वैश्वीकरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जगति अनेकेषां देशानां सामाजिक-आर्थिक-राजनैतिकक्षेत्रेषु एकः अपरदेशैः सह निकटता-एकीकरणं च वैश्वीकरणम् अथवा भूमण्डलीकरणम् इति कथ्यते । कोऽपि वस्तु, सेवा, विचारः, पद्धतिः अथवा सिद्धान्तं विश्वव्यापीकरणमेव तेषां वस्तु, सेवा, विचारः, पद्धतिः अथवा सिद्धान्तानां वैश्वीकरणं कथ्यते। प्रत्येकदेशस्य अन्यदेशेन सह वस्तु, सेवा, सञ्चितधनं, बौद्धिक-सम्प्रदायाः अप्रतिबन्धित-आदान-प्रदानमेव वैश्वीकरणं वर्तते।

वैश्वीकरणस्य स्वरूपम्[सम्पादयतु]

भूमण्डलीकृतविश्वस्य निर्मिता-प्रक्रिया व्यापारक्षेत्रे श्रम-अन्वेषणार्थ विदेशगमने, आर्थिक-मूल्यांकने, शिक्षाक्षेत्रे, अन्यान्यवस्तूनाम् आयात-निर्यातक्षेत्रे क्रियमाणं कार्यम् एव भूमण्डलीकरणम् । वैश्वीकरणस्य स्थापना जुलाई-१९४४तमे वर्षे अभूत्। औद्योगिकविकासः, सूचनाक्रान्तिः (साइवरविश्व)मानवस्य अभूतपूर्वा उपलब्धिः वर्तते। यत्र सूचनाक्रान्तिः इत्यस्य विकासेन अधुना सम्पूर्णविश्वम् एकं वैश्विकग्रामरूपं दृश्यते । सूचनायाः अत्यधिकसंकलनं तस्य देशस्य ज्ञानं-शक्तिसम्पन्नतां च उद्बोधयति। आधुनिक-सूचनाक्रान्ते: सूत्रपातः प्रसिद्धः वैज्ञानिकः आर्थर सी, क्लार्कस्य “संचार-उपग्रहः इत्यस्य कल्पनायाः स्वरूपम् अस्ति। अनया भावनया विश्वसमाजस्य सर्वे जनाः सर्वेषां कृते भ्रातरः इव प्रतिभान्ति। अत एव समाजे सर्वत्र भ्रातृभावः मैत्रीभावश्च समुदेति। यथा श्रुतिः

मित्रस्य त्वा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम्।
मित्रस्याह चक्षुषा सर्वाणि भूतानि समीक्षे॥
मित्रस्य चक्षुषा समीक्षामहे। (वेदे)

प्राचीनकालादेव भारतीयाः जनाः विश्वसद्भावस्य पक्षपातिनः सन्ति। अत एव सर्वेषु भूतेषु एकमेव परमात्मतत्त्वमभिलक्ष्य सर्वेषां कल्याणाय कार्याणि कर्त्तव्यानि। सद्भावेनानेन जनेषु विश्व-एकतायाः भावना समुदेति।

वैश्वीकरणस्य प्राचीनेतिहासः[सम्पादयतु]

प्राचीनकालादेव वणिजः, विद्वांसः, अर्चकाः-तीर्थयात्रिणः ज्ञान-धन-अध्यात्मिकशान्ति-मनःशान्तिहेतवे देश-विदेशभ्रमणं कुर्वन्ति स्म। स्व-यात्रायां ते जनाः विभिन्नवस्तु-मुद्रा-सभ्यता-संस्कृति-विचार-आविष्कार-कार्यक्षमता-कीटाणु-रोगादयः अपि सहैव नीत्वा परिभ्रमन्ति स्म। ईसायाः 3000 पूर्वे समुद्रतटे व्यावसायिकमाध्यमेन सिंधुघाटीसभ्यता विकसितो जातः। येन कारणेन तत् क्षेत्रं वयमद्य "पश्चिमी एशिया इति नाम्ना जानीमः। यथा-

