वैय्याकरणाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

वैय्याकरणाः व्याकरणशास्त्रज्ञाः भवन्ति। पाणिनिसदृशाः अनेके वैय्याकरणाः प्रसिद्धाः सन्ति।

महेश्वरः[सम्पादयतु]

महेश्वरो हि भवशर्वाद्यनेकाभिधानः सत्ययुगस्यान्तिमचरणे जातः । तस्य , हि माता सुरभिः पिता तु कश्यपः प्रजापतिः तस्य हि दश सहोदरभ्रातरः । तञ्च सङ्कलय्य एकादशरुद्रसंज्ञिताः । स हि ज्येष्ठतमः । तस्य स्थितिकालस्तु, विक्रमार्गादेकादशसहस्राब्दीपूर्वमभित इति केषाञ्चिन्मतम् । वयन्तु तमलक्ष्यजन्मानमेव मन्यामहे । स हि देवाधिदेव आद्यो मनुः । स हि आत्ममुवोऽपि कारणम् । लीलया धृतानेकविग्रहः स लीलार्थमेव निस्पृहोऽपि जगत्प्रवर्तयति । जगस्थितिहेतवे स शास्त्राणि प्रवर्तयति । तेषु व्याकरणमेकम् । स हि कालस्यैव स्रष्टा । यतः प्रवर्तते सर्वं यस्मिन् सर्वं प्रैलीयते इति सम्मतस्य तस्य परिचयस्तु को नाम प्रस्तोतुं समर्थःस्वयं शारदाऽपि तस्य महिम्नः पारं न याति किमुतान्ये । स हि सर्वस्य धाता माता पिता च तस्य पुनः को नाम पिता भवेत् । यः पितृणा“मपि पितृतमः स कश्यपज्जन्मलेभे इति तु वयं नैव विश्वसिमः । अथवा अपरा हि प्रभोर्लीला। सम्मवति स तथा जन्म गृहीत्वा लीलाञ्चकारेति।

माहेश्वरंव्याकरणस्य विषये तु सर्वत्र चर्चा दृश्यते तथैवेदमपि कथ्यते यह 'अइण् प्रभृतीनि चतुदशसूत्राणि माहेश्वराणीति । तथाच श्रूयते हि पाणिनिना महेश्वरादक्षरसमाम्नामधिगम्य कृत्स्नं व्याकरणं प्रोक्तमिति किन्तु . तस्य हि व्याकरणस्य कि स्वरूपमिति न कुत्रापि चर्चा दृश्यते समुपलब्धग्रन्थेषु । एतावदनुमीयते यन्माहेश्वरं व्याकरणं छान्दसलौकिकोभयप्रकृतिकमासीत् । किन्तु न तथा अन्तव्यं तथाप्रकृतिकं हि पाणिनीयव्याकरणं माहेश्वरव्याकरणस्य संक्षिप्तं रूपमिति । यद्यपि ‘औङ आपः ‘आङगेनाऽस्त्रियाम्' इत्यादिपाणिनीयसूत्राणि सूत्रान्तराण्यपि विशेषतः संज्ञासूत्राणि अपेक्षन्ते तथापि तथा चिन्तने न किमपि प्रबलं प्रमाणम् । वृद्धयादिसंज्ञानिमित्तं सम्भवतः पाणिनिमाहेश्वरव्याः । करणस्याधमर्णः स्यात् किन्तु न तस्यापि किञ्चिदपि समर्थक प्रमाणम् ।।

बृहस्पतिः[सम्पादयतु]

