योऽन्तःसुखोऽन्तरारामः...
श्लोकः[सम्पादयतु]
- योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
- स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्विंशतितमः (२४) श्लोकः ।
पदच्छेदः[सम्पादयतु]
यः अन्तः सुखः अन्तरारामः तथा अन्तर्ज्योतिः एव यः स योगी ब्रह्मनिर्वाणं ब्रह्मभूतः अधिगच्छति ॥ २४ ॥
अन्वयः[सम्पादयतु]
यः अन्तःसुखः अन्तरारामः तथा यः एव अन्तर्ज्योतिः सः योगी ब्रह्मभूतः ब्रह्मनिर्वाणम् अधिगच्छति।
शब्दार्थः[सम्पादयतु]
- यः = यः पुरुषः
- अन्तःसुखः = अत्मनि एव सुखवान्
- अन्तरारामः = आत्मनि एव रममाणः
- तथा यः एव = एवं यः जनः
- अन्तर्ज्योतिः = आत्मनि एव ज्ञानवान्
- सः = सः जनः
- ब्रह्मभूतः = ब्रह्मणा एकीभावं प्राप्तवान्
- योगी = योगी
- ब्रह्मनिर्वाणम् = ब्रह्मणि लयम् (मोक्षम्)
- अधिगच्छति = प्राप्नोति ।
अर्थः[सम्पादयतु]
यः आत्मन्येव सुखमनुभवति न विषयसम्बन्धि, यः आत्मन्येव विहरति, न तु विषयेषु, यः आत्मज्ञानेन ज्ञानवान् न विषयज्ञानेन तादृशः योगी ब्रह्माभिन्नः सन् ब्रह्मण्येव लयं गच्छति ।
शाङ्करदर्शनम्[सम्पादयतु]
कथंभूतश्च ब्रह्मणि स्थितो ब्रह्म प्राप्नोतात्याह-योऽन्तसुखोऽन्तरात्मनि सुखं यस्य सोऽन्तःसुखस्तथान्तरेवात्मन्याराम आक्रीडा यस्य सोऽन्तरारामस्तथैवान्तरात्मैवज्योतिः प्रकाशो यस्य सोऽन्तर्ज्योतिरेव। य ईदृशः स योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षमिह जीवन्नेव ब्रह्मभूतः सन्नधिगच्छति प्राप्नोति ।।24।।
|
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये योऽन्तःसुखोऽन्तरारामः... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्[सम्पादयतु]
अधिकवाचनाय[सम्पादयतु]
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च