वेदान्ते स्वप्नः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जीवस्य जाग्रत्स्वप्नसुषुप्तिभेदेन त्रयः अवस्थाः वेदान्तेषु प्रथिताः । तत्र जाग्रत्सुषुप्त्यवस्थयोः नास्ति स्वरुपे काचन विप्रतिपत्तिः । अस्ति च विप्रतिपत्तिः स्वप्नस्वरुपविषये । केचित् स्वप्नस्य सत्यत्वं समर्थयन्ति अपरे पुनः तन्निराकुर्वते । पुनरन्ये विमृशन्तोऽपि तत्स्वरुपमविजानन्तः मायामयोऽयं स्वप्न इति सङ्गिरन्ते । स्वप्नावस्था च सर्वेषां जीवानां अनुभवसिध्दा एव । अत्र अविद्यमानानेव गजतुरगादीन् पश्यति शारीरः । न च स्वप्नावस्थायां एतेषां दर्शनं चक्षुषा सम्भावयितुमपि शक्यते । चक्षुरादीन्द्रियाणां स्वप्नावस्थायामुपरतत्वात् । अपि च रथान् रथयोगान् पश्यन् अपि जीवः प्रबोधानन्तरं अविद्यमानानामेव तेषां दर्शनं अनुभवति ।

न च तदानीमेव तेषां सृष्टिः तिरोधानञ्चेति वाच्यम् । उपादाननिमित्तकारणादीनां वक्तुमशक्यत्वात् । तथा हि घटं प्रति मृद इव यस्य कस्याप्युपादानत्वे विनाशानन्तरं उपादानस्य सर्वैर्दृश्यत्वमापद्येत । मृदाद्युपादानकस्य घटस्य यथा सर्वाध्यक्षसिध्दत्वं अविप्रतिपन्नं तथैव स्वाप्नपदार्थानामपि सर्वाध्यक्षविषयत्वं वक्तव्यमेव । स्वप्नद्र्ष्टृणाम् अनुभूतार्थानां अन्यैरननुभूयत्वमानत्वेन ‘एकस्य प्रतिभातन्तु कृतकान्नविशिष्यते’ इति न्यायेन मिथ्यात्वस्यैव अङ्गीकार्यत्वात् । अतोऽत्र ब्रह्मसूत्रोक्तस्वप्नस्वरुपविमर्शः मतत्रयानुरोधेन क्रियते –

शाङ्करमते सन्ध्ये सृष्टिराह हि (ब्र.सू.३.२.१)[सम्पादयतु]

‘स यत्र प्रस्वपिति’ (बृ. ४.३.९) इत्युपक्रम्य ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ पथः सृजत’ (बृ.४.३.१०) इति श्रूयते । तत्र संशयः –किं प्रबोध इव पारमार्थिकी सृष्टिः उत मायामयीति । ‘रथान् रथयोगान् पथः सृजति’ इति स्वाप्नार्थसृष्टिमभिधाय ‘स हि सर्वस्य कर्ता’ इत्युपसंहाराच्च स्वाप्नसृष्टिः पारमार्थिकी इति ।

निर्मातारं चैके (ब्र.सू. ३.२.२)[सम्पादयतु]

प्राज्ञकर्तृकेऽयं सृष्टिरिति चैके शाखिनः पठन्ति । ‘य एष सुप्तेषु जागर्तीति’ (कठ.५.८)ईश्वरलिङ्गश्रवणात् । ‘तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते’ (कठ.५.८) इति वाक्यशेषाच्च । इमौ पूर्वपक्षसूत्रौ ।

सिध्दान्तमाह बादरायणः[सम्पादयतु]