बृहस्पतिहि देवांनां पुरोहितः । स हि व्याकरणस्यापि प्रवक्त ति तु सर्वेषां सम्मतमेव । स हि ब्रह्मणो व्याकरणमधीत्य माहेश्वरं व्याकरणं सञ्चिक्षेपेति ''ब्रह्मा वृहस्पतये प्रोवाच' इति काव्यकारवचनात् तदर्द्धकुम्भोद्धरणं वृहस्पतौ' - इति सारस्वतकाव्यवचनाच्चानुमीयते । बार्हस्पत्ये हि व्याकरणे प्रकृतिप्रत्ययविभागस्तुं नाऽऽसीतंत्र केवलं प्रतिपदानामेव निरूपणमासीदित्यनुमीयते । १. वडस्पतेः स्थितिकालः विक्रमपूर्वदशसहस्राब्दीमभितो मतः किन्तु तथा चिन्तने को हेतुरित्यस्पष्टमेव । स हि महर्षोरङ्गिरसः पुत्रः इति स्मृतिः । बार्हस्पत्यं, व्याकरणस्य स्वरूपविषयेऽपि वयमकिञ्चिज्जा एवं । स हि दिव्यं वर्षसहस्रमिन्द्राय प्रतिपदोक्तानां शब्दानां पारायण प्रोवाचेति श्रुतिः।

इन्द्रः[सम्पादयतु]

इन्द्रो हि वस्तुतः प्रथमो वैयाकरणः तेन हि प्रथमं प्रकृतिप्रत्ययविभागेन शब्दा व्याकृता इति श्रुतिः । इन्दो हि कश्यपादतित्याञ्जात आसीदिति पुराणेषु प्रसिद्धम् । तस्य हि एकादशसङ्ख्यकाः सहोदरा भ्रातर आसन् येषु हि विष्णुखरज इति । अग्निषोमौ हि तस्य विमातृभ्रातरौ वायुश्च । तस्य हि स्थितिकालो विक्रमपूर्वपञ्चशताधिकनवसहस्रवर्षमभित आपततीति केषाञ्चिन्मत किन्तु तथामते को हेतुरिति नैव स्पष्टतया निर्दिष्टम् । स हि देवानामनुजोऽपि यज्ञबलात् । ज्ञानोत्कर्षेण च तेषां ज्येष्ठत्वं लेभे इति श्रुतिः । इन्द्रप्रोक्तस्य व्याकरणस्यापि स्वरूपमद्यापि नास्माभिज्ञतं किन्तु ऐन्द्रव्याकरणस्य द्वे सूत्र, युधिष्ठिरः महाभागः स्वीये व्याकरणेतिहासग्रन्थे समुद्धरति । तदनुसारेण ‘अथ वर्णसमूहः” इत्यस्य प्रथमं सूत्रम्, द्वितीयञ्च सूत्र’, ‘अर्थःपदम्' इति तयोः प्रथमं तु हरिश्चन्द्रस्य चरकव्याख्यायाः-‘शास्त्रेष्वपि अथ वर्णसमूह इति ‘ऐन्द्रव्याकरणस्य' इति वचनात्, द्वितोयञ्च निरुक्तस्य दुर्गाचार्यवृत्तेः 'नैक पदजातं, यथा ‘अर्थःपदम् इत्यैन्द्राणाम्” इति वचनात् ।।

वायुः[सम्पादयतु]

वायुरप्यपरो वैयाकरणो मतः । ऐन्द्रव्याकरणस्य तस्यापि, योगदानमासी.. | दिति तैत्तिरीयसंहितातो ज्ञायते । तत्रोक्तम्-

‘वाग्वै पराच्यव्याकृतावदत्, ते देवा अनुवन् इमां नो वाचं व्याकुर्विति सोऽब्रवीद्वरं वृणै मह्यं चैव वायवे च सह गृह्याता इति ।[१]

इन्द्रो हि मरुत्सखः । न केवलमेन्द्रव्याकरणादेववायवैयाकरण वायव्यव्याकरणस्याऽपि चर्चा श्रूयते । स हि ब्रह्मणो ज्ञानं लब्धवानिति । प्रसिद्धः । वायुश्च कश्यपस्य पुत्रो दित्याञ्जति इन्द्रसम्मतः । तस्य च स्थि विक्रमान्नवमसहस्राब्दीपूर्व अनुमितः ।।

भरद्वाजः[सम्पादयतु]

