यतेन्द्रियमनोबुद्धिः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टाविंशतितमः (२८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यतेन्द्रियमनोबुद्धिः मुनिः मोक्षपरायणः विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥

अन्वयः[सम्पादयतु]

यः स्पर्शान् बाह्यान् बहिः चक्षुः च एव भ्रुवोः अन्तरे कृत्वा नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधः मुुनिः (वर्तते) सः सदा मुक्तः एव ।

शब्दार्थः[सम्पादयतु]

यः = यः मानवः
स्पर्शान् = शब्दादीन् विषयान्
बाह्यान् = बहिः वर्तमानान्
बहिः = बहिर्भागे
चक्षुः च एव = नेत्रम् अपि
भ्रुवोः = भ्रुवोः
अन्तरे = मध्ये (कृत्वा)
नासाभ्यन्तरचारिणौ = नासिकान्तर- सञ्चारिणौ
प्राणापानौ = प्राणापानवायू
समौ = तुल्यौ
कृत्वा = विधाय
यतेन्द्रियमनोबुद्धिः = वशीकृतेन्द्रियचित्तमतिः
मोक्षपरायणः = मोक्षरतः
विगतेच्छाभयक्रोधः = विनष्टरागद्वेषभयः
मुनिः = यतिः
सः = सः पुरुषः
सदा = सततम्
मुक्तः एव = विमुक्तः एव ।

अर्थः[सम्पादयतु]

यः सर्वान् अपि इन्द्रियार्थान् बहिरेव कृत्वा (तान् अविचिन्त्य), दृष्टिं भ्रुवोः मध्ये संस्थाप्य, नासिकायां संचरन्तौ प्राणापानौ समौ कृत्वा, इन्द्रियाणि मनः बुद्धिं च नियन्त्र्य मोक्षपरायणः भवति, यश्च इच्छाभयक्रोधादिरहितः अस्ति सः सदा मुक्तः एवेति निर्णयः ।

शाङ्करदर्शनम्[सम्पादयतु]

यतेन्द्रिय इति। यतेन्द्रियमनोबुद्धिर्यतानि संयतानीन्द्रियाणि मनो बुद्धिश्च यस्य स यतेन्द्रियमनोबुद्धिर्मननान्मुनिः संन्यासी मोक्षपरायण एवं देहसंस्थानोमोक्षपरायणो मोक्ष एव परमयनं परा गतिर्यस्य सोऽयं मोक्षपरायणो मुनिर्भवेत्। विगतेच्छाभयक्रोध इच्छा च भयं च क्रोधश्चेच्छाभयक्रोधास्ते विगता यस्मात्स विगतेच्छाभयक्रोधः।य एवं वर्तते सदा संन्यासी मुक्त एव सः। न तस्य मोक्षोऽन्यः कर्तव्योऽस्ति ।।28।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
स्पर्शान्कृत्वा बहिर्बाह्यान्...
यतेन्द्रियमनोबुद्धिः... अग्रिमः
भोक्तारं यज्ञतपसां...
Orange animated right arrow.gif
यतेन्द्रियमनोबुद्धिः...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]