‘मायामात्रं तु कार्त्स्नेनानभिव्यक्तस्वरुपत्वात्’ (ब्र.सू.३.२.३) इति ।

तु शब्दः पूर्वपक्षं व्यावर्तयति-मायेत्यनादिरनिर्वाच्या अविद्योच्यते । मायैव सन्ध्ये सृष्टिः । न परमार्थगन्धोऽप्यस्ति । कुत ? कार्त्स्न्येनानभिव्यक्तस्वरुपत्वात् । देशकालनिमित्तसम्पत्तिरबाधश्च कार्त्स्न्यम् । तेनाभिव्यक्तस्वरुपत्वाभावात् । कार्त्स्न्यं नाम १. देशसम्पत्तिः २. कालसम्पत्तिः ३. निमित्तसम्पत्तिः ४. अबाधश्च ।

  1. न तावत् रथादीनां समुचितो देशः स्वप्ने विद्यते । न हि संवृते देशे रथादयोऽवकाशं लभेरन् ।
  2. कालसम्पत्तिरपि नास्ति । रजन्यां सुप्तो वासरं भारते वर्षे मन्यते । तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचिद् बहुवर्षपूगानतिवाहयति ।
  3. निमित्तानि च स्वाप्नपदार्थज्ञानकरणानि चक्षुरादीनि न विद्यन्ते । तेषामुपरतत्वात् । स्वाप्नपदार्थनिर्माणकारणमपि निमित्तकारणम् उपादानकारणं वा नास्ति ।
  4. स्वाप्नदृष्टार्थानां बाधात् न स्वप्नः पारमार्थिकः ।

उक्तोऽयमाशयः शाङ्करभाष्ये –‘मायामय्येव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति । कुतः? कार्त्स्न्येनाभिव्यक्तस्वरुपत्वात् । न हि कार्त्स्न्येन परमार्थवस्तुधर्मेणाभिव्यक्तस्वरुपः स्वप्नः । किं पुनरत्र कार्त्स्न्यमभिप्रेतम् ? देशकालनिमित्तसम्पत्तिरबाधश्च । न हि परमार्थवस्तुविषयाणि देशकालनिमित्तान्यबाधाश्च स्वप्ने सम्भाव्यन्ते । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन्’ इति । रामानुजमते

सन्ध्ये सृष्टिराह हि[सम्पादयतु]

‘न तत्र रथा न रथायोगा न पन्थानो भवन्त्त्यथ रथान् रथयोगान् पथः सृजत्’ इत्यत्र स्वप्नसृष्टिः प्रतीयते । इयं स्वाप्नसृष्टिः जीवकर्तृका वा परमात्मकर्तृका वा इति संशये ‘स्वप्नं पश्यतीति’ प्रकृतो जीवः स्रष्टा इत्युच्यते । ननु स्वप्नस्रष्टुः सत्यकामत्वसत्यसङ्कल्पादि श्रूयते । तत्कथं जीवकर्तृकेऽयं सृष्टिरिति चेत् न, जीवस्य सत्यसङ्कल्पत्वां प्रजापतिवाक्येऽभिहितम् । प्रतिबन्धकसत्वादिदानीं तिरोहितमिति । तस्मात् जीव एव स्वाप्नार्थस्रष्टा । सन्ध्ये = स्वप्ने श्रूयमाणा सृष्टिः जीवकृता आह हि ‘स हि सर्वस्य कर्ता’ इति परामर्शात् इति सूत्रार्थः ।

निर्मातारं चैके पुत्रादयश्च[सम्पादयतु]

एके शाखिनो जीवं स्वप्ननिर्मातारं पठन्ति –‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’ इति पुत्रादीन् (काम्यमानतया पुत्रादयः कामशब्देनोच्यन्ते ) जीवः सृजति इति ।

मायामात्रं तु[सम्पादयतु]

स्वप्ने पुष्करिष्याद्यर्थजातं, मायामात्रम् = परमपुरुषसृष्टमित्यर्थः । ‘मायाशब्दो ह्याश्चर्यवाची’ ‘जनकस्य कुले जाता देवमायेव निर्मिता’ इत्यादिषु तथा दर्शनात् । ‘कामं कामम्’ इत्यत्र ‘तदेव शुक्रं तद्ब्रह्म तदेवामृतमश्नुते’ इति अमृतत्वादिब्रह्मलिङ्गश्रवणात् ‘स हि सर्वस्य कर्ता’ इति स्वप्नसृष्ट्रत्वमपि भगवत एव ।
तदुक्तं श्रीभाष्यवार्तिके-

