सामग्री पर जाएँ

संन्यासं कर्मणां कृष्ण...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः

[सम्पादयतु]
गीतोपदेशः

अर्जुन उवाच -

सन्न्यासं कर्मणां कृष्णः।कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

सन्न्यासं कर्मणां कृष्ण पुनः योगं च शंससि यत् श्रेयः एतयोः एकं तत् मे ब्रूहि सुनिश्चितम् ॥ १ ॥

अन्वयः

[सम्पादयतु]

कृष्ण ! कर्मणां सन्न्यासं पुनः योगं च शंससि । एतयोः यत् श्रेयः तत् सुनिश्चितम् एकं मे ब्रूहि ।

शब्दार्थः

[सम्पादयतु]
कृष्ण = हे कृष्ण !
कर्मणाम् = यज्ञादीनाम्
सन्न्यासम् = परित्यागम्
पुनः = भूयः
योगं च = तेषामेव परिग्रहम्
शंससि = ब्रवीषि
एतयोः = अनयोः
यत् श्रेयः = यत् हितम्
सुनिश्चितम् = निर्णीतम्
तत् = तत्
एकम् = एकमेव
मे ब्रूहि = मां वद ।

हे कृष्ण ! भवान् कर्मसन्न्यासं वदति, कर्मयोगमपि वदति । कर्मणां त्यागः, तेषां परिग्रहश्च विरुद्धत्वात् युगपत् सर्वथा न सम्भवति । तस्मात् श्रेत्वेन यत् भवता निश्चितं तत् मे कथयतु ।

शाङ्करभाष्यम्

[सम्पादयतु]

'कर्मण्यकर्म यः पश्येत्' इत्यारभ्य 'स युक्तः कृत्स्नकर्मकृत्', 'ज्ञानाग्निदग्धकर्माणं', 'शारीरं केवलं कर्म कुर्वन्', 'यदृच्छालाभसंतुष्टो', 'ब्रह्मार्पणंहब्रह्म हविः', 'कर्मजान्विद्धि तान्सर्वान्', 'सर्वं कर्माखिलं पार्थ', 'ज्ञानाग्निः सर्वकर्माणि', 'योगसंन्यस्तकर्माणम्' इत्यन्तैर्वचनैः सर्वकर्मसंन्यासमवोचद्भगवान्'छित्तवैनं संशयं योगमातिष्ठ' इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणमनुतिष्ठेत्युक्तवान्। तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः स्थितिगतिवत्परस्परविरोधादेकेनसह कर्तुमशक्यत्वात्कालभेदेन चानुष्ठानविधानाभावादर्थादेतयोरन्यतरकर्तव्यताप्राप्तौ सत्यां यत्प्रशस्यतरमेतयोः कर्मानुष्ठानकर्मसंन्यासयोस्तत्कर्तव्यं नेतरदित्येवं मन्यमानः प्रशस्यतरबुभुत्सयार्जुन उवाच-संन्यासं कर्मणां कृष्णेत्यादिना। ननु चात्मविदो ज्ञानयोगेन निष्ठां प्रतिपादयिष्यन्पूर्वोदाहृतैर्वचनैर्भगवान्सर्वकर्मसंन्यासमवोचन्नत्वनात्मज्ञस्य। अतश्च कर्मानुष्ठानकर्मसंन्यासयोर्भिन्नपुरुषविषयत्वादन्यतरस्य प्रशस्यतरत्वबुभुत्सया प्रश्नोऽनुपपन्नः। सत्यमेव त्वदभिप्रायेण प्रश्नोनोपपद्यते प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नो युज्यत एवेति वदामः। कथं, पूर्वोदाहृतैर्वचनैर्भगवता कर्मसंन्यासस्य कर्तव्यतया विवक्षितत्वात्प्राधान्यमन्तरेणच कर्तारं तस्य कर्तव्यत्वासंभवादनात्मविदपि कर्ता पक्षे प्राप्तोऽनूद्यत इति न पुनरात्मवित्कर्तृकत्वमेव संन्यासय विवक्षितमित्येवं मन्वानस्यार्जुनस्य कर्मानुष्ठानकर्मसंन्यासयोरविद्वत्पुरुषकर्तृकत्वमप्यस्तीतिपूर्वोक्तेन प्रकारेण तयोः परस्परविरोधादन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यं नेतरदिति प्रशस्यतरविविदिषया प्रश्नो नानुपपन्नः। प्रतिवचनवाक्यार्थनिरूपणेनापिप्रष्टुरभिप्राय एवमेवेति गम्यते। कथं संन्यासकर्मयोगौ निःश्रेयसकरौ, 'तयोस्तु-कर्मयोगो विशिष्यते' इति प्रतिवचनमेतन्निरूप्यं, किमानेनात्मावित्कर्तृकयोः संन्यासकर्मयोगयोर्निःश्रेयसकरत्वंुप्रयोजनमुक्त्वा तयोरेव कुतश्चिद्विशेषात्कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वमुच्यत आहोस्विदनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोस्तदुभमुयच्यत इति। किंचातोयद्यात्मवित्कर्तृकयोः कर्मसंन्यासकर्मयोगयोर्निःश्रेयसकरत्वं तयोस्तु कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वमुच्यते यदि वानात्मवित्कर्तृकयोः संन्यासकर्मयोगयोस्तदिभयमुच्यतइति। अत्रोच्यते-आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरसंभवात्तयोर्निःश्रेयसकरत्ववचनं तदीयाच्च कर्मसंन्यासात्कर्मयोगस्य विशिष्टत्वाभिधानमित्येतदुभयमनुपपन्नम्।यद्यनात्मविदः कर्मसंन्यासस्तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः संभवेतां तदा तयोर्निःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसंन्यासाद्विशिष्टत्वाभिधानमित्येतदुभयमुपपद्येत,आत्मविदस्तु संन्यासकर्मयोगयोरसंभवात्तयोर्निःश्रेयसकरत्वाभिधानं कर्मसंन्यासाच्च कर्मयोगो विशिष्यत इति चानुपपन्नम्। अत्राह, किमात्मविदः संन्यासकर्मयोगयोरप्यसंभवआहोस्विदन्यतरस्यासंभवः, यदा चान्यतरस्यासंभवस्तदा किं कर्मसंन्यासस्योत कर्मयोगस्येत्यसंभवे कारणं च वक्तव्यमिति। अत्रोच्यते, आत्माविदो निवृत्तमिथ्याज्ञानत्वाद्विपर्ययज्ञानमूलस्यकर्मयोगस्यासंभवः स्याज्जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियमात्मानमात्मत्वेन यो वेत्ति तस्यात्मविदः सम्यग्दर्शनेनापास्तमिथ्याज्ञानस्य निष्क्रियात्मरूपावस्थानलक्षणं ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
संन्यासं कर्मणां कृष्ण... अग्रिमः
संन्यासः कर्मयोगश्च...
संन्यासं कर्मणां कृष्ण...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]

अधिकवाचनाय

[सम्पादयतु]