विवाहसंस्कारस्य व्यावहारिकः पक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


दिल्ली संस्कृत साहित्य अकादमी, दिल्ली-सर्वकार-द्वारा समायोजिष्यमाणे त्रिदिवसीये अखिल-भारतीय-संस्कृत-सम्मेलने प्रस्तोतुं निबद्धः शोधालेखः - विवाहसंस्कारस्य व्यावहारिकः पक्षः .................................................................................................................................

                                               प्रस्तोता – 
                                                    प्रो. कमलेशकुमार छ. चोकसी
                                                          संस्कृतविभागः, भाषासाहित्यभवनम् , 
                                                          गुजरात विश्वविद्यालयः , 
                                                          अमदावाद – 380009 (गुजरात) 

प्रस्तावना – वैदिकसमाजे जन्मतः मरणपर्यन्तम् षोडशसंस्काराणाम् विधानम् पुराकालतः एव प्रवर्तते । यद्यपि गच्छता कालेन तेषु बहवः संस्काराः सामाजिकजीवनतः विलुप्ताः सन्तः अधुनातने समाजे न दृश्यन्ते । ते तु सम्प्रति पुस्तकस्था एव सन्तः दृश्यन्ते, तथापि तेषु केचन संस्काराः अद्यावधिः समस्ते∫पि समाजे प्रवर्तमानाः सन्तः समाजस्थाः सन्तीति विदितचरमेव विदुषाम् । एतादृशेषु प्रवर्तमानेषु संस्कारेषु एकतमः विवाहसंस्कारः ।

अस्य विवाहसंस्कारस्य प्रवर्तमान-भारतवर्षीयसंविधानविधौ अपि अनिवार्यत्वेन स्वीकृतिरस्तीति कृत्वा प्रवर्तमाने भारतीयसमाजे जनैः श्रद्धयाश्रद्धया वा तत्परिपाल्यते एव । राजप्रशासनम् तु अस्मिन् विषये नागरिका-धिकारव्यवस्थामेव दृष्टिपथम् निदधाति, न तु कर्तव्यव्यवस्थाम् । सर्वकारपक्षे तु (नून्यान्न्यूनम्) एकविंशवर्षियः पुरुषः अयम् अनया (न्यूनान्न्यूनम्) अष्टादशवर्षियया स्त्रिया सह विवाहेन संस्कारेण संस्कृतः अथवा नेति प्रश्ने संस्कारापेक्षया विवाहार्थम् उभयोः स्वीकृतिरस्ति न वेति स्वीकृतिरेवात्र बलवती प्रतिभाति । अथ च सति विवाहसंस्कारे सर्वकारपक्षे तु स्वसंविधानुसारम् तदुभयोः स्वोपार्जितसम्पत्यधिकारः पैत्रिकसम्पत्त्यधिकारः च समानः एव सम्पन्नः इत्येकमेव निर्धारणम् भवति । संवैधानिकरूपेण सामाजिकीम् व्यवस्थाम् कल्पयन्तः राजशासनस्थाः अधिकारिणः विवाहेन संस्कारेण संस्कृतौ तौ आत्मानौ केन प्रकारेण वैवाहिकम् उत्तरदायित्वम् वहन्ताम् , केन प्रकारेण वा ऐक्यम् साधयन्तः साधुकर्मणि रतौ स्याताम् , स्वकर्मणा गृहस्थानाम् वृद्धजनानाम् भविष्यति च जायमानानाम् आत्मजानाम् सेवादिकार्यषु सश्रद्धम् कथम् प्रवर्तेताम् इत्यादिकम् संवैधानिकपक्षातिरिक्तम् अन्यत् किमपि न विचारयन्ति ।

अत एव प्रवर्तमाने अस्मदीये भारतीये समाजे विवाहसंस्कारस्य सत्यामपि स्वीकृतौ समाजे तादृशम् सौख्यम् न प्रवर्तते यादृशम् पुरातनैः समाजशास्त्रीयैः विद्वज्जनैः प्रकल्पितम् । अस्यैकमेव कारणम् यत् तादृशसंस्कारविधौ संकल्पितस्य विधिविधानस्य व्यावहारिकः पक्षः अस्माभिः प्रलोपितः । यावत्पर्यन्तम् स न अवगम्यते , अवगमनानन्तरम् च स न आचर्यते तावत्पर्यन्तम् तादृशम् सौख्यम् न सम्भविष्यतीति निश्चयप्रचमेव ।

