यत्साङ्ख्यैः प्राप्यते स्थानं...
दिखावट
श्लोकः
[सम्पादयतु]
- यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
- एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चमः (५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यत् साङ्ख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ४ ॥
अन्वयः
[सम्पादयतु]यत् स्थानं साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते । यः साङ्ख्यं च योगं च एकं पश्यति सः पश्यति ।
शब्दार्थः
[सम्पादयतु]- यत् = यत्
- स्थानम् = पदम्
- साङ्ख्यैः = ज्ञानिभिः
- प्राप्यते = लभ्यते
- तत् = तत्
- योगैः = कर्मयोगिभिः
- अपि = अपि
- गम्यते = लभ्यते
- यः = यः पुरुषः
- साङ्ख्यं च = ज्ञानमार्गं च
- योगं च = योगमार्गं च
- एकम् = समानफलम्
- पश्यति = वीक्षते
- सः पश्यति = स एव सम्यक् पश्यति ।
अर्थः
[सम्पादयतु]ज्ञानिभिः सन्न्यासिभिः यत् स्थानं प्राप्यते तदेव स्थानं कर्मयोगिभिः अपि प्राप्यते । यः ज्ञानयोगं कर्मयोगं च समानप्रयोजनं पश्यति सः एव सम्यक् पश्यति, नान्यः ।
शाङ्करभाष्यम्
[सम्पादयतु]एकस्यापि सम्यगनुष्ठानात्कथमुभयोः फलं विन्दत इत्युच्यते-यदिति। यत्साथ्यैर्ज्ञाननिष्ठैः फलमनभिसंधायानुतिष्ठन्ति ये ते योगिनस्तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेणगम्यत इत्यभिप्रायोऽत एकं सांख्यं योगं च यः पश्यति फलैकत्वात्स सम्यक्पश्यतीत्यर्थः ।।5।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]![]() |
विकिमीडिया कॉमन्स् मध्ये यत्साङ्ख्यैः प्राप्यते स्थानं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च