न रथास्तत्र न् रथयोगा इत्यादिवाक्यतः ।
रथादिसृष्टिं किं जीवः करोतीश्वर एव वा ।
युक्तं स्वप्ने जीव एव सृष्टेः कर्ता हि स्वप्नदृक् ।
एकेऽत्र शाखिनो जीवं निर्मातारं वदन्ति हि ।
एवं प्राप्ते समाधानं मायामात्रेति सूत्रतः ।
जनकस्य कुले जाता देवमायेव निर्मिता ।
इत्यादिवचनान्मायाशब्दो ह्याश्चर्यवाचकः ।
अतो रथाद्यर्थजातं स्वप्नदृष्ट्रैव दृश्यते ।
तत्कालमात्रसत्ताकं परमाश्चर्यरुपकम् ।
करोति परमात्मैव सत्यसङ्कल्पतो हरिः ।
न तु जीवेऽनभिव्यक्तस्वरुपत्वात् कृत्स्नतोऽपि हि ॥ माध्वभाष्यम् (न्यायसुधा)
‘योनेः शरीरम्’ इत्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य स्वप्नाद्यवस्थासम्बन्धः प्रसिध्दः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणमाहात्म्यं भगवतोऽत्राधिकरणे निरुप्यते ।

पूर्वपक्षः[सम्पादयतु]

  1. अर्थज्ञानोभयात्मकः स्वप्नः । तत्र स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् ।
  2. न तावदिमे अनादिनित्याः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् ।
  3. नाप्युत्पत्तिविनाशवन्तः । तथात्वेऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः ।
  4. न च वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । प्रमाणाभावात् ।
  5. न चैतेषामर्थानां निमित्तकारणमुपादानं वा पश्यामः ।
  6. न तावज्जीवः कर्ता । द्रष्टुर्निर्व्यापारत्वात् ।
  7. नापीश्वरः प्रमाणाभावात् ।
  8. ‘स्वप्नमायासरुपेति’ ‘अविद्यमानो ह्यवभाति --------- स्वप्नमनोरथो यथा’ इति श्रुतिस्मृत्या भ्रान्तित्वमवगम्यते ।

सिध्दान्तः[सम्पादयतु]

  1. अर्थज्ञानोभयात्मकस्वप्नसत्यत्वमभ्युपेयम् । स्वप्ने प्रतियमाना अर्था अनादिमनसिस्थितवासनोपादानकाः संस्कारैः भगवान् नानाविधं जगत् सृष्ट्वा जीवाय प्रदर्शयति । अतः स्वाप्नार्थानां वासनोपादानकत्वम् ईश्वरेच्छानिमित्तत्वं चास्तीति न मिथ्यात्वप्रसक्तिः ।
  2. दर्शनसाधनं मन एव । दर्शनं चानुभवो विवक्षितः ।
  3. यथा मनोरथे ध्याने वा संस्कारयोनीनर्थान् मनसा अनुभवत्येवं स्वप्नेऽपीति किमनुपपन्नम् । इयांस्तु विशेषः मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः स्वप्ने पुनरीश्वराधीनैव ।
  4. स्वप्ने स्वशरीरच्छेदादयोऽपि प्रतीयन्ते । न च तदुत्पत्तौ उपादानमस्ति । अननुभूतत्वेन संस्कारोदयाऽयोगात् इत्यप्यसाधु । संसारस्यानादित्वेन कस्मिंश्चिज्जन्मनि स्वशिरच्छेदादरप्यनुभवसम्भवेन संस्कारोपपत्तेः ।

