लभन्ते ब्रह्मनिर्वाणम्...
दिखावट
श्लोकः
[सम्पादयतु]- लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
- छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'
अन्वयः
[सम्पादयतु]क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।
शब्दार्थः
[सम्पादयतु]- क्षीणकल्मषाः = नष्टपापाः
- छिन्नद्वैधाः = अपगतसंशयाः
- यतात्मानः = जितेन्द्रियाः
- सर्वभूतहिते = सर्वभूतसुखे
- रताः = आसक्ताः
- ऋषयः = मुनयः
- ब्रह्मनिर्वाणम् = मोक्षम्
- लभन्ते = प्राप्नुवन्ति ।
अर्थः
[सम्पादयतु]येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।
शाङ्करदर्शनम्
[सम्पादयतु]किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये लभन्ते ब्रह्मनिर्वाणम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च