सामग्री पर जाएँ

शरच्चर्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयं पित्तप्रकोपस्य काल:।तस्मात् शरदारम्भ एव विरेचनं कार्यम्। तेन पित्तस्य शोधनं भवति।पित्तमत्यन्तं कुपितं चेद्, रक्तमोक्षणमपि आवशयकं भवति। आहारे तिक्तरसैर्भेषजद्रव्यै: सिद्धं घृतं समावेशनीयम्।आमलकं मधु शर्करा इत्येतानि द्रव्याण्याहारे भवेयु:।मधुर-तिक्त-कषाय-रसप्रचुर आहार: स्यात्।दिवा सूर्यांशुसन्तप्तं जलं निशि चन्द्रकिरणेषु स्थाप्यम्। तज्जलमस्मिनृतौ अतीव लाभप्रदं भवति।इदं च हंसोदकमिति कथ्यते।हंसोदकं त्रिदोषशामकं भवति।क्षारा:, दधि, तिलतैलं चाहारे न भवेत्।दिवानिद्रा, आतपसेवनं च वर्जनीयम्।रात्रे: प्रथमप्रहरे चन्द्रकिरणा: सेव्या:। तदानीमङ्गे चन्दनोशीरमुस्तादीनां शीतद्रव्याणामङ्गरागो भवेत्।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=शरच्चर्या&oldid=409748" इत्यस्माद् प्रतिप्राप्तम्