सामग्री पर जाएँ

वृक्षामलारसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वृक्षामलारसः
वृक्षामलाफलं, फलरसः च

वृक्षामलाफलस्य रसः एव वृक्षामलाफलरसः । एतत् वृक्षामलाफलम् आङ्ग्लभाषायां Kokam Fruit इति उच्यते । अस्य रसः Kokam Juice इति उच्यते । वृक्षामलाफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य वृक्षामलाफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि वृक्षामलाफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं वृक्षामलाफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।

फलरसस्य निर्माणम्

[सम्पादयतु]

अस्य वृक्षामलाफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् वृक्षामलाफलं प्रक्षाल्य त्वक् निष्कास्य बीजं पृथक् करणीयम् । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं योजनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते । कतिपय फलानि बहु आम्लानि भवन्ति । तदवसरे शर्करा अधिकप्रमाणेन योजनीया भवति, रसः च अल्पप्रमाणेन । इदानीं कूपीषु सङ्गृहीतः सिद्धः वृक्षामलाफलस्य रसः एव प्राप्यते । तत् चेत् अपेक्षितप्रमाणेन जलं शर्करां च तस्मिन् रसे योजयन्ति चेत् फलरसः सिद्धः भवति ।

"https://sa.wikipedia.org/w/index.php?title=वृक्षामलारसः&oldid=361580" इत्यस्माद् प्रतिप्राप्तम्