न कर्तृत्वं न कर्माणि...
दिखावट
श्लोकः
[सम्पादयतु]- न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
- न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्दशः (१४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावः तु प्रवर्तते ॥ १४ ॥
अन्वयः
[सम्पादयतु]प्रभुः लोकस्य कर्तृत्वं न सृजति । कर्माणि न, कर्मफलसंयोगं न । स्वभावः तु प्रवर्तते ।
शब्दार्थः
[सम्पादयतु]- प्रभुः = परमात्मा
- लोकस्य = जनस्य
- कर्तृत्वम् = विधातृत्वम्
- न सृजति = न करोति
- कर्माणि = कर्तव्यानि
- न = न करोति
- कर्मफलसंयोगम् = कर्मप्रयोजनयोः सम्बन्धम्
- न = न कुरुते
- स्वभावः तु = अविद्या तु
- प्रवर्तते = प्रचरति ।
अर्थः
[सम्पादयतु]परमात्मा लोकस्य कर्तृत्वं न उत्पादयति । कर्माणि अपि न सृजति । कर्मफलसंयोगमपि न जनयति । अविद्यालक्षणा प्रकृतिः प्रवर्तते ।
शाङ्करभाष्यम्
[सम्पादयतु]न कर्तृत्वमिति। न कर्तृत्वं स्वतः कुर्विति नापि कर्माणि रथघटप्रासादादीनीप्सिततमानि लोकस्य सृजत्युत्पादयति प्रभुरात्मा नापि रथादिकृतवतस्तत्फलेन संयोगं नकर्मफलसंयोगम्। यदि किंचिदपि स्वतो न करोति न कारयति च देही कस्तर्हि कुर्वन्कारयंश्च प्रवर्तत इत्युच्यते। स्वभावस्तु स्वो भावः स्वभावोऽविद्यालक्षणा प्रकृतिर्मायाप्रवर्तते दैवी हीत्यदिना वक्ष्यमाणा ।।14।।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये न कर्तृत्वं न कर्माणि... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च