भरद्वाजो हि इन्द्रशिष्यः । स हि इन्द्राव सर्वमपि व्याकरणतन्त्रम । ' अधीतञ्च सर्वं स ऋषिम्य उक्तवान् । भरद्वाजो हि, आयुर्वेदस्याऽपि । वृहस्पतिसुतो भारद्वाजो हि सम्राजो भरतस्य समकालिक आसीदिति तस्य स्थितिकालो विक्रमार्कात् त्रिशताधिकनवसहस्राब्दीमितोऽनुमितः किन्तु न हि - तंत्र स्पष्टं प्रमाणम् । स हि महाभारतयुद्धावसराञ्चतुः शतमितवर्षाणि यावज्जीवित आसीत् । तेनं हि राजशास्त्रमपि प्रोक्तमित्युच्यते । व्याकणेऽपि विशेषेण आख्यातमेव भरद्वाजकं, मतम् । प्रयागे हि तस्यावस्थितिरुच्यते । स हि काशिपतेः पुरोहितः पुराणादीनामपि प्रवक्ता स्मृतः ।

भागुरिः[सम्पादयतु]

पाणिनिना हि विस्मृतो वोपेक्षितोपि भागुरिर्वैयाकरण आसीदिति प्रमाणान्तरैज्ञयते । यथोक्त -

वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।

आपञ्चैव हलन्तानां यथा वाचा निशा दिशां ।।

इंति बृहृद्गर्गस्य शिष्यः स वायुपुराणेऽपि स्मृतः ।[२] स हि विक्रमपूर्व चतुर्थसहस्राब्दीमभितः स्थितिमानित्युच्यते । तस्य हि व्याकरणशून्यस्तुः सम्प्रति नैवोपलभ्यते किन्तु तत्र तत्र ग्रन्थान्तरेषु तस्योल्लेखस्त बाहुल्येनं लभ्यते । तादृशानि कानिचिदुद्धरणान्यत्रोध्रियन्ते -

नप्तेति भागुरिः पाणिनिमते तु नप्त्री' एव ।[३]

मुण्डादेस्तत्करोत्यर्थे गृह्णात्यर्थे कृतादितः ।।

वक्तीत्यर्थे च सत्यादेरङ्गादेस्तान्निरस्यति । इति भागुरिस्कृतेः

तुस्ताद्विद्यते संहवदे वस्त्रात्पुच्छादितस्तथा ।

उत्प्रेक्षादौ कर्मणो णिस्तदव्ययंपूर्वतः ।

वीणात उपगानें स्याद्, हस्तितोऽतिक्तमें तथा।

सेनाश्चाभियाने णिः श्लोकादेरप्युपस्तुतौ ।

गुपूधूपविच्छिपणि पनेरायः कर्मस्तु णुिङ ।

ऋतेरियङ् चतुर्तेषु नित्यं स्वार्थे पंरत्र वा ॥

गुणो वधेश्च निन्दायां क्षमाया तथा तिजः ।।

अतीकाराद्यर्थकाच कितः स्वार्थे सनो विधिः ।

अपादानसम्प्रदानकरणाधारकर्मणाम् ।।

कर्तश्चान्योन्य सन्देहे परमेकं प्रवर्तते । । इति भागुरिस्मृतेः (शब्दशक्तिप्रकाशिकायामुद्धृताः)

तथैव-

हन्तेः कर्मण्युपष्टम्भात् प्राप्तुमर्थे तुसप्तमीम् ।

चतुर्थी बाधिकामाहुश्चुणभागुरिवाग्भटाः।

ष्टिवसिव्योल्यु परयोर्दीर्धत्वं वष्टि भागुरिः ।।

करोतेः कतृ भावे च सौनागाः प्रचक्षते ।

व्याकरणातिरिक्तमपि भागुरिनामा सामयजुषोः, प्रवचनमपि प्रसिद्धम् । तस्य ब्राह्मणग्रन्थः, कोषः, अलङ्कारशास्त्रं साङ्ख्यदर्शनभाष्यं देवताग्रन्थश्च प्रसिद्धाः । तस्य हि नीतिश्लोका अपि स्मर्यते । तस्य हि अलङ्कारशास्त्रविषयक मतं यत्र कुत्र समुद्धृतं दृश्यते । यथा च सोमेश्वरः साहित्यकल्पद्रुमे-