वस्तुतस्तु समस्ते∫ पि जगति प्रवर्तमाने निखिले∫ पि मानवसमाजे∫ स्य स्वीकृतिरस्ति । तत्र यद्यपि विधि-विधानम् भिन्नम् भिन्नम् वर्तते, तथापि तत्रस्थम् किञ्चिद् दर्शनम् तु समानमेव प्रतिभाति । इदमेव समानम् दर्शनम् विवाहसंस्कारस्य व्यावहारिकः पक्षः । स च पुराकालतः प्रचलिते अस्माकम् विवाहसंस्कारकर्मणि विधिरूपेण ग्रथितः , सर्वान् विवाहसंस्कारेण संस्कृतान् स्त्रीपुरुषान् सततम् उपदिशति, सततम् सम्पूर्णाय सौख्याय ।

यद्यपि विवाहसंस्कारे बहवः विधयः निर्दिष्टाः सन्ति, तथापि समुचितरूपेण विचारविस्तारः स्यादिति विचार्य अस्मिन् पत्रे विवाहविधौ प्रमुखतमे सप्तपदीनाम्ना सुप्रसिद्धे विधौ निहितम् विवाहस्य व्यावहारिकम् पक्षम् सुक्ष्मेक्षिकया अत्र विचारयिष्यामः । स च केन प्रकारेण विवाहितानाम् जनानाम् सौख्याय समृद्धये च मार्गदर्शनम् करोतीत्यपि क्रमशः अत्र प्रकटीकरिष्यामः ।

प्रथमम् तावत् सप्तपदिनः स्वरूपम् निरूप्यते । अस्मिन् विधौ वरः वधूश्च एकस्याम् दिशायाम् एकया गत्या कणे कणे वर्तमानस्य परमपितुः परमात्मनः , देवतानाम् प्रतिनिधित्वेन उपस्थितस्य अग्निदेवस्य अथ च समग्रस्य समाजस्य विविधानाम् जनानाम् साक्षिभूतेषु कानिचित् वचनानि वदन्तौ सप्त पदानि अनुक्रमतः ।

अस्य सप्तपदिनामा सुप्रसिद्धस्य विधेः व्यावहारिकस्य पक्षस्य विषये विचारणात् पूर्वम् किञ्चित् विशेषम् ध्यातव्यम् अस्ति । तत् चेत्थम् -

1. विवाहसंस्कारकर्मणि ये ये विधयः सन्ति , ते प्रायः स्वरूपद्वयम् धरन्ति । तद्यथा – तेषामेकम् सामाजिकम् स्वरूपम् भवति, द्वितीयम् च पारिवारिकम् स्वरूपम् । सामाजिकस्य अस्य स्वरूपस्यायम् विशेषः यत् तत्

1. स्थलेन कालेन च संबद्धम् भवति । 2. साद्यन्तम् भवति । 3. अनेकेषाम् साहाय्येन संसाध्यम् भवति । 4. व्ययसाध्यम् च भवति ।

अथ पारिवारिकस्य चास्य स्वरूपस्यायम् विशेषः यत् तत्

1. स्थलेन कालेन च असंबद्धम् भवति । 2. साद्यन्तरहितम् भवति । 3. अनेकेषाम् साहाय्यनिरपेक्षम् भवति । 4. व्ययरहितम् च भवति ।।

2. अयम् सप्तपदीविधिः ,

1. हिन्दुविवाहविधेः आत्मा वर्तते ।

2. इमम् विना विवाहसंस्कारस्य पूर्णता न भवति ।

3. अत्र सप्तानाम् पदानाम् समूहः भवति ।

4. इमानि सप्त पदानि गृहस्थाश्रमस्य सप्त लक्ष्याणि सन्ति ।

5. अथ च तानि गृहस्थाश्रमप्रवेशस्य सप्त योग्यताः सन्ति ।

6. सप्तपदीविधिः गृहस्थाश्रमस्य प्रवेशद्वारः अस्ति ।

7. सप्तपदीविधेः अनन्तरम् एव च कन्यायाः गोत्रपरिवर्तनम् भवति ।। एवम् सप्तपदीविधेः सप्त विशेषाः सन्ति ।।