१.रेशम-मार्ग (silkRoot)-वाणिज्यिक-सांस्कृतिक-सम्पर्केपु चीनी रेशम (सिल्क), पूर्वी-भारते उत्पन्न: बौद्ध-सिल्क इत्याख्यः भारतदक्षिणपूर्व-एशियायाः वस्त्र-मसाला-स्वर्ण-रजत-इत्यादयः आदान-प्रदानस्य साधनानि भवन्ति स्म। इदं व्यापारकार्य जल-स्थलमार्गाभ्यां सम्पूर्ण-एशिया'. यूरोप-उत्तरी-अफ्रीका देशान् योजयति स्म।
२.खाद्य-पदार्थस्य आदान-प्रदानम्-अन्नफलशाक-आलू इत्यादयः खाद्य-सामग्री-अन्वेषणे, बीजादिक-आदान-प्रदाने च क्रियेते स्म।
३.विजयः, रोगः, व्यापारश्च प्रचलनम्।
४.अष्टादश ईसवीये भारत-चीन-विश्वव्यापारस्य क्रन्दः अभूत्।
५.अन्तराष्ट्रीय-विश्व-आर्थिक-व्यवस्थायाः उद्भेषु-(क)व्यापारस्य प्रवाहः, (ख)श्रमस्य प्रवाहः, (ग)धनस्य प्रवाहः मुख्यो भवन्ति स्म।
६.विश्व-अर्थ-व्यवस्थायाः निर्माणे आधुनिक-रेलवे, भापजहाज:, टेलीग्राफ इत्यादयः तकनीकीसाधनानां विकास:,
७.भारतात् अनुबन्धित-श्रमिकाणां गंमनम्,
८.भारतीय-व्यापारः, उपनिवेशवादः वैश्विकव्यवस्था च।
९. अनौपनिवेशीकरण-स्वतंत्रता च विकासार्थं अन्तर्राष्ट्रीय-आर्थिक-प्रणाली (New International Economic order (NIEO) &R Ross'TT, ERTRA:

सम्प्रति वैश्वीकरणस्य स्थितिः[सम्पादयतु]

वैश्वीकरणम् एका सततप्रक्रिया वर्तते, यस्या आरम्भः 1990-91ईसवीये सोवियतसंघस्य विघटनपूर्वकं च जर्मनीदेशस्य एकीकरणेन अभूत् । वैश्वीकरणस्य,अभिप्रायः एकदेशस्य अन्यदेशैः सह एतत् प्रकारक एकीकृतकरणरूपम् अस्ति यत्-वस्तु-सेवाकार्य-श्रम-धन-तकनीकीज्ञान-विचार-संस्कृतिः सम्बन्धादयः अवरोधेन विना जनाः कस्यापि देशस्य आभ्यन्तरगमनं बहि:गमनं च कर्तुं शक्नुवन्ति। जनवरी-मासस्य 1995 ईसवीये अस्तित्वे आगतं ‘विश्वव्यापारसंगठनम्' सर्वाधिकगतिं प्रददाति। अत्र यदि आर्थिक-आयामस्य वार्ता स्यात् तर्हि वैश्वीकरणस्यार्थः भवति-‘विश्वस्य व्यवस्थायाः अन्तर्राष्ट्रीयकरणम् एषा समन्वित-प्रक्रिया सर्वेर्षा राष्ट्रण आर्थिक-सामाजिक-सांस्कृतिकएकीकरणे सहयोगं करोति। 2007-08 वर्षे अमेरिकादि-देशेषु वैश्वीकमन्दतायाः उत्पत्तिकारणात् भारते मुम्बई-स्टॉक-एक्सचेंजस्य संवेदी-सूचकांकः-22,000 तः पतित्वा 9,000 आगता। विकसितदेशाः संरक्षणवादिनीतिमारभन्त। अन्तर्राष्ट्रीयमुद्राकोषः विश्वबैंकश्च । विकासशीलदेशान् परिश्रमपूर्वकं तत् शोधनाय आत्मसात्-करणाय वैश्वीकरणं प्रोत्साहयन्ति, एवं च सार्वभौमिकहितकरयोजनानिर्माणस्य आवश्यकता अन्वभूयत।

