वृद्धहारीतस्मृतौ प्रजानियमाः राष्ट्रशासनव्यवस्था च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


`राजा राष्ट्रम्’ इति व्यपदेश एव प्राक्तनकालीनराष्ट्रव्यवस्थायां राज्ञः प्राधान्यमावेदयति । ‘कालो वा कारणं राज्ञः राजा कालस्य कारणम् । इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥’ इति महाभारतवचनमपि एतमेवार्थमवगमयति । केवलं राज्ञा विश्वमिदं पाल्यते, अभिवृध्दिपथं यापयति इति तु रिक्तं वचः । अमात्याः (Assistants to the Ministers)मन्त्रिणः (Ministers)- दूताः (Messengers)- आरक्षणव्यवस्था (Law and order)- शासनव्यवस्था (Administration) –न्यायाङ्गव्यवस्था (Judicial system)- सर्वकारीयाधिकारिणः (Employees of Government) इत्येतत्सर्वं सङ्कलय्य् राजा किमपि कर्तुं प्रभवति । तदुक्तं कौटिल्येन –

सहायसाध्यं राजत्वं चक्रमेकं न वर्तते । इति ।-अर्थशास्त्रम् प्.२२

उक्तं च मनुनाऽपि -

अपि यत्सुकरं तदप्येकेन दुष्करम् ।
विशेषकोऽसहायेन किन्तु राज्यं महोदयम् ॥ अ.७, श्लो .५५

राज्याङ्गव्यवस्थायाः द्वे चक्षुषी-‘नियमाः (Laws) –पालनव्यवस्था ’ (Administration) चेति । अस्मिन् विषये वृध्दहारीतस्मृतिः अपूर्वां दृष्टिं प्रददातीत्यतिरोहितं विदुषाम् । सन्ति हि केचन नियमाः राज्ञ आरभ्य आविपालगोपालपर्यन्तम् । केचन सामान्यधर्माः भवन्ति भवन्ति चासाधारणाः केचन । राष्ट्रहितायाभिवृध्दये च ये नियमाः सर्वेषां विधीयन्ते तेषामनुष्ठानं सुदृढं यथा भवति तथान्वीक्षणं सर्वकारीयाधिकारिवर्गायत्तम् । सर्वकारीयाधिकारिभिः अमात्यपृथिवीपालप्रभृतिभिः यत्कर्म क्रियते तदेव शासन(Administration) व्यवस्थाशब्देन व्यपदिश्यते । वृध्दहारितस्मृतौ राज्ञः कर्तव्यमेव ज्ञापितम् –प्रजाकृतपुण्यस्य धनस्य च राजा भवति षडभागहर्ता । अतोऽनेन धर्मेण राष्ट्रं पालनीयं भवति-

न्यायेन पालयेद् राजा पृथिवीं शास्त्रमार्गतः ।
स्वराष्ट्रकृतधर्मस्य सदा षडभागसिध्दये ॥ वृ.हा.स्मृ., अ.७,श्लो.१८८,p.273

राष्ट्रस्याभिवृध्दौ क्षेमाय च तत्तत्कालीनै ऋषिभिः ऋषितुल्यैर्वा विगताभिमानैः निस्पृहैश्च केचन नियमाः निरुपिताः । तत्र एतानि कर्माणि यथायोग्यं करणीयानीति विधिरुपेण निरुप्यन्ते । अपराणि च कर्माणि त्याज्यानि (निषिध्दानि) इति निषेधमुखेनाभिधीयन्ते । वहितानामनुष्ठानेन लोकानां समाजस्य राष्ट्रस्य च हितं भवति । भवन्ति च शिक्षार्हाः निषिध्दे कर्मणि बध्दादराः । तदिदानीमवश्यमस्माभिः कर्तव्यानि कर्माणि विज्ञेयानि तानि सङ्क्षेपेण निरुप्यन्ते ।

१. सर्वैरपि परोपकारो विधेयः । एष धर्मः परमः । सर्वः सर्वदैव जीवितुं प्रभवतीति नाश्चर्यम् । किन्तु परेषामपि सुखेन जीवनार्थमवकाशप्रदानमपि कर्तव्यमेवेति विचिन्तनीयम् । परधर्मसहिष्णुभिः नरैः तत्तध्दर्म-सम्प्रदायाभिवृध्दयै चैत्यदेवाद्यायतनानि निर्मेयानि । अध्यात्मप्रवणं मनः निश्चलम्, रागद्वेषादिविकलम्, विमलं च भवतीति निश्चप्रचम् । अतोऽवश्यं तत्तध्दर्मदेवताराधनव्यवस्था समुपकल्पनीया । आमनन्ति च शास्त्रविदः- ‘परोपकारः पुण्याय पापाय परपीडनम्’ इति ।

२. जीवसङ्गस्य प्राणिसङ्गुलस्य च जीवनार्थं वापीकूपतडागादयः करणीयाः । फलपुष्पादिभिः प्रजापोषकाणां वृक्षाणामारोपणम्, पुष्पागारोद्यानादिनिर्माणं चावश्यं विधेयम् –