स्वप्ने ऎषमदेहच्छेददर्शनं तु तदीयदुरालोचनया वा ‘त्वदीयं शिरच्छिन्नं भवतु’ इति कस्यचिद्वचनश्रवणाजनितसंस्कारेण वैति न दोषः । तदुक्तं- ‘अदृष्टे चाश्रुते भावे न भाव उपजायते ’ इति ।

  1. भवान्तरेऽपि शशविषाणाभावेन सामानाधिकरण्यप्रतीतिः स्वप्ने कथमुपपाद्यत इति चेत्, शब्दादिना भ्रान्तिसम्भवेन संस्कारोपपत्तेः । न केवलं जाग्रत्वं स्वप्ने भ्रमः किन्तु यत्र यस्योपादानं नास्ति बाधश्चास्ति तत्र सामानाधिकरण्यस्य भ्रमत्वमेव ।
  2. वासनामयानां मेरुमन्दरादीनां शरीरादनिर्गत्यैव मनसा अनुपरतेन दर्शनसम्भवात् ।
  3. ‘त्रिगुणात्मिकार्थज्ञानं विष्णुशक्तिस्तयैव् च । मायाशब्देन भण्यन्ते’ ‘महामायेत्येविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते’ इति स्मृत्युक्तेः मायाशब्दस्य इच्छायां प्रसिध्देः, मायामात्रमित्यस्य ईश्वरेच्छाविनिर्मितमित्यर्थः सम्पद्यते । यत्र क्वचित् श्रुतिस्मृत्यादौ विश्वस्य स्वप्नसाम्यमुच्यते चेत् तस्य, नेदं विश्वं नित्यम् अपि तु अनित्यमेव, विकारि परतन्त्रञ्च, अतोऽत्र आस्थां परित्यज्य भगवति भक्तिः कर्तव्येति प्रबोधनार्थं स्वप्नसाम्यमुच्यते ।

ईश्वरप्रज्ञाविनिर्मितत्वादेव क्वचिदिदं मायामयमुच्यते अनेन परमात्मना ऋतमवगतमिति अनृतमुच्यते । आपाततः प्रतीत एव न वाक्यार्थ इति विपश्चितां विदितमेवेति इहापि निरवकाशप्रमाणानुरोधेन विश्वसत्यत्वं न निराकृतमिति समेषामागमानां तत्रैव तात्पर्यमनुसन्धेयम् । तदुक्तं भगवत्पादाचार्यैः –

‘अनित्यत्वविकारित्वपारतन्त्र्यादिरुपतः ।
स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता ॥
सर्वज्ञस्य यतो विष्णोः सर्वदैतत् प्रतीयते ।
बोधाऽसहं ततो नैतत् किन्त्वाज्ञावशमस्य हि’ ॥ इति परमोपनिषदि ।
‘प्रज्ञाविनिर्मितं यस्मादतो मायामयं जगत् ।
अनेनानुगतं यस्मादनृतं तेन कथ्यते ॥
बोधाऽनिवर्त्यमपि तु नित्यमेव प्रवाहतः ।
अ हत्युक्तः परो देवस्तेन सत्यमिदं जगत् ॥
तदधीनस्वरुपत्वादसत्यं तेन कथ्यते ।
तदधीनस्वरुपत्वादसत्यं तेन कथ्यते ।
सत्यस्य सत्यः स विभुरिन्द्रचापस्य सूर्यवत्’ ॥ इति च ।
‘तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’ । इति च ।
महामायेत्यविद्येति नियतिर्मोहनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते ॥
प्रकृतिः प्रकृष्टकरणाद् वासना वासयेद् यतः ।
अ इत्युक्तो हरिस्तस्य विद्याऽविद्येति संज्ञिता ॥
मायेत्युक्त्वा प्रकृष्टत्वात् प्रकृष्टं हि मयाभिधम् ।
विष्णोः प्रज्ञप्तिरेवैका शाब्दैरेतैरुदीर्यते ।
प्रज्ञप्तिरुपो हि हरिः सा च स्वानन्दलक्षणा ॥ इति च ।

