"लभन्ते ब्रह्मनिर्वाणम्..." इत्यस्य संस्करणे भेदः
Content deleted Content added
→बाह्यसम्पर्कतन्तुः: clean up using AWB |
|||
पङ्क्तिः २०: | पङ्क्तिः २०: | ||
==तात्पर्यम्== |
==तात्पर्यम्== |
||
येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति । |
येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति । |
||
==शाङ्करदर्शनम्== |
|||
किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।। |
|||
==बाह्यसम्पर्कतन्तुः== |
==बाह्यसम्पर्कतन्तुः== |
१२:०३, २८ जून् २०१२ इत्यस्य संस्करणं
- लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
- छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥
पदच्छेदः
लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'
अन्वयः
क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।
पदार्थः
- क्षीणकल्मषाः = नष्टपापाः
- छिन्नद्वैधाः = अपगतसंशयाः
- यतात्मानः = जितेन्द्रियाः
- सर्वभूतहिते = सर्वभूतसुखे
- रताः = आसक्ताः
- ऋषयः = मुनयः
- ब्रह्मनिर्वाणम् = मोक्षम्
- लभन्ते = प्राप्नुवन्ति ।
तात्पर्यम्
येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।
शाङ्करदर्शनम्
किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।।