भांगुरिस्तु प्रथमं निर्दिष्टान प्रश्नपूर्वकाणामर्थान्तरविषये निषेधोऽप्यनुनिदिष्टश्चेत्सोऽपि यथासङ्ख्यालंकार इति ।।

तथैवाभिनवो गुप्तो लोचने -

तथा च भागुरिरपि कि रसनामपि स्थायिसञ्चारिताऽस्तीत्याक्षिप्य अभ्युपगमे नैवोत्तरमवोचद् वाढमस्तीति । । | तस्य च कोषविषये पुरुषोत्तमदेवो भाषावृत्तौ -

शिवतातिः शन्तातिः अरिष्टतातिः अभी शब्दाश्छन्दसा अपि कुदाचिद्भाषायां प्रयुज्यन्त इति त्रिकाण्डे भागुरिनिबन्धनाद्वोदव्युत्पन्नसंज्ञाशब्दंत्वाद्वी सर्वथा भाषायां साधु।[४] इत्थं व्याकरण-कोषालंकारशास्त्राद्यनेकविषयाणां प्रवक्ता भागुरिः पाणिनीतरविचक्षणैर्बहुशः स्मर्यते । स हि भगुराख्यस्य. कस्यचित्पुत्रो मतेः किन्तुः । तथामते न किमपि स्पष्टं प्रमाणम् ।

पौष्करसादिः[सम्पादयतु]

पौष्करसादिरपि तैत्तिरीयमैत्रायणीयादिप्रातिशाख्येषु महाभाष्ये[५] च वैयाकरणत्वेन स्मृतः । ‘इन्द्रचन्द्रापिशलिय॑मावपौंष्करैः' इत्युक्त्वा वैयाकरणत्वेन स्मृतः पौष्करसादिः पुष्करसतः पुत्र इति । पुष्करसच्छब्दाद् बाह्लादित्वादि अनुशर्तिकादीनाञ्च इत्युमयपदवृद्धिः ।। पुष्करें सीदतीति पुष्करसत् तस्यापत्यं. पौष्करसादिः । पौष्कुरसादिता कृष्ण-यजुर्वेदस्यैका शाखाऽपि प्रोक्ता इति तस्य विकमार्कातृतीयसहस्राब्दीपूर्वमेव स्थितिकाल इत्यनुमीयते । पुष्करसादिनाम्नैकं वातकं . पाणिनीयव्याकरणपरिशिष्टात्मकवातकाचे पठितमस्ति । तच्च यथा--

‘चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्' ।[६] इति पौष्करसादिमतेन शर्परे चयो द्वितीयाभवति । चय इति चटतकपानाम् ।

चारायणः[सम्पादयतु]

चारायणोऽपि पाणिनिपूर्ववतवैयाकरणत्वेन स्मृतः । तस्य हि ‘पुरु, कृतेच्छछुयोः' इति सूत्रमेकं देवपालेन लौगाक्षिगृह्यसूत्रव्याख्यायां स्मृतम् । पुरुशव्दः कृतशब्दश्च लुप्येते यथासङ्ख्यं छे छु च परतः । यथा पुरुच्छदनं | पुच्छे कृतस्य छुदनं कृच्छमिति । महाभाष्येऽपि कम्बलचारायणीयाः ओदन पाणिनीयाः घृतरौढीयाः इति स्मृतम् ।[७] स हि चरस्य अपत्यमिति - नडादिगणपठितत्वाच्चारायण इति । स हि कौटिल्येनापि ‘तृणमतिदीर्घमिति चारा... यणः' इति स्मृतोऽस्ति । स हि कृष्णयजुर्वेदस्य चारायणशाखाया अपि प्रवक्ता । तस्य हि चारायणीयशिक्षा सम्प्रति लभ्यते । तस्य चालंकारसम्बन्धिवचनं- सागरनन्दी स्मरति । आह चारायणः-‘प्रकरणनाटकयोविष्कम्भः इतिइति कथनेन संहिताप्रवर्तकत्वात्तस्य हि स्थितिकालो विक्रमपूर्वत्रिसहस्राब्दीमभितः अनुमितः ।