वैश्वीकरणस्य उद्देश्यानि उपादेयत्वं च[सम्पादयतु]

विश्वशान्तिः एवं विश्व-एकतायाः प्रतीकः पण्डित जवाहरलालनेहरुमहोदयस्य ‘पञ्चशीलसिद्धान्तः' गुटनिरपेक्ष-धर्मनिरपेक्षयोः समर्थको वर्तते। राष्ट्रवाद: एक तथ्यं वर्तते। राष्ट्रवादस्याग्रेऽपि क्षेत्रीयसहयोगभावना बलवती भवति। या भावना विभिन्न-अन्तर्राष्ट्रीय-सङ्घटनानां संस्थानां च निर्माणे हेतुतां जायते। यथा-1.संयुक्तराष्ट्रसंघ:(सार्क),2.अपेकः,3.ओईसीडी,4.आई.एम.एफ, 5.आई.बी.आर.डी, { 6.डब्ल्यू.टी.ओ, आसियानादिपदवाच्योः। एतेषां संस्थानां उद्देश्यम् इत्थं वर्तते-1.आर्थिकउदारीकरणस्य प्रोत्साहनम्।। 2. प्रत्यक्षविदेशिनिवेशः। 3.वैश्विक-अर्थव्यवस्थायां विशेष- { आर्थिक-क्षेत्रस्य चयनम्।। 4. कृषकाणामेर्थिक-उदारीकरणस्य आवश्यकता। 5.नाभिकीय- { अप्रसारणम्।। 5.नागरिक-परमाणु-अप्रसारणम्। 6.राष्ट्रवादवैश्वीकरणयोर्मध्ये मेलनं समन्वयं . च। 7.स्व-आन्तरिक-आर्थिक-राजनीतिक-सांस्कृतिक-शक्तीनां संबद्धम्। वैश्वीकरणस्य { सार्थकता च, स्व-आन्तरिकसम्पन्नतायाः द्योतिका विद्यते। आन्तरिक-क्षमताभावे वैश्वीकरणस्य अभिप्रायो भवति बाह्य-शक्तीनां समक्षे आत्मसमर्पणम्। एतदर्थं आन्तरिकक्षमतायाः सुदृढीकरणेन भूमण्डलीकरणस्य भावना बलवती भविष्यति।

दृश्यमानं सर्वमिदं जगत् तस्यैव ब्रह्मणः विवर्तभूतमिति युक्तं तत्वज्ञैः दार्शनिकैः यथोक्तम्-सर्वं खल्विदं ब्रह्म, नेह नानास्ति किञ्चन, जीवो ब्रह्मैव नापरः, अमृतस्य पुत्रा वयम् इति। एवं सर्वस्मिन्नपि जगति चैतन्यमेकमेव ब्रह्म व्याप्तमस्ति। सर्वेषामात्मा स एव विद्यते। अत एव एकत्वस्य विश्वबन्धुत्वस्य च भावना निश्चप्रचं निश्चयेन समुदेति। :एकमेव सद्विप्रा बहुधा वदन्ति इत्यनया भावनया सर्वत्र मैत्री समुदेति ततस्तितिक्षा प्रादुर्भवति दयाभावश्च विलसति। यथोक्तं योगवाशिष्ठे

एकत्वे विद्यमानस्य सर्वगस्य किलात्मनः।
अयं बन्धुः परश्चायमित्यसौ कलना कुतः॥ (योगवाशिष्ट) अनया भावनया उदारतागुणो विकसितः भवति येन विश्वबन्धुत्वस्य भावना समुत्पद्यते। यथोक्तं व्यासेन महाभारते- - -
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानान्तु वसुधैव कुटुम्बकम्॥ - (महाभारत)

