कायेन मनसा बुद्ध्या...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वात्मशुद्धये ॥ ११ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य एकादशः (११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वा आत्मशुद्धये ॥ ११ ॥

अन्वयः[सम्पादयतु]

योगिनः कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि सङ्गं त्यक्वा आत्मशुद्धये कर्म कुर्वन्ति ।

शब्दार्थः[सम्पादयतु]

योगिनः = कर्मयोगिनः
कायेन = शरीरेण
मनसा = चित्तेन
बुद्ध्या = मत्या
केवलैः = ईश्वरार्पणबुद्ध्या विधानेन ममताशून्यैः
इन्द्रियैः अपि = नेत्रादिभिः अपि
सङ्गम् = आसक्तिम्
त्यक्त्वा = विहाय
आत्मशुद्धये = चित्तशुद्धये
कर्म = कर्तव्यम्
कुर्वन्ति = आचरन्ति ।

अर्थः[सम्पादयतु]

योगिनः शरीरेण मनसा बुद्ध्या ईश्वराय एव कर्म करोमि, न मम फलाय' इति ममतां विना इन्द्रियैश्च कर्म आचरन्ति तेन तेषां चित्तं शुद्धं भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

केवलं सत्त्वशुद्धिमात्रफलमेव तस्य कर्मणः स्यात्, यस्मात्-कायेन देहेन मनसा बुद्धया च केवलैर्ममत्ववर्दितैरपीश्वरायैव कर्म करोमि न मम फलायेति ममत्वबुद्धिशून्यैरीन्द्रियैरपि।केवलशब्दः कायादिभिरपि प्रत्येकं संबध्यते सर्वव्यापारेषु ममतावर्जनाय, योगिनः कर्मिणः कर्म कुर्वन्ति संङ्ग त्यक्त्वा फलविषयमात्मशुद्धये। सत्त्वशुद्धय इत्यर्थः।तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव ।।11।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
ब्रह्मण्याधाय कर्माणि...
कायेन मनसा बुद्ध्या... अग्रिमः
युक्तः कर्मफलं त्यक्त्वा...
Orange animated right arrow.gif
कायेन मनसा बुद्ध्या...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कायेन_मनसा_बुद्ध्या...&oldid=361913" इत्यस्माद् प्रतिप्राप्तम्