विश्वस्वास्थ्यसंस्था

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विश्वस्वास्थ्यसंस्थायाः मुख्यकार्यालयः जिनीवा

विश्वस्वास्थ्यसंस्था (World Health Organization (WHO)) संयुक्तराष्टाणां (United Nations) अङ्गभूता विशिष्टसंस्था या च अन्ताराष्ट्रियस्तरे सार्वजनिकस्वास्थ्यविषये आस्थायुता वर्तते । १९४८ तमे वर्षे एप्रिल्मासस्य ९ दिनाङ्के स्विट्सेर्लेण्ड्देशस्य जिनीवानगरे इयं संस्था समारब्धा । इयं संयुक्तराष्ट्रवर्धनगणस्य सदस्या वर्तते ।

मसूरिकारोगस्य (smallpox) निवारणे विश्वस्वास्थ्यसंस्था अत्यन्तं प्रमुखं पात्रं वहति । एड्स्, मलेरिया, कुष्ठरोगः इत्यादीनां साङ्क्रामिकरोगाणां निवारणम्, उत्तमाहारसेवनं, पौष्टिकांशः, स्वास्थ्यशिक्षणम् इत्यादीनि अस्याः संस्थायाः लक्ष्यभूतानि सन्ति । एप्रिल्मासस्य ७ दिनाङ्कः विश्वस्वास्थ्यदिनत्वेन आचर्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]