संन्यासस्तु महाबाहो...
श्लोकः[सम्पादयतु]
- सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
- योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षष्टः(६) श्लोकः ।
पदच्छेदः[सम्पादयतु]
सन्न्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः योगयुक्तः मुनिः ब्रह्म न चिरेण अधिगच्छति ॥ ६ ॥'
अन्वयः[सम्पादयतु]
महाबाहो ! सन्न्यासः तु अयोगतः आप्तुं दुःखम् । योगयुक्तः मुनिः नचिरेण ब्रह्म अधिगच्छति ।
शब्दार्थः[सम्पादयतु]
- महाबाहो = हे अर्जुन !
- सन्न्यासः तु = ज्ञानयोगः तु
- अयोगतः = कर्मयोगं विना
- आप्तुम् = लब्धुम्
- दुःखम् = कष्टम्
- योगयुक्तः = फलनिरपेक्षः कर्मयुक्तः
- मुनिः = शान्तः पुरुषः
- नचिरेण = शीघ्रम्
- ब्रह्म = परामात्मानम् ।
- अधिगच्छति = प्राप्नोति ।
अर्थः[सम्पादयतु]
महाबाहो ! कर्मयोगात् ऋते ज्ञानयोगस्य प्राप्तिः दुश्शका एव । कर्मयोगी मुनिः तु शीघ्रं ब्रह्म अधिगच्छति ।
शाङ्करभाष्यम्[सम्पादयतु]
|
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये संन्यासस्तु महाबाहो... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्[सम्पादयतु]
अधिकवाचनाय[सम्पादयतु]
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च