ज्ञानेन तु तदज्ञानं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षोडशः (१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ज्ञानेन तु तत् अज्ञानं येषां नाशितम् आत्मनः तेषाम् आदित्यवत् ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥

अन्वयः[सम्पादयतु]

आत्मनः ज्ञानेन येषाम् अज्ञानम् नाशितं तेषां तु तत् ज्ञानम् आदित्यवत् परं प्रकाशयति ।

शब्दार्थः[सम्पादयतु]

आत्मनः = भगवतः
ज्ञानेन = ज्ञानेन
येषाम् = येषां प्राणिनाम्
अज्ञानम् = अविद्या
नाशितम् = विनाशिता
तेषां तु = तेषां प्राणिनां तु
आदित्यवत् = सूर्यः इव
ज्ञानम् = आत्मज्ञानम्
तत् परम् = तत् परमतत्त्वम्
प्रकाशयति = विशदयति ।

अर्थः[सम्पादयतु]

येषाम् अज्ञानम् आत्मनः ज्ञानेन नाशितं भवति तेषां तत् ज्ञानं सूर्यः यथा समस्तं रूपजातं प्रकाशयति तथा परमात्मार्थतत्त्वं प्रकाशयति ।

शाङ्करदर्शनम्[सम्पादयतु]

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
नादत्ते कस्यचित्पापं...
ज्ञानेन तु तदज्ञानं... अग्रिमः
तद्बुद्धयस्तदात्मानः
Orange animated right arrow.gif
ज्ञानेन तु तदज्ञानं...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ज्ञानेन_तु_तदज्ञानं...&oldid=408319" इत्यस्माद् प्रतिप्राप्तम्