3. अयम् सप्तपदीविधिः मनसा वचसा कर्मणा चेति त्रिविद्यः अस्ति ।।

1. प्रथमे मनसा विधीयमाने अस्मिन् विधौ वरवध्वोः मनसि काश्चन भावनाः भवन्ति ।

2. द्वितीये वचसा विधीयमाने अस्मिन् विधौ वरवधू कानिचित् वचनानि वदतः ।

3. तृतीये कर्मणा विधीयमाने अस्मिन् विधौ वरवधू काश्चित् क्रियाः कुरुतः ।।

4. मनसा विधीयमाने अस्मिन् विधौ वरवध्वोः मनसि याः काश्चन भावनाः भवन्ति, ताः सन्तीमाः । तद्यथा –

1.वरवधूरूपेण शारीरिकरूपेण आवाम् द्वैतम् धरावः, परन्तु मनसा, वाचा, कर्मणा अद्वैतम् संसाध्य वर्धितुकामौ स्तः । आवाम् लक्ष्यानाम् सप्त उपलिप्सावहे ।।

2. एतदर्थम् आवाभ्याम् शिक्षासंस्कारौ संगृहीतौ स्तः ।।

3. अत एव जीवनगतिः समाना स्यात् , गतेः दिशा अपि समाना स्यात् तदर्थम् आवाम् प्रयतावहे ।

4. आवयोः उद्योगः तु भविष्यत्येव, तथाप्यत्र वयोवृद्धानाम् जनानाम् आशीर्राशीः कामयमानौ स्तः ।।


5. वचसा विधीयमाने∫स्मिन् विधौ वरवधू कानिचित् वचनानि वदतः। तानि वचनानीमानि सन्ति –

1. इष एकपदी भव सा मामनुव्रता भव विष्णुस्त्वानयतु पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः ।।

2. ऊर्जे द्विपदी भव सा मामनुव्रता भव विष्णुस्त्वानयतु पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः ।।

3. रायस्पोषाय त्रिपदी भव सा मामनुव्रता भव विष्णुस्त्वानयतु पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः ।।

4. मयोभवाय चतुष्पदी भव सा मामनुव्रता भव विष्णुस्त्वानयतु पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः ।।

5. प्रजाभ्यः पञ्चपदी भव सा मामनुव्रता भव विष्णुस्त्वानयतु पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः ।।

6. ऋतुभ्यः षड्पदी भव सा मामनुव्रता भव विष्णुस्त्वानयतु पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः ।।

7. सखे सप्तपदी भव सा मामनुव्रता भव विष्णुस्त्वानयतु पुत्रान् विन्दावहै बहून् ते सन्तु जरदष्टयः ।।

6. कर्मणा विधीयमाने अस्मिन् विधौ वरवधू काश्चित् क्रियाः कुरुतः ।।

ताश्च इमाः सन्ति –

1. वरवधू संमिल्य सप्त पदानि चलतः ।

2. चलनकर्मणि प्रथमम् दक्षिणे ततः वामे चरणे धरतः ।

3. चलनक्रियायाम् दिशा एका एव भवति ।।

4. चलनक्रियायाम् गतिरपि समाना एव भवति ।।

5. चलनक्रियायाः लक्ष्यानि अपि पूर्वतः निश्चितानि निर्धारितानि च भवन्ति ।।

वस्तुतस्तु अस्मिन् एकस्मिन्नैव विधौ विवाहसम्बद्धानि नैकानि दर्शनानि निहितानि सन्ति, नैकाश्चाचाराः निहिताः सन्ति । तत्र यद्दर्शनम् वर्तते तत् एकैकशः अधः विलिख्यते ।

1. प्रथमम् दर्शनम् तावत् विवाहावसरस्य वयः निश्चिनोति । यावत्पर्यन्तम् वधूवरौ गतिकर्मणि समर्थौ न स्याताम् तावत् पर्यन्तम् तयोः विविहसंस्कारस्य अवसरः अपि न भवति । एतच्च सामर्थ्यम् युवावस्थायाम् प्राप्यते, न तु बाल्यावस्थायाम् । एवम् विधिरयम् बालविवाहस्य निषेधम् परिपक्वावस्थायाम् विवाहकरणम् चेति व्यवस्थारूपम् दर्शनद्वयम् सूचयति ।।

