराकरोत् । विश्वस्य बहुभ्यः भागेभ्यः उपायनानां राशिः एव पदतले आगत्य पतितः चेदपि सः सामान्यः मनुष्यः इव अजीवत् । अयं विल्हेल्म् कार्नार्ड् रोण्ट्जेन् १९०१ तमे वर्षे भौतशास्त्रस्य निमित्तम् एव आरक्षितेन “नोबेल्”पुरस्कारेण भौतशास्त्रस्य क्षेत्रे एव प्रथमवारं सम्मानितः । अस्य जीवनस्य अन्तिमकाले आर्थिकी परिस्थितिः अत्यन्तं दुर्बला आसीत् इति । बहुकालं क्ष-किरणानां विषये एव प्रयोगान् कुर्वन् आसीत् इत्यतः तेषां क्ष-किरणानां दुष्परिणामस्य कारणतः जायमानेन ल्युकेमिया (रक्तस्य क्यान्सर्) इति रोगेण पीडितः सन् अयं विल्हेल्म् कार्नार्द् रोण्ट्जेन् १९२३ तमे वर्षे फेब्रवरीमासस्य १० दिनाङ्के इहलोकम् अत्यजत् ।