शङ्कराभरणम् (१९८० चलच्चित्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९८० तमे वर्षे तेलुगुभाषया निर्मितं संगीतनाट्यचलच्चित्रमस्ति शङ्कराभरणम्। अस्य चलच्चित्रस्य लेखकः निर्देशकः च के. विश्वनाथः आसीत्। के.वी.महादेवेन संरचितः ध्वनिपथः अतीव प्रसिद्धः अभवत्। द्वयोः भिन्नयोः परम्परयोः जनानां दृष्टिकोणस्य आधारेण, शास्त्रीय-पाश्चात्य-संगीतयोः भेदयोः विषये इदं चलच्चित्रं प्रकाशं क्षिपति ।