तद्बुद्धयस्तदात्मानः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य सप्तदशः (१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः गच्छन्ति अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥

अन्वयः[सम्पादयतु]

तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः ज्ञाननिर्धूतकल्मषाः अपुनरावृत्तिं गच्छन्ति ।

शब्दार्थः[सम्पादयतु]

तद्बुद्धयः = परमात्मनिमतयः
तदात्मानः = परमात्मानिचित्ताः
तन्निष्ठाः = परमात्मनिस्थितयः
तत्परायणाः = परमात्मैव परो मार्गः येषाम्
ज्ञाननिर्धूतकल्मषाः = आत्मज्ञानविनिर्गतपापाः
अपुनरावृत्तिम् = पुनः अनागमनम् (मोक्षम्)
गच्छन्ति = लभन्ते ।

अर्थः[सम्पादयतु]

येषां बुद्धिः परमात्मनि रमते, चित्तं तत्रैव विहरति, स्थितिः सर्वदा तत्रैव सम्भवति, प्राप्यं च तत्त्वं स एव भवति तादृशाः ज्ञानेन कल्मषं नाशयन्तः पुरुषाः यतः पुनरागमनं न भवति तादृशं मोक्षं प्राप्नुवन्ति ।

शाङ्करदर्शनम्[सम्पादयतु]

यत्परं ज्ञानं प्रकाशितं तस्मिन्गता बुद्धिर्योषां ते तद्बुद्वयस्तदात्मानस्तदेव परं ब्रह्मात्मा येषां ते तन्निष्ठास्तत्परायणाश्च। तदेव परमयनं परा गतिर्येषांतभवति ते तत्परायणाः। केवलात्मरतय इत्यर्थः। येषज्ञानेन नाशितमात्मनोऽज्ञानं ते गच्छन्त्येवंविधा अपुनरावृत्तिमपुनर्देहसंबन्धं ज्ञाननिर्धूतकल्मषा यथोक्तेनज्ञानेन निर्धूतो नाशितः कल्मषः पापादिसंसारकारणदोषो येषां ते ज्ञाननिर्धूतकल्मषा यतय इत्यर्थः ।।17।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
ज्ञानेन तु तदज्ञानं...
तद्बुद्धयस्तदात्मानः अग्रिमः
विद्याविनयसम्पन्ने...
Orange animated right arrow.gif
तद्बुद्धयस्तदात्मानः

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]