2. द्वितीयम् दर्शनम् उभयोः विद्यया समलंकृतिः सूचयति । यतो हि वधूवरौ यावत्पर्यन्तम् समानरूपेण शिक्षावन्तौ न स्याताम् तावत् पर्यन्तम् गृहस्थाश्रमे निर्धारितस्य लक्ष्यस्य प्राप्त्यर्थम् अग्रे गमनविधौ समानया गत्या गन्तुम् न प्रभवतः । अतः उभावपि समानशिक्षान्वितौ स्याताम् इत्यस्मिन् विधौ निहितमस्ति । एवम् विधिरयम् विद्यया असमलंकृतयोः स्त्रीपुरुषयोः विवाहस्य निषेधम् विद्यया समलंकृतयोः स्त्रीपुरुषयोः विवाहस्य च विधिश्चेति अपरम् व्यवस्थारूपम् दर्शनद्वयम् सूचयति ।।

3. तृतीयम् दर्शनम् उभयोः साधनसम्बन्धिनीम् योग्यताम् सूचयति । विवाहसंस्कारेण संस्कर्तुकामौ वधूवरौ यावत्पर्यन्तम् अन्नस्य स्वामिनौ न भवतः तावत्पर्यन्तम् तौ विवाहयोग्यौ न भवतः । वयसः शिक्षायाः अनन्तरम् विवाहार्हतायाः इदम् तृतीयम् तत्त्वमस्ति । अतः विवाहेन संस्क्रियमाणौ अन्नवन्तौ स्यातामित्यपि अत्र निहितमस्ति । एवम् विधिरयम् अन्नविहीनयोः स्त्रीपुरुषयोः विवाहस्य निषेधम् अन्नसहितयोः स्त्रीपुरुषयोः विवाहस्य च विधिश्चेति अपरम् व्यवस्थारूपम् दर्शनद्वयम् सूचयति ।।

4. चतुर्थम् दर्शनम् विवाहसंस्कारस्य चरमम् परमम् च लक्ष्यम् सूचयति । यद्यपि अस्य विवाहसंस्कारस्य अन्यान्यपि लक्ष्याणि सन्ति , तेषु विविधानाम् भोगानाम् भुक्तिरादयो नैके सुखलाभाः समाहिताः सन्ति, तत्परिणामत्वेन च स्वकीयाः प्रजाः प्रजायन्ते, ताः च स्वकीयः परिवारः भवति । परन्तु एतावत्पर्यन्तम् विवाहसंस्कारस्य समाप्तिर्न भवति । वस्तुतस्तु यावत्पर्यन्तम् संस्कर्तुकामौ वधूवरौ अखिलम् ब्रह्माण्डम् स्वकीयम् परिवारम् न मन्वाते , तावत्पर्यन्तम् ( सप्तमम् पदम् न संभवति, अतः ) तौ पूर्णतया विवाहितौ न भवतः । वयसः शिक्षायाः अन्नादिनाम् चान्तरम् विवाहार्हतायाः इदम् चतुर्थम् तत्त्वमस्ति । अतः विवाहेन संस्क्रियमाणौ मनसि वसुधैव कुटुम्बकम् इति सुप्रसिद्धाम् भावनाम् दधतामित्यपि अत्र निहितमस्ति । एवम् विधिरयम् केवलानाम् रक्तसम्बन्धिजनानाम् एव स्वकीयपरिवारत्वेन स्वीकृतयोः स्त्रीपुरुषयोः विवाहस्य निषेधम् समस्तस्य लोकस्य च स्वकीयपरिवारत्वेन स्वीकृतयोः स्त्रीपुरुषयोः विवाहस्य च विधिश्चेति अपरम् व्यवस्थारूपम् दर्शनद्वयम् सूचयति ।। एतेषाम् चतुर्विधानाम् दर्शनानाम् सन्दर्भे वरवध्वोः समाचरिष्यमाणानाम् आचाराणाम् चत्वारो विधयः सूचिताः भवन्ति । ते चैते सन्ति –