अन्तर्राष्ट्रियव्यापारिक एवं वित्तीयसंस्थानद्वारा निर्देशकसिद्धान्तानि[सम्पादयतु]

१.राजकीय-अनुशासनम्,
२.शिक्षा-स्वास्थ्यः तथा बुनियादी क्षेत्रेषु आर्थिकनिवेशाय सरकारीव्यये अभिवृद्धिः,
३.करस्य आधारं विस्तृतकरणम् एवं सीमान्तकरस्य नियंत्रणेन सह.प्रणालीषु सुधारः,
४.आपण-शक्तिद्वारा व्याजदरस्य निर्धारणम्,
५.प्रतिस्पर्धात्मकविनिमयदरस्य निर्धारणम्,
६.न्यूनमेवं एकरूपसीमाशुल्कनिर्धारणम्,
७.प्रत्यक्षविदेशीनिवेशाय संवर्द्धनम्,
८.राजकीयक्षेत्रीयप्रतिष्ठानस्य चनिजीकरणम्,
९.विनिमयनस्य प्रक्रिया स्वीकृत्य व्यापार-निवेश-प्रतिस्पद्धयाः बाधकतत्त्वस्य संरक्षणम्,
१०. सम्पदा-अधिकारस्य संरक्षणम्,
११.संस्थागतसंरचनात्मकश्च सुधारः,
१२.नीतिगतपरिवर्तनम्,
१३.अन्तर्राष्ट्रीयसंस्थानस्य निर्देशपरिपालनम्,
१४. अन्तर्राष्ट्रीयसहयोगः,
१५.पारदर्शिता। उपरोक्तकार्यक्रमद्वारा भारतीयअर्थव्यवस्थायाः शीघ्र-वैश्वीकरणं सम्भवोऽस्ति।

उपसंहारः[सम्पादयतु]

प्राचीनकालादेव भारतीयाः जनाः सद्भावस्य पक्षपातिनः सन्ति। विश्वघटकेषु सर्वेष्वपि देशेषु निवसतां जनानां परस्परं सहयोगः प्रेम मैत्री च सद्भावः विद्यते। अनया भावनया कस्यापि जनस्य विशेषे धर्मे सम्प्रदाये जातौ भाषायां निष्ठायां तस्य मानवता एव सामान्यः धर्मः भवति। सद्भावे दृढीजाते जनः मानवतायाः प्रसाधकः भ्रातृभावस्य संस्थापकः देशस्य विश्वस्य राज्यस्य सम्प्रदायस्य धर्मस्य जातेः भाषायाश्च एकतायाः प्रसाधको भवितुर्महति। सद्भावेनैव मानवतायाः मङ्गलं जायते। प्राणी शिवस्वरूपः भवति, देशकालातीतः जायते सम्पूर्णविश्वञ्च एकराष्ट्रमिव समावलोकयति। विश्वेऽस्मिन् सर्वेषां देशानां निवासिषु विविधाचारविचारवेषभूषासंस्कृतिराष्ट्रियता-आहारविहारभाषादिभेदेष्वपि समक्षं प्रकाशनञ्च सद्भावपदवाच्यं भवति। विश्वस्य विभिन्नेषु राष्ट्रेषु विविधाकृतिवर्णजाति-धर्म-सम्प्रदायानां विविधाजनाः र्निवसन्ति परं ते मूलरूपेण मानवजातीयाः मानवा एव विद्यन्ते। सर्वेषामात्मा ईश्वरश्चैकोऽस्ति। अतः विश्वबन्धुत्वभावना, अन्ताराष्ट्रियभावना, भूमण्डलीकरणभावना, एकतायाः भावना सद्भावेन एव समुदेति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वैश्वीकरणम्&oldid=409735" इत्यस्माद् प्रतिप्राप्तम्