युक्तिमल्लिकोक्तमायाशब्दार्थनिरुपणम्[सम्पादयतु]

किञ्च मायाशब्दः अर्थपञ्चकयुत इति श्रीमद्वादिराजतीर्थश्रीमच्चरणैः युक्तिमल्लिकायां निरुपितम् । तत्र द्वितीयतृतीयार्थौ प्रकृते परित्यज्य अन्येष्वर्थेषु मायामात्रमिति सूत्रव्याख्यानमपूर्वतया सङ्गच्छत इति तदिह प्रस्तूयते –मायाशब्दः हरेरिच्छायां, जडप्रकृतौ, भ्रमहेतुभूताऽविद्यायां, हरेश्शक्तौ, तेजसि च प्रवर्तते । श्रीमद्भागवतादौ भगवति विपर्ययकारणिभूतायाः मायायाः अभावः स्फुटमुपपादितः । तेन ज्ञायते न तदीया सृष्टिः अद्वैत्युक्तदिशा मायामयीति । तथा हि युक्तिमल्लिकावचनानि –

  1. हरेरिच्छापि मायाख्या
  2. मायाख्या प्रकृतिर्जडा ।
  3. भ्रमहेतुश्च मायैका मायेयं त्रिवधा मता ।
  4. हरेः शक्तिश्च
  5. तेजश्च तथा मायापदोदिते ॥ इति ।

(१) इच्छादिरुपा या माया तया मायामयोऽस्त्वयम्-३२७ ।
‘महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’ ॥ इति ।
(२) मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम् ।
इति श्रुतौ तु या मायेत्युक्ता सा प्रकृतुर्जडा ॥
‘सर्गादौ मायया विश्वं सृजतीति’ वचोऽपि तु ।
मायाख्यां प्रकृतिं प्राह याऽस्योपादानकारणम्॥
(३) ‘विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥
‘नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोकदृष्टिविकल्पना ’।
‘त्वमाद्यः पुरुषः साक्षात् ईश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि’ ॥
(४) मायाख्यया स्वशक्त्येति मायाख्यां शक्तिमाह हि । तथा भगवते ध्रुवः ।
‘एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम् ।
सृष्टवानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद्विभासि’ ॥ (४.१०.९)
(५) ‘अन्तस्थः सर्वभूतानामात्मा योगेश्वरो हरिः ।
स्वमाययाऽवृणोद् गर्भं वैराट्याः कुरुतन्तवे ॥
यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।
वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ।
इति भागवते सूतो मायेत्युक्त्वा पुनश्च ताम् ।
वैष्णवं तेज इत्याह स्वमाया किल सा हरेः ॥
८. न स्वप्ने दृश्यमानसरपदार्थानां मिथ्यात्वम् । तथात्वे आत्मनोऽपि मिथ्यात्वप्रसक्तिः ।
९. अभ्युपगतं च शङ्कराचार्यैः स्वाप्नार्थानां वासनोपादानक्त्वं यथा –‘तद्वासनामात्रं, वेशान्तादीन् सृजते वासनामात्ररुपान् (बृ. भा. ४.३.१०) इति ।
१०. व्याहतं च शाङ्करभाष्यम् । यथा –
सूचकश्च श्रुतेराचक्षते च तद्विदः (ब्र.सू.३.२.४) इति ।
“ मायामात्रत्वात्तर्हि न् कश्चित स्वप्ने परमार्थगन्धोऽस्तीति । नेत्युच्यते । सूचकश्च स्वप्नो भवति । भविष्यतोः साध्वसाधुनोः । तथा हि –‘यदा कर्मसु काम्येषु-------------’ ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति’ -------- तत्राऽपि सूच्यमानस्य भवतु सत्यत्वम् सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम्” इति ।