1. जगतः किमपि वस्तु स्यात् यदि तत् केनचित् अन्येन केनचित् वस्तुना सह संगमनमपेक्षते, चेत् उभयोः समानदिशायाम् गमनमपेक्षत एव । एकम् वस्तु अन्यस्याम् दिशायाम् अपरम् च वस्तु अन्यस्याम् दिशायाम् गच्छति, चेत् उभयोः सहगमनम् कथमपि भवितुम् न शक्नोति । ( अर्थात् एकः पूर्वस्याम् दिशि गच्छति अपरः पश्चिमायाम् दिशि गच्छति, चेत् उभयोः सह गमनम् अशक्यमेव भवति । ) अतः विवाहितयोः स्त्रीपुरुषयोः अयमाचारः यत् तौ यस्मिन् कस्मिन् कर्मणि प्रवृत्तौ स्याताम् तदा तौ एकामेव दिशाम् निश्चिनुताम् । अयमाशयः – यत्र कर्मणि एकस्य निषेधः स्यात् तत्र अपरस्यापि निषेधो भवेत् । यत्र कर्मणि एकस्य सम्मतिः स्यात् तत्र अपरस्यापि सम्मतिः भवेत् । एवम् उभयोः विचारदिशा यदा एका भवति, तदा तत्र सुखम् भवति । परन्तु यत्र एकस्य निषेधः अपरस्य च सम्मतिः , एवम् यत्र उभयोः विचारदिशा यदा भिन्ना भवति, तदा तत्र सुखम् न भवति, अपितु दुःखमेव भवति ।। अतः विवाहितानाम् सर्वदैव दिशायाः ऐक्यम् भवेत्तादृशः आचारः आचरणीयो भवति ।।

2. एवमेव सहगमनाय अपरमपि एकम् सर्वमान्यम् दर्शनम् वर्तते । तत् च जगतः किमपि वस्तुद्वयम् यदि सह गमनमपेक्षते, चेत् उभयोः समानगतित्वमपि अपेक्षत एव । एकम् वस्तु अन्यया गत्या अपरम् च वस्तु अन्यया गत्या प्रचलति, चेत् उभयोः सहगमनम् कथमपि भवितुम् न शक्नोति । ( अर्थात् एकः शशकगतिना गच्छति अपरः कच्छपगतिना गच्छति, चेत् उभयोः सह गमनम् अशक्यमेव भवति । ) अतः विवाहितयोः स्त्रीपुरुषयोः अयमाचारः यत् तौ यस्मिन् कस्मिन् कर्मणि प्रवृत्तौ स्याताम् तदा तयोः गतिः समाना एव भवेत् । एतदर्थम् अपेक्षितम् सर्वमपि करणीयम् अवश्यम् करणीयमेव ।

अस्यायमाशयः – एकस्मिन् कर्मणि प्रवृत्तौ द्वौ चेतनसदस्यौ कदापि समानाम् बुद्धिम् समानाम् च शक्तिम् न दधतः । का कथा सचेतनानाम् , संसारे तु ईशनिर्मितानि प्रत्येकम् वस्तूनि एवम्प्रकारकानि भवन्ति । कश्चित् उद्घोषयेत् यत् रूपेण सुगन्धिना भारेण आकृत्या रङ्गेण अन्तर्निहितेन रसेन तस्य रसस्य च स्वादेन समाने स्याताम् तादृशे द्वे आम्रफले अनयत्विति । अत्र एतादृशे द्वे आम्रफले आनेतुम् न शक्नोति को∫पि जनः । यतोहि प्रकृतौ समुत्पन्नानि निखिलानि आम्रफलानि परस्परम् समानानि न भवन्ति । प्रकृतेः परमेश्वरस्य वा विरचितस्य पदार्थस्य अयम् विशेषः । एवम् द्वौ पदार्थौ कदाचिदपि समानौ न भवतः इति निश्चितः सिद्धान्तः ।

अस्याम् स्थितौ वधूवरयोः सत्सु अपि विविधेषु समानेषु धर्मेषु किमप्येकम् गुणात्मकम् वस्तु भिन्नम् भवत्येव । इदम् भिन्नत्वम् समानगमने बाधकम् न स्यात्तादृशः आचारः आचरणीयः ।

एवं हि एकस्य निषेधः स्यात् तत्र अपरस्यापि निषेधो भवेत् । यत्र कर्मणि एकस्य सम्मतिः स्यात् तत्र अपरस्यापि सम्मतिः भवेत् । एवम् उभयोः विचारदिशा यदा एका भवति, तदा तत्र समानगतिना गमनम् भवति, यत् सुखम् जनयति । परन्तु यत्र एकस्य निषेधः अपरस्य च सम्मतिः अथवा एकस्य निषेधः अपरस्य च सम्मतिः इत्येवम् उभयोः विचारदिशा भिन्ना भवति, तदा तत्र समानगतिना गमनम् न संभवति , तच्च सुखम् जनयति अपितु तत् दुःखमेव जनयति ।। अतः विवाहितानाम् सर्वदैव दिशायाः ऐक्यम् भवेत्तादृशः आचारः आचरणीयो भवति ।।