काशकृत्स्नः[सम्पादयतु]

काशकृत्स्नः पाणिन्यनुल्लिखितोऽपि महावैयाकरण आसीत् । ऐन्द्रसम्प्रदायानुयायित्वेन प्रसिद्धं . काशकृत्स्नव्याकरणमौदीच्यसंस्कृतसम्बद्धम्। सर्वोऽपि पार्वत्यभाषापरिर्वारः काशकृत्स्नधातुपाठेन सह , संवदते । तत्रापि नेपालीयभाषा तु प्रत्यक्षमेव काशकृत्स्नव्याकरणानुपायिनी । काशकृत्स्नं । 'हि वादरायणः स्मरति ब्रह्मसूत्र ‘अवस्थितेरिति काशकृत्स्नः' इति कथनेन। महाभाष्ये ऽपि पाणिनीयेन सह काश कृत्स्नशब्दानुशासनमपि स्मर्यते । प्रदीपे वाक्यपदीये काशिकावृत्तौ च बहुत्र स स्मर्यते । काशिकायां[८] ‘त्रिके काशकृत्स्नम्' इत्युक्तम् । पुनश्च तत्रैव[९] काशकृत्स्नं गुरुलाधवम् इत्यपि स्मृतम् । क्षीरस्वामी हि काशकृत्स्नस्य विशिष्टं मतमुद्धरति पदानुसारं श्वसधातोनिष्ठायामिष्निषेधो भवति । तेन आश्वस्तविश्वस्तशब्दौ सिध्यतः ।। कैयटो हि प्रदीपे[१०] शताच्च ठन् यतावग्रन्थे ‘इति काशकृत्स्नीयं सूत्र स्मरति । हेलाराजश्च वाक्यपदीयटीकायां काशकृत्स्नसम्प्रदाये ‘तदर्हम्' इति सूत्रस्याभावं निर्दिशति । भर्तृहरिश्च स्वोपज्ञवृत्तौ वाक्यपदीयस्य' 'धातुः साधने दिशि लिङ्ग किमिति--इति सूत्रद्वयं स्मरति तत्र विबृतिकारो बृषभदेवः काशकृत्स्नीयं मन्यते ।

काशकृत्स्नं हि व्याकरणं सरप्रति समग्रं तु नैवोपलभ्यते किन्तु चन्नवीरकविसम्पादितः काशकृत्स्नधातुपाठः १३५ संख्याकैः सूत्रैः सह युधिष्ठिरमीमांसकेन संस्कृतेऽनूद्य प्रकाशितोऽस्ति । तेन सम्प्रति काशकृत्स्नस्य त्रयो ग्रन्थी लभ्यन्ते काशकृत्स्नेतन्त्रं, काशकृत्स्नधातुपाठः मीमांसाशास्त्रञ्च । | काशकृत्स्नतन्त्रे हि १४२ सूत्राणि उपलभ्यन्ते सम्प्रति । तत्र भर्तृहरिढ़ें सूत्रे कैयटोऽपि द्वे एव तथैव क्षीरस्वामी, एवञ्च चन्नवीरः १३५ सूत्राणि स्मरन्ति ।