अत्र कार्त्स्न्येन अनभिव्यक्तस्वरुपत्वादिति स्वाप्नपदार्थानां सूक्ष्मत्वमभिदधता भगवता बादरायणेन अद्वैत्यभिमतं स्वाप्नार्थानां निः स्वरुपत्वं निपुणतरं निराकृतमिति श्रीमद्वादिराजतीर्थश्रीमच्चरणैः तत्त्वप्रकाशिकागुर्वर्थदीपिकायां निरुपितमनूद्य नवीनाद्वैतिनाम् अनन्तकृष्णशास्त्रिणां शङ्कापि पराकृता
श्रीमत्सत्यप्रमोदश्रीमच्चरणैः श्रीमन्न्यायसुधामण्डने ।
अध्येतृणां सौकर्याय तान्येव वाक्यानि उत्तरत्र उदाह्रियन्ते –‘ननु स्वाप्नानां पदार्थानां बाह्योपादानाजन्यत्वान्न सत्त्वं सम्भवति इति वाच्यम् । आन्तरमनोपादानकज्ञानादीनां बाह्योपादानाजन्यत्वेऽपि सत्त्वदर्शनाद् व्यभिचारः । अतिसूक्ष्मतरविलक्षणस्वाप्नतुरगादीनामपि स्वोचितातिसूक्ष्मतत्तत्संस्कारोपादानजन्यत्वमात्रेणापि सत्त्वसम्भवान्न काचिदनुपपत्तिः ’ इति ।

अत्राहुः वादिराजश्रीमच्चरणाः तत्त्वप्रकाशिकागुर्वर्थदीपिकायाम् –‘अत्राहुर्मायावादिनः मायामात्रपदेन स्वाप्नपदार्थानां मिथ्यात्वमेव सूत्रकृता प्रतिज्ञातमिति । तदतीव हास्यम् । ‘कार्त्स्न्येनानभिव्यक्तस्वरुपत्वात्’ इति हेतौ सस्वरुपत्वमनुपलम्भबाधपरिहाराय कार्त्स्न्येनानभिव्यक्तत्वापरपर्यायमतिसूक्ष्मत्वं च वदन् सूत्रकारस्तद्विरुध्दं निस्स्वरुपत्वरुपं मिथ्यात्वं कथं प्राकप्रतिजानीयात् । ‘सन्ध्येसृष्टिः’ इति प्राक् सृष्टिकथनात् उपरि सूचकश्चेति सत्त्वे युक्तिकथनाच्च न मध्ये मिथ्यात्वं सिषाधयिषितम् । न हि कश्चित् शुक्तौ रजतं पश्यतीतिवद्रजतं सृजतीति ब्रूते । यदि चाद्यसूत्रस्यैव विश्वतोमुखत्वादिपूर्वपक्षसूत्रता तर्हि सूत्रलक्षणाभावेन सूत्रत्वमेव न स्यात् । श्रुत्युपबृंहितसूत्रस्य पूर्वपक्षतायां श्रुत्युपोदबलितं भवदैक्यं च न सिध्दान्तः स्यात् । अपि चोक्तविधया मायामात्रमिति सूत्रे हेतुविरोधेन मिथ्यात्वे तात्पर्याभावे किं बलेन अस्य पूर्वपक्षता कल्पयेत् । अतो ब्राह्मणे वध्यावध्यविभागवत्सूत्रेषु नायं विभागः प्रेक्षावतां कर्तुमुचितः ’ इति ।

टिप्पणी[सम्पादयतु]

F.N. Page 2 1. ब्र.सू.शां.भा .P.451 Page 3 1. बृ.उ. शां.भा. स. P.879 2. श्री. भा.वा .P.96 Page 5 1. ब्र.सू.अनु. ३.२.३,P.421 Page-6 1. वि.वि.P.655 2. यु.म.P.125 ` Page-7 १. जीवयथार्थज्ञाननाशिका इत्यर्थः । २. श्रीमद्भा. 1.8.17-18 P. 102 Page -8 1.ब्र.सू.शां. भा .P.453 2. श्रीमन्न्याय . सु.म. P.268

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वेदान्ते_स्वप्नः&oldid=409724" इत्यस्माद् प्रतिप्राप्तम्