धर्मतः कारयेत् शश्वत चैत्यान्यायतनानि च ।
वापीकूपतडागादि फलपुष्पवनानि च ॥ वृ.हा. स्मृ. अ. ७, श्लो.२१६

३. सर्वे जनाः स्वेष्टकर्मणि धनमर्जयितुं समर्धाः । तथापि सर्वेषामपि कृष्युपजीवनं क्षेमाय विभवाय च भवति । वहुरत्नेयं वसुन्धरा सकलसस्योपधिविशेषसमृध्दा, समाराधिता समेषामपि सर्वदा सकलविधां ऋध्दिं यच्छतीति प्रमितम् । तस्मात् कृष्युपजीवनं सर्वेषामविशेषेण फलदं भवतीत्याह वृध्दहारितः –

कृषिस्तु सर्ववर्णानां सामान्यो धर्म उच्यते । वृ.हा.स्मृ.अ.७,श्लो.२७९

४. पाठप्रवचनादिना विद्यातपस्समाधिभिश्च विप्रेण सर्वेषां सुखं विद्येयम् । अतपस्विनं निष्क्रियं दुष्क्रियं च विप्रं गार्दभं यानमारोप्य विवासयेत् । विप्रस्येदमसाधारणं कर्तव्यं यत् स्वेन आर्जवेन वर्तनमन्येषां च तथैव मार्गदर्शनम् चेति । उक्तं च मनुना –

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥

कुपथगामिनां विहितत्यागिनां च विप्राणां दण्ड एव प्रदेय इत्याह हारीतः –

अङ्कयित्वा श्वपादेन गर्दभे चाधिरोह्म वै ।
प्रवासयेत् स्वराष्ट्रात्तुं ब्राह्मणं पतितं नृप ॥ वृ. हा. स्मृ.अ.७, श्लो.१९१

एवमनेके नियमाः राज्ञः प्रजानां च विधीयन्ते ।

शिक्षार्हापराधाः[सम्पादयतु]

यद्यद् विहितं तदनुष्ठेयमथ च परित्यागे दण्ड एव देयः । तत्र हि अनेकविधत्वमवसेयम् । १.स्तेयम् –परस्त्रीहरणम् –हिंसा –कुहकवचनम् –सर्वत्र कौतुकम् –स्त्रीविक्रियणम्- मद्यविक्रयणम् – मांसविक्रयणम् –लवणाविक्रयणं चेति दोषाः सर्वैः परिहरणीयाः ।

स्तेयं परस्त्रीहरणं हिंसा कुहककौतुके ।
स्त्रीमद्यमांसलवणविक्रयं पतितं स्मृतम् ॥ वृ. हा. स्मृ. अ.७.श्लो.१८३

२. प्रजासु केचन विघातकाः हिसाप्रवृत्तय स्युः । तेषां तु क्रूर एव दण्ड स्मृतः । तदुक्तम् –

अग्निदं गरदं हिंस्रं चोरं दुर्वृत्तमेव च ।
धूर्तं पतितमित्यादीन् हन्यादेवाविचारयन् ॥ वृ.हा. स्मृ.अ. ७,श्लो १८३

अनेन उपर्युक्तदोषाः न केनानि सङ्ग्राह्या इत्युक्तं भवति ।

३. काश्चन स्त्रियः कुलटा गर्भघातिन्यः नानाविधक्रौर्यगुणोपेताः भवेयुः । ताः स्त्रिय इति हेतोर्नोपेक्ष्याः । किन्तु पापानुगुण्येन शिक्षार्हा एव । अन्यथा सर्वेषां दोषा अविशेषा भवेयुः

कुलटां कामचारेण गर्भघ्नीं भर्तृहिंसिकाम् ।
निकृत्तकर्णनासोष्ठीं कृत्वा नारीं प्रवासयेत् ॥ वृ.हा. स्मृ.अ.७,श्लो.१८३

राज्ञा, अधिकारिणा, न्यायाधीशेन वा दण्डया एव दण्डनार्हाः नानर्हाः । दण्डानर्हाणां दण्डने इह अयशः, परलोके च नरकदुःखप्राप्तिर्भविता । अतः यथापराधं दण्डः प्रदेयः । द्ण्डदाने वयः- देशं कालं –अपराधं सर्वमपि विमृश्य विद्वद्भिः विचिन्त्य च् पातकानां गौरवलाधवानुसारेण दण्ड अनुशिष्टः –

न्यायेन दण्डनं राज्ञः स्वर्गकीर्तिकरं भवेत् ।
अन्यायदण्डनं राज्ञः स्वर्गकीर्तिविनाशनम् ॥
अदण्डयान् दण्डयन् राजा तथा दण्दयानदण्डयन् ।
अयशो महदाप्रोति नरकं चाधिगच्छति ॥
दिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
ज्ञात्वापराधं देशं च जनं कालमथापि वा ॥
वयः कर्म च् वित्तं च दण्डं न्यायेन पातयेत् ।
निश्चित्य शास्त्रमार्गेण विद्वद्भिः सह पार्थिवः ॥ वृ.हा.स्मृ.अ.७.श्लो.१९३-१९६