काशकृत्स्नधातुपाठो हि पाणिनीयधातुपाठतो बहुधा भिद्यते । अत्र हि जुहोत्यादिगणीयधातून् अदादिगणीयेष्वन्तर्भाव्य नवैवे गणाः पठिताः । अत्र हि पाणिनीयधातुपाठापेक्षया अष्टशतं धातवोऽधिकाः पाणिनीयधातुपाठस्थाः ३५० धातवोऽत्र नैव संगृहीताः । तेन हि काशकृत्स्नीये पाणिनीयापेक्षया सार्धचतुश्शतं - धातवोऽधिकाः । लोके वेदेऽपि प्रख्याताः किन्तु पाणिनीयधातुपाठे समुपेक्षिता धातवोऽप्यत्र समाविष्टाः सन्ति । ते हि पार्वत्य देशभाषा धातुभिः सह नितान्तं संवदन्ते इति । | काशकृत्स्नो हि भृगुवंशीयः कशकृत्स्नपुत्रः। कशाभिः कृन्तन्ति इति कशकृत्स्नः । स हि वादरायणस्य पूर्ववर्ती ब्रह्मसूत्र तन्मतस्योल्लेखात् । तस्य हि पूर्वकाशकृत्स्नोऽपरकाशकृत्स्नश्च द्वौ भेदौ । स हि वमोविभाषा मित्वमिच्छतीति तस्यौदीच्यत्वं सिध्यति । पाणिनीयगणपाठे उपकादिगणे[११] कृशकृत्स्नस्य अरोहणादिगणे[१२] काशकृत्स्नशब्दस्य पाठादयं पाणिनिपूर्ववर्तीति सिध्यते । स हि न केवलं पाणिनेरपितु आपिशलेरपि पूर्ववर्ती ।' तेन काशकृत्स्नो हि विक्रमपूर्वतृतीयसहस्राब्दीभव इत्यनुमीयते । कथ्यते हि कातन्त्रं हि व्याकरणं काशकृत्स्नस्यैव संक्षिप्तं रूपमिति किन्तु तथ्यतस्तुं न शक्यते निर्णेतुम् ।

वैयाघ्रपद्यः[सम्पादयतु]

‘गुणं त्विगन्ते नपुंसके, व्याघ्रपदां वरिष्ठः' इति । काशिकायां[१३] स्मृतो. वैयाघ्रपद्यः वसिष्ठस्य व्याघ्रयोन्यां जातस्य व्याघ्रपदस्य पुत्रः । स हि शतपथब्राह्मणे[१४] जैमिनिब्राह्मणे[१५] च स्मृतस्तथैव शाख्यायनारण्यके[१६] च । स हि पराशर। समकालिक इति । तस्य स्थितिकालो विक्रमपूर्वचतुस्सहस्राब्दी. सम्भवति । ऑष्किकी शुष्कजङ्घा च' इति वैयाघ्रपद्यकारिका काशिकायां[१७] उद्धृता । कांशिकायमेव ‘दशका वैयाघ्रपदीयाः'[१८] ‘दशकं वैयाघ्रपदीयं[१९] इतिवचनाद् वैयाघ्रपद्यस्य व्याकरणं दशाध्यायेषु विभक्तमासीत् । तथैव काशिकायामेव[२०] -

सम्बोधने तूशनसत्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।

माध्यन्दिनिर्वष्टि गुणंत्विगन्ते नपुसकेव्याघ्रपदां वरिष्ठः ।।

इगन्ते नपुंसके व्याघ्रपदां वरिष्ठो वैयाघ्रपद्यः गुणमिच्छति यथा हे त्रपोः इति । इतोऽधिकमेतद्विषये न वयं जानीमः ।

माध्यन्दिनिः[सम्पादयतु]

माध्यन्दिनिश्चापरः पाणिनिपूर्ववर्ती वैयाकरणः स हि मध्यन्दिनाख्यपुत्रः बाह्वादिभ्यच[२१] इति अणं । बाधित्वा इनः ।' मध्यन्दिनो - हि याज्ञवल्क्यस्य साक्षांच्छिष्यः । शुक्लयजुर्वेदमाध्यन्दिनीयशास्त्रायः प्रवक्ता। तस्य पुत्रों माध्यन्दिनिन्यूनमपि विक्रमपूर्वतृतीयसहस्राब्दीतोऽपि प्रागेव स्थितिमान्। माध्यन्दिनिहवैयाकरण आसीदिति तु, काशिकाया समुद्धृतात् ।[२२]

'सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् ।

माध्यन्दिनिर्वष्टि:::::::::::::::::::।

इति वचनात् तथा च रूपमालायां प्रक्रियाकौमुदीभूमिकायाञ्च समुद्धृतात् । ‘इक’ षष्ठेऽपि सम्बुद्धौ गुणो माध्यन्दिनेर्मते

इति वचनाच्च ज्ञायते । इतोऽधिकं तद्वयाकरणविषये न वयं किमपि विद्मः ।, तस्य हि माध्यन्दिनी शिक्षा सम्प्रति मुद्रिता लभ्यते । ।

रौढिः[सम्पादयतु]

विक्रमपूर्वतृतीयसहस्राब्दीमभितः स्थितिमतो रौढेरपि व्याकरणकर्तृत्व तु काशिकादिकृतसमुद्धरणतो ज्ञायते किन्तु तत्प्रणीतग्रन्थस्तु सम्प्रति नैव लभ्यते । महाभाष्ये[२३] समुद्धृतात् ।। ‘सिद्धन्तु रौढयादिषुपसङख्यानात् सिद्धमेतत्, कथं ? रौढयादिषुपससङ्ख्यानात् । रौहयःदिषुपसङ्ख्यानं कर्तव्यम् । के पुत्रा रौढ्यादयः ? ये क्रोड्यादय:। इत्यादिवचनात् रौढिव्याकरणस्यावस्थितिज्ञेयते । पुनश्च महाभाष्ये[२४] घृतरौढीयाः इत्युदाहृतम् । काशिकायां तस्य हि घृतप्रधानो रौढिस्तस्य छात्रा इति व्युत्पत्तिःकृता ।

शौनकिः[सम्पादयतु]

शौनकिरप्यन्यतमो वैयाकरण आसीत् किन्तु तस्यापि व्याकरणं तुः सम्प्रति नैवोपलभ्यते । तस्य हि : व्याकरणस्यास्तित्वं ग्रन्थान्तरोद्धरणतः एव ज्ञायते । यथा च चिकित्सास्थानव्याख्यां[२५] जज्झट उल्लिखति - 'कारणशब्दस्तु व्युत्पादितः' -

'करोतेरपि कर्तृत्वे दीर्घत्वं शास्ति शौनकिः ।।

भट्टिकाव्यस्य जयमङ्गलाटीकायां[२६] स्मृतं -

‘धाकृञोस्त निनह्योश्च बहुलत्वेन शौनकिः ।

अवाप्योरुपसर्गयोरल्लोपं विकल्पेन वाञ्छतीति ।

अयञ्च ऋक्प्रातिशाख्यकर्तुः शौनकस्य पुत्र इत्यस्य स्थितिकालोऽपि । विक्रमपूर्व तृतीयसहस्राब्दीममितो मतः । एतदतिरिक्त शौनिकविषये नास्माकं । किमपि विदितमस्ति ।

गौतमः[सम्पादयतु]

गौतमोऽपि व्याकरणप्रवक्ता मतो यद्यपि ; व्याकरणग्रन्थः सम्प्रति नैवोपलभ्यते । महाभाष्यस्य[२७]आपिशलपाणिनीयव्याडीयगौतमीयाः इति वचनादपि गौतमस्य व्याकरणकर्तृत्वमनुमातुं शक्यते । तथैव तैत्तिरीयप्रातिशाख्यस्य -

‘प्रथमपूर्वो हकारश्चतुर्थस्तस्य सस्यानं प्लाक्षिकौडिन्यगौतमपौष्करसादिनां' इति वचनात्, मैत्रायण प्रातिशाख्ये[२८] तस्य मतस्योल्लेखाच्च 'गौतमो हि वैयाकरणः इति सिध्यति । तस्य हि स्थितिः शौनक्यादिसमकालिकेत्यनुमानम् । एतदधिकं नास्माकं किमपि ज्ञातं तद्विषये ।

व्याडिः[सम्पादयतु]