3. सप्तपद्याम् तृतीयम् दर्शनम् साधनसम्बन्धि वर्तते । विवाहसंस्कारेण संस्कर्तुकामौ कीदृशौ वधूवरौ विवाहयोग्यौ भवतः इति जिज्ञासायाम् यौ अन्नस्वामिनौ स्याताम् तौ इत्युत्तरम् ।

अतः विवाहाय उत्सुकौ स्त्रीपुरुषौ स्वस्मै स्वपरिवाराय च पर्याप्तः अन्नसंग्रहः स्यात्तादृशम् आचरणम् कुर्यास्ताम् । अस्मै अन्नसंग्रहाय कृषिकर्म आवश्यकम् भवति । अतः प्रथमम् तु स्वयमेव कृषिकर्म कुर्यास्ताम् , त्यादृशः आचारः अपेक्षितो वर्तते । तथापि यदि स्वयम् कृषिकर्म न क्रियते चेत् ये जनाः तत्कर्म कुर्वन्ति तेभ्यः जनेभ्यः यथोचितः कश्चित् विनिमयः संकल्पितो भवेत् तथा वर्तितव्यम् । अयमाचारः विवाहेन संस्कारेण विवाहितानाम् सर्वेषाम् अनिवार्यः अस्ति । तत्र कश्चिदपि अपवादः न भवेत् ।

अयमाशयः – विवाहिताः सर्वे∫पि जनाः यद्यपि कृषिकर्मणि संलग्नाः न स्युः , तथापि ते कृषिकर्म प्रति स्वकीयमपि किञ्चित् उत्तरदायित्वम् स्वीकुर्युः, तदर्थम् च कञ्चिदाचारम् आचरेयुः इति अत्र सिद्धान्तः ।।

एवम् विधिरयम् अन्नविहीनयोः स्त्रीपुरुषयोः विवाहस्य निषेधम् अन्नसहितयोः स्त्रीपुरुषयोः विवाहस्य च विधिश्चेति अपरम् व्यवस्थाद्वयम् सूचयति ।।

4. विवाहसंस्कारस्य यत् चतुर्थम् दर्शनम् अस्ति, तदनुरूपः कश्चिदाचारः अपि आचरणीयः इत्यपेक्षते । वस्तुतः विवाहेन संस्क्रियमाणौ द्वौ स्त्रीपुरुषौ स्तः, तावेव गृहस्वामिनौ गृहवास्तव्यौ च स्तः, एवं एष एव तयौः परिवारः इति आपाततः कथनीयमापतति । परन्तु अस्मिन् सप्तपद्याम् निहितेन दर्शनेन ज्ञायते यत् एतावन्मात्रम् तयोः परिवारः नास्ति । तत्र तु निखिलमपि जगत्परिवारे समापतति । ततो प्यधिकम् अखिलम् ब्रह्माण्डम् स्वकीयम् परिवारम् ते मन्वाते । तादृशम् उत्तरदायित्वम् च विवहतः । अनेनैव तौ पूर्णतया विवाहितौ भवतः । एवं स्वकीये परिवारे सर्वेषाम् प्राणिनाम् समावेशम् विधाय तान् सर्वान् प्रत्यपि उचितम् व्यवहारम् अचरन्तौ स्याताम् तादृशः कश्चिद्व्यवहारः अपि ताभ्यामाचरणीयो भवति ।।

वरवध्वोः सत्यपि समाने ग्रह-स्थित्यादौ गुणकर्मस्वभावादौ च विधीयमानः ( स्व कन्यकायाः स्व पुत्रस्य वा ) विवाहः भविष्यति काले ( अथवा गच्छता कालेन ) सफलः भवेन्न वा भवेदिति चिन्ता संजायत एव मातृपितृबन्धुजनानाम् । अस्याम् स्थितौ यदि प्रस्तुते विधौ निहितम् दर्शनम् मनसि निधाय तदनुगुणम् आचारः सेव्यते चेत् सर्वः विवाहितः जनः निरपवादरूपेण सुखी भवेदेव । एवमत्र विवाहसंस्कारविधौ सप्तपदित्वेन प्रवर्तमानः प्रधानो∫यं विधिरनेकरीत्या वैवाहिकस्य जनस्य सुखप्राप्तये वैवाहिकस्य च जीवनस्य अखण्डिताय विविधम् आचारम् समुपदिशति । अयमाचार एव वस्तुतस्तु विवाहसंस्कारस्य व्यवहारिकः पक्षः वर्तते, इति दिक् ।।

सम्बद्धाः लेखाः[सम्पादयतु]