४.भूविवादे ब्रह्महत्यादिमहापातके संशयविषयाणां पुरुषाणां दोषनिर्णयः क्वचित् दुष्करो भवति । क्वचित् दोषिणोऽपि मुच्यन्ते । निर्दोषाश्च वध्यन्ते । तत्र च निदानं न्यायाङ्गव्यवस्थादोषो वा आरक्षकदोषो वा अधिकारिणाम् उत्कोचाचिनिरीक्षणं वा भवेत् । तदा तदा प्रभूतस्फुटतरसाक्ष्याद्यलाभे न्यायनिर्णयः नैव भवति । एतादृशप्रसङ्गे पञ्च दिव्यानि आश्रयणीयानि भवन्ति । तुला अग्निः-आपः विषं –कोशः इत्येतानि पञ्च दिव्यानि भवन्ति । अरोपितं पुरपम् एकस्मिन् पार्श्वे तुलापात्रे उपवेशयित्वा देवताः सम्पूज्य ‘त्वं तुला’ इत्यादिमन्त्रेण शुध्दं प्रज्ञ्यापयितुं सम्प्रार्थयेत् । अन्यतुलापात्रे तत्परिमाणपरिमिताश्र्मादि स्थापयेत् । यदि आरोपितः शुध्दः स्यात् तर्हि उपरि तुलापात्रं गच्छति । अन्यथा अघस्तात् तिष्ठति । तेन चाशुध्दोऽयमिति विज्ञेयम् । एवं तप्तलोहादिकमारोपितपुरुषकरयोः निधाय परीक्षयेत् । एवमादिपञ्चविध दिव्यानि यथापराधं विधाय परीक्ष्य च शिक्षामादिशेत् –

मिथ्यापवादशुध्दयर्थं पञ्च दिव्यानि कल्पयेत् ।
ज्ञात्वा शुध्देषु दिव्येषु शुध्दान् वै मानयेत् तथा ॥ वृ.हा. स्मृ.अ.७. श्लो १९८

अयं विषयः याज्ञवल्क्यस्मृतौ विशिष्य विस्तरेणाभिहितः दिव्यप्रकरणे । पप्रञ्चं जिज्ञासुभिः तत्रैवान्वेष्टव्यम् ।

५. ये च गुरुस्त्रीगामिनः परद्रव्यापहारिणः तेषां हस्तच्छेद एव कार्यः । यः परदारान् बलात् कामाद् वा गच्छति तस्य पतितस्य लिङ्गच्छेद्रुपशिक्षा विधेया । यदीदृशगुरुतरशिक्षा न प्रदीयते तर्हि अपराधिनां सङ्ख्या अभिवृध्दैव स्यात् न क्षीणा । अतः यथापराधं गुरुतरशिक्षा प्रदेया । एवमेव ब्रह्मघ्नस्य सुरापस्य गोस्त्रीवालघातकस्य च गुर्वी शिक्षा प्रदेया –

यः कुर्यात्तु बलात्तस्य हस्तच्छेदः प्रकीर्तितः ।
यो गच्छेत परदारांस्तु बलात् कामाच्च वा नरः ॥
सर्वस्वहरणं कृत्वा लिङ्गच्छेदं च दापयेत् ।
दहेत् कटाग्निना देहं गुरुस्त्रीगामिनं तथा ॥
ब्रह्मघ्नं च सुरापं वा गोस्त्रीबालनिषूदनम् ।
देवविप्रस्वहन्तारं शूलमारोपयेन्नवरम् ॥ -वृ.हा. स्मृ.अ.७,श्लो. २००-२०२

दायविभागः[सम्पादयतु]

पैतृकं यध्दनं भवति तत् पुत्रा गृहीयुः । मातृकं धनं पुत्र्यः तासामभावे तत्पुत्रा गृह्णीयुः । भगिन्यः पेतृकाध्दनात् तुरीयांशभागिनः । स्र्त्रीणां तु धनं पितृ –मातृ-सुत- अपत्य –बन्धुप्रभृतिभिरुपागतं भवति । तदुक्तम् –

यत्पैतृकं धनं पुत्राः विभजेयुः सुनिर्णयम् ।
मातृकं चेद् दुहितरः तदभावे तु तत्सुतः ॥
भगिन्यश्च तुरीयांशं पैतृकादाहरेध्दनात् ।
न स्त्रीधनं तु दायादा विभजेयुरनापदि ॥
पितृमातृसुताभ्रातृपत्यापत्याद्युपागतम् ।
आधिवेतनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ -वृ.हा.स्मृ.अ.७, श्लो २५५-५७

एवमनेके नियमाः राष्ट्राभ्युदयार्थं सर्वैः पालनीयाः त्याज्याश्च विषयाः सुष्ठु निरुपिताः सन्ति स्मृतिग्रन्थेऽस्मिन् इति सर्वैरयम् अध्येयः ।

सम्बद्धाः लेखाः[सम्पादयतु]