व्याडिः बहुर्चाचतो वैयाकरणः कोशकारश्च । तस्यापि व्याकरणग्रंथस्तु नैवोपलभ्यते किन्तु स वैयाकरणत्वेन बहुधा स्मृतोऽस्ति शौनको हि ऋक्प्रातिशाख्ये[२९] व्याडेर्मतान्युद्धरति । भाषावृत्तौ[३०] पुरुषोत्तमो गालवेन सह व्याडिमपि स्मरति’ ‘इको यण्भिर्व्यवधानं ' व्याडिगालवयोरितिवक्तव्यं' इतिवचनेन । यथा त्रियम्बकः त्र्यम्बकः । तत्र शब्दानुशासनकर्तारं गालवं तु पाणिनिः ‘इको ह्रस्वांऽङयो गालवस्य’ ‘तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य, 'अङ्गायँगालवयोः' 'नोदात्तस्वरितोदयमगार्यकाश्यपगालवानां' इति स्मरति किन्तु व्याडि नैव । महाभाष्ये आपिशलपाणिनीयव्याडीयगौतमीयाः । इति[३१] इति कथितमस्ति । व्याडिदाक्षायण-दाक्षिप्रभृतिनामभिरपि स्मृतमस्ति । तस्य स्वसा दाक्षी यस्या गर्भजः पाणिनिः । व्याडिह पुण्यराजो नागेशश्च बहुवारं स्मरति सङ्ग्रहकाररूपेण । बालचरितमहाकाव्ये, अमरकोषटीका, परिभाषापाठः व्याडीयपरिभाषावृत्तिः लिङ्गानुशासनविकृतिवल्ली कोषग्रंथचास्य कृतित्वेन सम्मताः । केचिद्व्याङि-पाणिनीयाष्टाध्याय्याः प्रथमवृत्तिकारमपि मन्यन्ते, वयमपि तदनुभोदामहे स्वान्तः करणसाक्ष्येण ।

एतदतिरिक्ता अपि मान्या वैयाकरणा । आसन्नेव दाक्षिकौडिन्यप्रतय किन्तु तेषां विषये वयं स्वल्पमपि न जानीमहे ' इति नैवौद्यमः कृतस्तेषामनुसूचनाय । केवलं तेभ्यो नमः शब्दपारायणपारङ्गतेभ्यः । इत्थं महेश्वरादरम्य व्याडिपर्यंयन्ताः पाणिनिपूर्ववतिनो वैयाकरणाः । यथामति सङ्क्षेपेणानुसूचिताः । तेषां विषये यथाऽधीतं यथाश्रुतं वा यथाऽनुः भितं तदेवोपस्थापितम् प्रकरणेऽस्मिन् यो हि स्थितिकालो निर्दिष्टः स सर्व एव । युधिष्ठिरमीमांसकमतावलम्बको नास्माकं तत्र सम्मतिविमती । आगामिप्रकरणे पाणिनीयाष्टाध्याय्यामुल्लिखितानामाचयाणां विषये किचिदुच्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ६।४।७
  2. ३४।६२
  3. भाषावृत्तौ ४।१।१०
  4. ४।४।१४३
  5. ८/४/४८
  6. ८।४।४८
  7. १।१।७३
  8. ५॥१॥५८
  9. ४।३।११५
  10. ५।१।२१
  11. २॥३॥६९
  12. ४।२।८०
  13. ७॥१॥९४
  14. १०।६।१।७-८
  15. ३/७४।१
  16. ९/७
  17. ८/२/१
  18. ४।२।६५
  19. ५५॥१॥५८
  20. ७/१९४
  21. ४।१।९६
  22. ७॥१॥४
  23. ४।१।७९
  24. ११।७३
  25. २।२७
  26. ३।४७
  27. ६।२।३६
  28. ५॥४०
  29. ६॥२३, ६॥२८, ६।४३, १३।३१, १३।३७
  30. ६।१।७७
  31. ६।२।३६
"https://sa.wikipedia.org/w/index.php?title=वैय्याकरणाः&oldid=443617" इत्यस्माद् पुनः प्राप्तिः